मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ६३

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 63

वामनकुण्डमहिमविष्णुसहस्रनामकथनम्

सनत्कुमार उवाच

कंथडेश्वर इति ख्यातं तत्र तीर्थमनुत्तमम् ॥

तत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम्

॥१॥

मुच्यते सर्वपापेभ्यः शुचिः प्रयतमानसः ॥

विमानशतसंयुक्तः शिवलोके महीयते

॥२॥

भुवि पुण्यतमं तीर्थं सर्वपापहरं परम् ॥

खगर्तासंगमो यत्र गंगेश्वरसमीपतः

॥३॥

महापापहरं पुण्यं महापुण्यफलप्रदम् ॥

आकाशात्पतिता यत्र गंगा त्रैलोक्य पावनी

॥४॥

विधृता शिरसि सद्यो महादेवेन शंभुना ॥

तस्मिंस्तीर्थे नरः स्नात्वा गंगेशमवलोकयेत्

॥५॥

गंगास्नानफलं प्राप्य विष्णु लोके महीयते ॥

वीरेश्वरमनुप्राप्य तस्मिंस्तीर्थे नरो वसेत्

॥६॥

सर्वपापविशुद्धात्मा वीरलोकमवाप्नुयात् ॥

तीर्थमन्यन्महापुण्यं भुवि ख्यातं महर्षिभिः

॥७॥

वामनकुण्डेति विख्यातं त्रिषु लोकेषु विश्रुतम् ॥

यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति

॥८॥

मनोरथशतं प्राप्य पश्चाद्विष्णु पुरं व्रजेत् ॥

व्यास उवाच ॥

कदा काले समुत्पन्नं वामनाख्यं पुराऽनघ

॥९॥

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥

सनत्कुमार उवाच ॥

शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम्

॥१०॥

यस्य श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥

दैत्येंद्रस्तु पुरा प्रोक्तो विष्णुभक्तिपरायणः

॥११॥

प्रह्राद इति विख्यातः सर्वधर्मभृतां वरः ॥

आचारविजितो धर्मः सत्येन विजिता रमा

॥१२॥

धैर्येण च धृता लोकाः क्षमया विधृता मही ॥

गांभीर्येणाऽर्णवा दिव्याः शौर्येण शत्रुणा गणाः

॥१३॥

प्रश्रयेणाभ्यागताश्च जितास्तेन महात्मना ॥

दक्षिणाभिर्जितो यज्ञो हविषा हव्यवाहनः

॥१४॥

शौचाऽऽचारविशुद्धात्मा तपसा च हताऽशुभः ॥

दानमानजिता विप्रा भोजनाच्छादना दिभिः

॥१५॥

संस्कारेण जितं जन्म दमेनाऽऽत्मा सनातनः ॥

प्राणायामजितो वायुर्योगध्यानजितो हरिः

॥१६॥

ईदृशश्च महायोगी सत्यधर्म परायणः ॥

प्रह्लादेन समो धीरो न भूतो न भविष्यति

॥१७॥

तस्य पौत्रः सदाचारी बलिरित्यभिधीयते ॥

तस्य पालयतः सम्यक्प्रजाः सम्यग्विवर्धिताः

॥१८॥

नाल्पायुर्न जडो मूर्खो न रोगी न च मत्सरी ॥

अपुत्रो द्रव्यहीनश्च कोऽपि नाऽस्ति महीतले

॥१९॥

महाराजो महीपालो यज्वा विपुलदक्षिणः ॥

सप्तद्वीपवती तेन पालिता वसुधा सदा

॥२०॥

एकदा च समासीने सभामध्ये वरासने ॥

जय शब्दे वर्तमाने गंधर्वा ललितं जगुः

॥२१॥

वाद्यमानेषु वाद्येषु ननृतुश्चाऽप्सरोगणाः ॥

कथायां कथ्यमानायां शुभायां च विचक्षणैः

॥२२॥

सूता वैतालिकाः सिद्धाश्चारणाश्च बहुश्रुताः ॥

ऋषयश्च समायातास्तत्रैव द्विजसत्तम

॥२३॥

सुन्दोपसुन्दतुहुंडाद्या महिषासुरकोल्बणाः ॥

शुम्भनिशुम्भधूम्राक्षकालकेयाश्च दानवाः

॥२४॥

कालनेमिश्च विक्रांतो दौर्हृदो मूषको यमः ॥

निकुम्भः कुम्भविशठो ह्यन्धकश्च महाबलः

