उज्जयिन्यभिधानकथनम्
सनत्कुमार उवाच
एकस्मिन्नंतरे व्यास यथोज्जयनी स्मृता पुरी ॥
तथाहं संप्रवक्ष्यामि शृणुष्व त्वं समाहितः
॥१॥त्रिपुराख्यो महादैत्यः सर्वदैत्यजनेश्वरः ॥
तपस्तेपे सुदुर्धर्षं ब्रह्मणस्तुष्टिकारणात्
॥२॥आतपे चाग्निसेवां वै प्रावृषि मेघडंबरम् ॥
दमयित्वा तदात्मानं शीतकाले जलाशये
॥३॥शीर्णपत्र जलाहारो वायुभक्षी निराश्रयः ॥
गायत्रीव्रतमास्थाय त्यक्तसर्वपरिग्रहः
॥४॥एवं वर्षसहस्रं तु तपस्तप्तं सुदुश्चरम् ॥
पूर्णे वर्षसहस्रे तु ब्रह्मा प्रीततमो ऽब्रवीत्
॥५॥व्रियतां भोऽसुरश्रेष्ठ वरं मत्तोभिवांछितम् ॥
तत्सर्वं सांप्रतं लोके वरं तुभ्यं ददामि वै
॥६॥एवमुक्तः स विधिना दैत्यस्त्रिपुरसंज्ञितः ॥
उवाच वचनं सद्यो ब्रह्माणं संशितव्रतम् ॥
त्रिपुर उवाच ॥
यदि तुष्टमना ब्रह्मन्वरं मे दातुमिच्छसि ॥
देवदानगंधर्वपिशाचोरगराक्षसैः ॥
अवध्योऽहं सदा भूयां वरमेतद्वृणोम्यहम्
॥८॥ब्रह्मोवाच
एवं भवतु भो वत्स विचरस्वाकुतोभयः ॥
इत्युक्त्वा सहसा ब्रह्मा तत्रैवांतरधीयत
॥९॥तदारभ्य महादैत्यो देवानां कदनं महत् ॥
चकार कोपपूर्णो वै पूर्ववैरमनुस्मरन्
॥१०॥वासयित्वा यत्र तत्र त्रिपुराणि चराणि च ॥
अत्र वासकृतः सर्वे वर्णाश्रमपरा जनाः
॥११॥तेषां वै कदनं चक्रे नानोपायेन पापधीः ॥
तस्मिन्पुरे दुष्टवासे ब्राह्मणा वेदपारगाः
॥१२॥न जुहुयुश्चाग्निहोत्रं सोमपानं न कर्हिचित् ॥
कुतश्चित्सुकृतं कर्म जनाः कुर्वंति नो मुने
॥१३॥स्वाहाकारस्वधाकारवषट्कारविवर्जिताः ॥
नोत्सवो दृश्यते गेहे कस्यचिद्भुवि विस्तृतः
॥१४॥देवतायतनं नास्ति तथा नो शिवपूजनम् ॥
नास्ति यज्ञो न दानानि न गोब्राह्मणपूजनम्
॥१५॥सदाचारजनो नास्ति दया मानविवर्जिता ॥
न दानी नोपकारी च तपस्वी नैव दृश्यते
॥१६॥एवं व्यास पुरे तस्मिन्नष्टप्रायमिदं जगत् ॥
प्रजानां ब्राह्मणा मूलं वेदमूला हि ब्राह्मणाः
॥१७॥वेदमूलपरा यज्ञा यज्ञमूला हि देवताः ॥
तस्माद्व्यास हतं सर्वं कृतं तेन दुरात्मना
॥१६॥तेन देवगणाः सर्वे हतप्राया हतौजसः ॥
विचरंति यथा मर्त्या भुवि तेन पराजिताः
॥१९॥अन्योन्यकृतसंधाना मंत्रं कृत्वा समा हिताः ॥
जग्मुस्ते तत्र यत्रास्ते प्रजापतिरकल्मषः
