भगवन्क्षेत्रमाहात्म्यं कथितं च यथातथम्
व्यास उवाच
भगवन्क्षेत्रमाहात्म्यं कथितं च यथातथम् ॥
तीर्थानामुत्तमं तीर्थं पुण्यानां पुण्यवर्धनम्
॥१॥कति संत्यत्र तीर्थानि लिंगानि च तथा कति ॥
कथयस्व प्रसादेन पृच्छतो मम सांप्रतम्
॥२॥सनत्कुमार उवाच
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
महाकालवने व्यास लिंगसंख्या न विद्यते
॥३॥अकामो वा सकामो वा जायते योऽत्र मानवः ॥
महाकालवने रम्ये शिवलोके महीयते
॥४॥कृतकामानि तीर्थानि प्रासादायतनानि च ॥
तेषु स्नात्वा शुचिर्भूत्वा शिवलोके महीयते
॥५॥पुण्यानि सर्वतीर्थानि सिद्धिक्षेत्राणि सर्वतः ॥
तेषां मुख्यतमं विद्धि क्षेत्रं तीर्थं तथोत्तमम्
॥६॥यः शृणोति महाभक्त्या स याति परमां गतिम्
॥७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