॥२५॥

शंखो जलंधरो रौद्रो वातापी च बलाधिकः ॥

सर्वजिद्विश्वहंता च कामचारी हलायुधः

॥२६॥

एते चाऽन्ये च बहवो दनुवंशवि वर्धनाः ॥

उपासांचक्रिरे तत्र बलिराजमकल्मषम्

॥२७॥

सिद्धा नागाश्च यक्षाश्च किन्नराः किंपुरुषास्तथा ॥

खेचरा भूचरा बाला राक्षसाश्चैव दारुणाः

॥२८॥

एते चाऽन्ये च बहवो राजानं पर्युपासत ॥

तत्र सभा महादिव्या शुशुभे च द्विजोत्तम

॥२९॥

ग्रहैरुज्वलितैः कीर्णो शरदीव नभःस्थलम् ॥

तत्सभायां समासीनो रराज बलिराट् तथा

॥३०॥

मरुद्भिरिव संवीतो वासवो दिवि देवतैः ॥

एकदा च सभामध्ये नारदो देवदर्शनः

॥३१॥

आगतस्तेषु सर्वेषु दानवेषु स्थितेषु च ॥

दृष्ट्वा तमागतं सर्वे ह्युत्तस्थुर्दितिनंदनाः

॥३२॥

ववन्दिरे सर्वशस्तु बलिना किंनरोत्त मम् ॥

सकृत्य चासनं दत्त्वा पप्रच्छ कुशलं नृपः

॥३३॥

कृत्वाऽऽतिथ्यं समासीनो नारदः प्राह सत्तमः ॥

मेघगंभीरया वाचा बलिं प्राहर्षिस त्तमः

॥३४॥

नारद उवाच

श्रूयतां दितिजश्रेष्ठ गतोऽहं वृषमंदिरे ॥

तत्र देवसभा रम्या दिव्याऽभिप्रायसंयुता ॥

तत्र देवाः सगंधर्वाः पुरंदरपुरोगमाः

॥३५॥

समासीनाः कथां पुण्यां कथयंति परस्परम् ॥

तत्र दैत्यकथां शुभ्रां मया ख्यातां न सेहिरे

॥३६॥

हिरण्यकशिपुर्दैत्यः पुराऽऽसीच्च प्रजापतिः ॥

त्रैलोक्यविजयी नेता येनेयं वसुधा जिता

॥३७॥

सर्वलोकं वशीकृत्य बुभुजे च वसुन्धराम् ॥

अतीव तेजःसंपन्नो महाबलपराक्रमः

॥३८॥

वशी सर्वत्रगः कामी नृसिंहेन निपातितः ॥

बलिं कियद्बलं लोके नारद त्व प्रशंससि

॥३९॥

इति मां धर्षयित्वा च बिडौजा लोकसंग्रही ॥

बहुधा वादयन्वादान्कटुकान्दानवोत्तम

॥४०॥

तस्मात्त्वं दानवश्रेष्ठ पितृपर्यागतां महीम् ॥

विजित्य सार्वभौमत्वं लभस्व वसुधाधिप

॥४१॥

कियद्बलधृता नूनं देवाश्च दनुजोत्तम ॥

पलायनपरा दांता सदैव रणभीरवः

॥४२॥

मम वाक्यपरो भूत्वा त्रैलोक्याधिपतिर्भव ॥

नारदस्य वचः श्रुत्वा वलिर्वैरोचनिस्तदा

॥४३॥

चकार कोपमतुलं त्रैलोक्यविजये द्विज ॥

मंत्रयित्वाऽसुरान्सर्वान्सर्वदैत्यजनेश्वरः

॥४४॥

संग्राममकरोत्तीव्रं वासवेन बलीयसा ॥

जित्वा च सकलाल्देवान्वशीचक्रे सवासवान्

॥४५॥

सर्वलोकेश्वरो जातो बलिर्वैरोचनोऽसुरः ॥

हताधिकारास्त्रिदशा भ्रष्टराज्याः पराजिताः

॥४६॥

विचरंति यथा मर्त्यास्तेन देवगणा भुवि ॥

किंचित्कालं समासाद्य ब्रह्माणं शरणं ययुः

॥४७॥

भो ब्रह्मन्बलिना भ्रष्टा देवलोकात्परंतप ॥

किं कुर्मः क्व च गच्छामः कमुपा यं चरामहे

॥४८॥

ब्रह्मोवाच

श्रूयतां भोः सुरश्रेष्ठा युष्माकं साधनं परम् ॥

यूयं यात पुरीं रम्यां पद्मावतीमम रोत्तमाः

॥४९॥

तत्र तीर्थवरं श्रेष्ठं नाम्ना चोत्तरमानसम् ॥

यत्राऽष्टसिद्धिदा ख्याता महासिद्धिप्रदा नृणाम्

॥५०॥

निधयश्च नवैवापि तत्र तिष्ठंति सत्तम ॥

तस्यैव दक्षिणे भागे विष्णुतीर्थमनुत्तमम्

॥५१॥

तत्र स्नात्वा नरः पश्येत्सिद्धेश्वरीं सुसिद्धिदाम् ॥

ऋद्धिसिद्धिपरोभूत्वा विष्णु लोके महीयते

॥५२॥