॥२०॥त्रिदशाः कथयामासुरात्मव्यसनकारणम् ॥
तज्ज्ञात्वा सहसोत्थाय ब्रह्मा लोकपिता महः
॥२१॥जगाम त्रिदशैः सार्धं महाकालवनोतमम् ॥
यत्रास्ते सततं देव उमया सहितः शिवः
॥२२॥यत्रावंती पुरी दिव्या सर्वतीर्थनिषेविता ॥
तत्रागत्य सुरैः साकं स्वयंभूश्चतुराननः
॥२३॥स्नानं दानं जपं होमं कृत्वा रुद्रसरे तदा ॥
पूजयित्वा महाकालं ब्रह्मा वचनमब्रवीत्
॥२४॥ब्रह्मोवाच
देवदेव महादेव भक्तानामभयंकर ॥
श्रूयतां भोः सुरश्रेष्ठ देवकार्यमनुत्तमम्
॥२५॥त्रिपुरोनाम दैत्येंद्रो देवानां कदनं महत् ॥
करोति सततं दैत्यो देवब्राह्मणनिंदकः
॥२६॥वासयित्वा पुरस्तिस्रो विस्तीर्णा विचरत्यथ ॥
तत्र स्थितानि भूतानि नाशं यांति दुरात्मना
॥२७॥एवं कृत्वा प्रजाः सर्वाः क्षयं नीताश्चराचराः ॥
उद्वासितानि द्वीपानि ग्रामाश्च नगराणि च
॥२८॥ऋषीणामाश्रमाः सर्वे यतीनामायतनानि च ॥
एवं कृत्वा सुराः सर्वे भ्रष्टराज्याः पराजिताः ।
ऽ
॥२९॥विचरंति यथा मर्त्यास्त्रिपुरेण दुरात्मना ॥
मत्तो लब्धवरो नित्यं व्रजत्येवाकुतोभयः
॥३०॥तस्मात्सर्वप्रयत्नेन वधस्तस्य विचिंत्यताम्
॥३१॥इति श्रुत्वा वचस्तस्य ब्रह्मणः संशितात्मनः ॥
चिरं ध्यात्वा महादेवो ब्रह्माणं तमुवाच ह
॥३२॥महादेव उवाच
श्रूयतां भोः सुरश्रेष्ठा ब्रह्मशक्रपुरोगमाः ॥
जयोपायं करिष्यामि दैत्यस्यास्य दुरात्मनः
॥३३॥तपश्चरत यूयं वा आत्मनो जयकांक्षिणः ॥
अवंत्यां यद्धुतं दत्तं तत्सर्वं चाक्षयं भवेत्
॥३४॥इत्युक्त्वा सर्वदेवानां तत्रैवांतर्हितः शिवः ॥
गत्वा स्मशाननिलये भूतप्रेतनिषेविते
॥३५॥जयार्थं तस्य दैत्यस्य त्रिपुरस्य दुरात्मनः ॥
उपासांचक्रिरे तत्र चामुण्डायाः सुरेश्वराः
॥३६॥महिषैश्च महामेध्यैः पशुपुष्पार्घतर्पणैः ॥
बलिभिर्विविधैर्दानैर्धूपदीपाग्नितर्पणैः ॥
पूजयित्वा तदा देवीं तामीडे वृषभध्वजः
॥३७॥दुर्गां भगवतीं भद्रां दुर्गसंसारतारणीम् ॥
त्रिपुरांतकारिणीं कृत्यां चंडमुंडवधोद्यमाम्
॥३८॥दैत्यमेदोमदोन्मत्तां रक्ताख्यां रक्तदंतिकाम् ॥
रक्तांबरधरां धीरां रक्तपुष्पावतीं सतीम्
॥३९॥महिषवाहिनीं श्यामां यक्षासनपरिग्रहाम् ॥
द्वीपिचर्मपरीधानां शुष्कमांसाति भैरवाम्
॥४०॥पूजयित्वा प्रसन्नात्मा ध्यानमास्थाय संस्थितः ॥