आश्विनस्य सिते पक्षे दशम्यां दिवसे तथा ॥

अष्टसिद्धिशमीदेशे गणेश्वरं प्रपूजयेत्

॥५३॥

विजयी सर्वलोकेषु जाय ते नात्र संशयः ॥

शमीमूलस्थितं नित्यमृद्धिसिद्धिवरप्रदम्

॥५४॥

पूजयेद्वै नरो नित्यं गणेशं सर्वकामदम् ॥

सर्वकामवरं लब्ध्वा पुत्रवान्धनवान्भवेत्

॥५५॥

तस्मात्सर्वप्रयत्नेन महाकालवनं व्रजेत् ॥

यत्र विष्णुसरस्तीर्थं तत्र गच्छत माचिरम्

॥५६॥

उपासनां सुरश्रेष्ठा विष्णोरतु लेतेजसः ॥

कुरुध्वं सर्वभीतिभ्यस्त्राता स स्यात्सुरोत्तमाः

॥५७॥

इति श्रुत्वा वचस्तस्य ब्रह्मणः शंसितात्मनः ॥

महाकालवने प्राप्ता देवास्ते कार्यसाधकाः

॥५८॥

अत्राऽऽगात्य शुचीभूय स्नानदानादिकर्मभिः ॥

उपासांचक्रिरे सिद्धा विष्णुभक्तिपरायणाः

॥५९॥

ब्रह्माणमथ ते सर्वे पप्रच्छुर्विधिमादरात् ॥

उपासनाया देवस्य देवाः शक्रपुरोगमाः

॥६०॥

देवा ऊचुः

ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत् ॥

तत्सर्वं श्रोतु मिच्छामस्त्वत्तो ब्रह्मविदां वर

॥६१॥

ब्रह्मोवाच

श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् ॥

शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम्

॥६२॥

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः

॥६३॥

येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥

अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि

॥६४॥

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

कल्पादौ सृष्टिकामेन प्रेरितोहं च शौरिणा

॥६५॥

न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः ॥

एतस्मिन्नंतरे सद्यो मार्कण्डेयो महाऋषिः

॥६६॥

सर्वसिद्धेश्वरो दांतो दीर्घायुर्विजितेंद्रियः ॥

मया दृष्टो ऽथ गत्वा तं तदाहं समुपस्थितः ॥

ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम्

॥६७॥

पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः ॥

तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः

॥६८॥

भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् ॥

तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवंदित

॥६९॥

श्रीमार्कण्डेय उवाच

विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी ॥

सर्वपापहरा पुण्या सर्वसुखप्रदायिनी

॥७०॥

एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् ॥

कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च

॥७१॥

ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन ॥

तद्गतं सर्वं विघ्रंति यत्तद्धर्मं सनातनम्

॥७२॥

एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् ॥

पवित्रं च पवित्राणां पावनानां च पावनम्

॥७३॥

विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् ॥

सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम्

॥७४॥

ॐ अस्य श्रीविष्णुसहस्रनामस्तोत्रमंत्रस्य मार्कंडेय ऋषिः विष्णुर्देवता अनुष्टुप्च्छंदः सर्वकामावात्यर्थे जपे विनियोगः ॥

अथ ध्यानम् ॥

सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् ॥

व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम्

॥७५॥

ॐविश्वं विष्णुर्हषीकेशः सर्वात्मा सर्वभावनः ॥

सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः

॥७६॥

अनादिनिधनो देवः सर्वज्ञः सर्वसंभवः ॥

सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥

जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः ॥

जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः

॥७८॥

सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः ॥

अजन्मा शाश्वतो नित्यो विश्वाधा रो विभुः प्रभुः

॥७९॥

बहुरूपैकरूपश्च सर्वरूपधरो हरः ॥

कालाग्निप्रभवो वायुः प्रलयांतकरोऽक्षयः

॥८०॥

महार्णवो महामेघो जलबुद्बुदसं भवः ॥

संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिंगिलः

॥८१॥

अनंतो वासुकिः शेषो वराहो धरणीधरः ॥

पयःक्षीरविवेकाढ्यो हंसो हेम गिरिस्थितः

॥८२॥

हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ॥

मंथनो रत्नहारी च कूर्मो धरधराधरः

॥८३॥

विनिद्रो निद्रितो नंदी सुनंदो नंदनप्रियः ॥

नाभिनालमृणाली च स्वयंभूश्चतुराननः

॥८४॥

प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ॥

मरीचिः कश्यपो दक्षः सुरासुरा गुरुः कविः

॥८५॥

वामनो वाममार्गी च वामकर्मा बृहद्वपुः ॥

त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः

॥८६॥

यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः ॥

सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान्

॥८७॥

तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः ॥

देवराजः सुरपतिर्दानवारिः शची पतिः

॥८८॥

अग्निर्वायुसखो वह्निर्वरुणो यादसां पतिः ॥

नैर्ऋतो नादनोऽनादी रक्षयक्षोधनाधिपः

॥८९॥

कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् ॥

अमृतस्रवणः सोमः सोमपानकरः सुधीः

॥९०॥

सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः ॥

विषारिर्विषहर्ता च विषकंठधरो गिरिः

॥९१॥

नीलकंठो वृषी रुद्रो भालचंद्रो ह्युमापतिः ॥

शिवः शांतो वशी वीरो ध्यानी मानी च मानदः

॥९२॥

कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः ॥

बटुको भैरवो बालः कपाली दंडविग्रहः

॥९३॥

स्मशानवासी मांसाशी दुष्टनाशी वरांतकृत् ॥

योगिनीत्रासको योगी ध्या नस्थो ध्यानवासनः

॥९४॥

सेनानीः सेनदेः स्कंदो महाकालो गणाधिपः ॥

आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः

॥९५॥

ऋद्धिसिद्धिप्रदो दंती भालचन्द्रो गजाननः ॥

नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत्

॥९६॥

प्रह्रादपोषकर्ता च सर्वदैत्यजनेश्वरः ॥

शलभः सागरः साक्षी कल्प कल्पकः

॥९७॥

हेमदो हेमभागीच हिमकर्ता हिमाचलः ॥

भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः

॥९८॥

लोकालोकांतरो लोकी विलोकी भुवनेश्वरः ॥

दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेंद्रियः

॥९९॥

विरूपो रूपवान्रागी नृत्यगीतविशारदः ॥

हाहा हूहूश्चित्ररथो देव र्षिर्नारदः सखा

॥१००॥

विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ॥

कपिलो जल्पको वादी दत्तो हैहयसंघराट्

॥१॥

वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ॥

जामदग्न्यो महावीरः क्षत्रियांऽतकरो ह्यृषिः

॥२॥

हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ॥

अगस्तिः पुलहो दक्षः पौल स्त्यो रावणो घटः

॥३॥

देवारिस्तापसस्तापी विभीषणहरिप्रियः ॥

तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः

॥४॥

दाशरथी राघवो रामो रघुवंश विवर्धनः ॥

सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः

॥५॥

सन्नद्धः कवची खड्गी चीरवासा दिगंबरः ॥

किरीटी कुडली चापी शंखचक्री गदाधरः

॥६॥

कौसल्यानंदनोदारो भूमिशायी गुहप्रियः ॥

सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः

॥७॥

लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ॥

हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः

॥८॥

दूतप्रियो दूतकारी ह्यंगदो गदतां वरः ॥