तदा भगवती भद्रा ययेदं धार्यते जगत् ॥
प्रसन्नवदना भूत्वा प्रत्यक्षं प्राह चंडिका
॥४१॥देव्युवाच
व्रियतां भोः सुरश्रेष्ठ वरं मत्तोऽभिवांछितम् ॥
सर्वं त्वयोक्तं यच्छामि जगतामुपकारकम्
॥४२॥श्रीहर उवाच
यदि तुष्टासि वै देवि देहि मे वरमुत्तमम् ॥
येन हन्मि महादैत्यं त्रिपुरं देवकंटक म्
॥४३॥श्रीदेव्युवाच
जय ह्येनं महादेव गृहाण पाशुपतं परम् ॥
मया दत्तं सुरश्रेष्ठ दैत्यनाशकरं परम्
॥४४॥महापाशुपतं शस्त्रं करे कृत्वा च शंकरः
॥४५॥उज्जहार तदा शंभुर्दैत्यनाशाय सत्वरः ॥
महाडंबरिको भूत्वा सर्वप्राणिभयंकरः
॥४६॥स्तुतिं कृत्वा ययौ वाग्भिः पृष्ठतोऽनुययुः सुराः ॥
शरेणैकेन वै रुद्रो जघान तं महासुरम्
॥४७॥मायिनं तं त्रिधा भित्त्वा मायायुद्धेन शंकरः ॥
पुनरागात्पुरीमेतामवंतीममरसेविताम्
॥४८॥जयाशिषा प्रयुंजाना ऋषयः सिद्धचारणाः ॥
तुष्टुवुश्च तदा देवा जयशब्देन हर्षिताः
॥४९॥अप्सरा ननृतुस्तत्र गंधर्वा ललितं जगुः ॥
ववौ तदा पुण्यतमो वायुः सुखप्रदो नृणाम्
॥५०॥जयशब्दस्तदा जातः प्राणिनां च गृहेगृहे ॥
जज्वलुश्चाग्नयः शांताः शांता दिग्ज नितस्वनाः
॥५१॥प्रवर्तंते तदा यज्ञा महोत्सवसदक्षिणाः ॥
देवाः प्रपेदिरे स्थानं स्वकीयं पुनरादृतम्
॥५२॥उज्जितो दानवो यस्मात्त्रैलोक्ये स्थापितं यशः ॥
तस्मात्सर्वैः सुरश्रेष्ठैर्ऋषिभिः सनकादिभिः
॥५३॥कृतं नाम ह्यवंत्या वा उज्जयिनी पापनाशिनी ॥
अवंती च पुरा प्रोक्ता सर्वकामवरप्रदा
॥५४॥अद्यप्रभृति पुरी व्यास उज्जयिनी समाश्रिताः ॥
येऽस्यां च स्नानदानादि भुवि कुर्वंति मानवाः
॥५५॥न तेषां दुष्कृतं किंचिद्देहे तिष्ठति पापजम्
॥५६॥विद्यार्थी गिरीशं धनार्थी धनेशं सुतार्थी सुतेशं दिनेशं सुखार्थी ॥
धियोर्थी गणेशं प्रियार्थी वसेद्वै गिरां ग्राह्य मानी जनश्चोज्जयिन्याम् ॥
५७ य एतस्यां महाभाग सदा वसति मानवः ॥
भुक्त्वा कामान्मनोऽभीष्टान्मृतः शिवपुरं व्रजेत्
॥५८॥तत्रैव वसते नित्यं कल्पकोटिशताधिकम्
॥५९॥य एतां वै कथां पुण्यां पठते शृणुतेऽथ वा ॥
मुच्यते सर्वपापेभ्यो गोसहस्रफलं लभेत्
॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये उज्जयिन्यभिधानकथनंनाम त्रिचत्वारिंशो ऽध्यायः ॥ ४३ ॥