वनध्वंसी वनी वेगो वानरध्वज लांगुली

॥९॥

रविदंष्ट्री च लंकाहा हाहाकारो वरप्रदः ॥

भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः

॥११०॥

जानकीवल्लभः कामी किरीटी कुण्डली खगी ॥

पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः

॥११॥

चंचलश्चपलः कामी वामी वामांगवत्सलः ॥

स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामांगवासकः

॥१२॥

जितवैरी जितकामो जितक्रोधो जितेंद्रियः ॥

शांतो दांतो दयारामो ह्येकस्त्रीव्रतधारकः

॥१३॥

सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः ॥

बहुराक्षस संवीतः सर्वराक्षसनाशकृत्

॥१४॥

रावणारी रणक्षुद्र दशमस्तकच्छेदकः ॥

राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः

॥१५॥

अयोध्याधिपतिः कांतो वैकुंठोऽकुंठविग्रहः ॥

सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः

॥१६॥

सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः ॥

प्राणश्चाथाप्यपानश्च व्यानोदानः समानतः

॥१७॥

नागः कृकलः कूर्मश्च देवदत्तो धनंजयः ॥

सर्वप्राणविदो व्यापी योगधारकधारकः

॥१८॥

तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः ॥

ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः

॥१९॥

ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसंभवः ॥

अध्यात्मविद्विदो दीपो ज्योतीरूपो निरंजनः

॥१२०॥

ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ॥

सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः

॥२१॥

मंत्रदो मंत्रहा मंत्री तंत्री तन्त्रजनप्रियः ॥

सन्मंत्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभंजनः

॥२२॥

मारणो मोहनो मोही स्तंभोच्चाटनकृत्खलः ॥

बहुमायो विमायश्च महामायाविमोहकः

॥२३॥

मोक्षदो बंधको बंदी ह्याकर्षणविकर्षणः ॥

ह्रींकारो बीजरूपी च क्लींकारः कीलकाधिपः

॥२४॥

सौंकार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः ॥

अकारोकार ओंकारश्छंदोगायत्रसम्भवः

॥२५॥

वेदो वेदविदो वेदी वेदाऽध्यायी सदाशिवः ॥

ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी

॥२६॥

त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ॥

प्राकृतः संस्कृतो योगी गीतग्रंथप्रहेलिकः

॥२७॥

सगुणो विगुणश्छंदो निःसंगो विगुणो गुणी ॥

निर्गुणो गुणवान्संगी कर्मी धर्मी च कर्मदः

॥२८॥

निष्कर्मा कामकामी च निःसंगः संगवर्जितः ॥

निर्लोभो निरहंकारी निष्किंचनजनप्रियः

॥२९॥

सर्वसंगकरो रागी सर्वत्यागी बहिश्चरः ॥

एकपादो द्विपादश्च बहु पादोऽल्पपादकः

॥१३०॥

द्विपदस्त्रिपदोऽपादी विपादी पदसंग्रहः ॥

खेचरो भूचरो भ्रामी भृंगकीटमधुप्रियः

॥३१॥

क्रतुः संवत्सरो मासो गणितार्को ह्यहर्निशः ॥

कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः

॥३२॥

दिवाकालकरः कालः कुलधर्मः सनातनः ॥

कला काष्ठा कला नाड्यो यामः पक्षः सितासितः

॥३३॥

युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ॥

कुलाचारः कुलकरः कुलदैवकरः कुली

॥३४॥

चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ॥

वनस्थो वनचारी च वानप्रस्थाऽऽश्रमोऽश्रमी

॥३५॥

बटुको ब्रह्मचारी च शिखासूत्री कमण्डली ॥

त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत्

॥३६॥

हेमाद्रिप्रभवो हैमो हेमराशिर्हि माकरः ॥

महाप्रस्थानको विप्रो विरागी रागवान्गृही

॥३७॥

नरनारायणोऽनागो केदारोदारविग्रहः ॥

गंगाद्वारतपःसारस्तपोवन तपोनिधिः

॥३८॥

निधिरेष महापद्मः पद्माकरश्रियालयः ॥

पद्मनाभः परीतात्मा परिव्राट्पुरुषोत्तमः

॥३९॥

परानंदः पुराणश्च सम्राड्राज विराजकः ॥

चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः

॥१४०॥

आयुर्वेदविदो वैद्यो धन्वंतरिश्च रोगहा ॥

औषधीबीजसंभूतो रोगी रोगविनाशकृत

॥४१॥

चेतनश्चेतकोऽचिंत्यश्चित्तचिंताविनाशकृत् ॥

अतींद्रियः सुखस्पर्शश्चरचारी विहंगमः

॥४२॥

गरुडः पक्षिराजश्च चाक्षुषो विनता त्मजः ॥

विष्णुयानविमानस्थो मनोमयतुरंगमः

॥४३॥

बहुवृष्टिकरो वर्षो ऐरावणविरावणः ॥

उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः

॥४४॥

प्रावृषो मेघमाली च गजरत्नपुरंदरः ॥

वसुदो वसुधारश्च निद्रालुः पन्नगाशनः

॥४५॥

शेषशायी जलेशायी व्यासः सत्यवतीसुतः ॥

वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः

॥४६॥

स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ॥

सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः

॥४७॥

सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ॥

बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी

॥४८॥

जटिलो भस्मरागी च दिव्यांबरधरः शुचिः ॥

अणुरूपो बृहद्रूपो विरूपो विकराकृतिः

॥४९॥

समुद्रमाथको माथी सर्वरत्नहरो हरिः ॥

वज्रवैडूर्यको वज्री चिंतामणिमहामणिः

॥१५०॥

अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ॥

पिता माता शिशुर्बंधुर्धाता त्वष्टार्यमा यमः

॥५१॥

अंतःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ॥

पावनः पावकः पाकी सर्वभक्षी हुताशनः

॥५२॥

भगवान्भगहा भागी भवभंजो भयंकरः ॥

कायस्थः कार्यकारी च कार्यकर्ता करप्रदः

॥५३॥

एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ॥

बालकस्तारकस्त्राता कालो मूषकभक्षकः

॥५४॥

संजीवनो जीवकर्ता सजीवो जीवसंभवः ॥

षड्विंशको महा विष्णुः सर्वव्यापी महेश्वरः

॥५५॥

दिव्यांगदो मुक्तमाली श्रीवत्सो मकरध्वजः ॥

श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः

॥५६॥

चीरवासा विवासाश्च भूतदानववल्लभः ॥

अमृतोऽमृतभागी च मोहिनीरूपधारकः

॥५७॥

दिव्यदृष्टिः समदृष्टिर्देवदानववंचकः ॥

कबंधः केतुकारी च स्वर्भानुश्चंद्रतापनः

॥५८॥

ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ॥

दानमानजपो होमः सानुकूलः शुभग्रहः

॥५९॥

विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ॥

अपकारोपकारी च सर्वसिद्धिफलप्रदः

॥१६०॥

सेवकः सामदानी च भेदी दंडी च मत्सरी ॥

दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही

॥६१॥

हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ॥

होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः

॥६२॥

द्रव्यं पात्राणि संकल्पो मुशलो ह्यरणिः कुशः ॥

दीक्षितो मंडपो वेदिर्यजमानः पशुः क्रतुः

॥६३॥

दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ॥

आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः

॥६४॥

प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ॥

सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः

॥६५॥

वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ॥

क्षीरं क्षीरवहः क्षीरी क्षीरभागविभामवित्

॥६६॥

राज्यभागविदो भागी सर्वभागविकल्पकः ॥

वाहनो वाहको वेगी पादचारी तपश्चरः

॥६७॥

गोपनो गोपको गोपी गोपकन्याविहारकृत् ॥

वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः

॥६८॥

देवकीनंदनो नंदी नंदगोपगृहाऽऽश्रमी ॥

यशोदानंदनो दामी दामोदर उलूखली

॥६९॥

पूतनारिः पदाकारी लीलाशकटभंजकः ॥

नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः

॥१७०॥

वत्सरूपधरो वत्सी वत्सहा धेनुकांतकृत् ॥

बकारिर्वनवासी च वनक्रीडाविशारदः

॥७१॥

कृष्णवर्णाऽऽकृतिः कांतो वेणुवेत्रविधारकः ॥

गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः

॥७२॥

मायावत्सकरो मायी ब्रह्ममायापमोहकः ॥

आत्मसारविहारज्ञो गोपदारकदारकः

॥७३॥

गोचारी गोपतिर्गोपो गोवर्धनधरो बली ॥

इन्द्रद्यु्म्नो मखध्वंसी वृष्टिहा गोपरक्षकः

॥७४॥

सुरभित्राणकर्ता च दावपानकरः कली ।

कालीयमर्दनः काली यमुनाह्रदविहारकः

॥७५॥

संकर्षणो बलश्लाघ्यो बलदेवो हलायुधः ॥

लांगली मुसली चक्री रामो रोहिणिनंदनः

॥७६॥

यमुनाकर्षणोद्धारो नीलवासा हलो हली ॥

रेवती रमणो लोलो बहुमानकरः परः

॥७७॥

धेनुकारिर्महावीरो गोपकन्याविदूषकः ॥

काममानहरः कामी गोपीवासोऽपतस्करः

॥७८॥

वेणुवादी च नादी च नृत्यगीतविशारदः ॥

गोपीमोहकरो गानी रासको रजनीचरः

॥७९॥

दिव्यमाली विमाली च वनमालाविभूषितः ॥

कैटभारिश्च कंसारिर्मधुहा मधुसूदनः

॥१८०॥

चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ॥

मुरहा मोदका मोदी मदघ्नो नरकांतकृत

॥८१॥

विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ॥

सकलो विकलो वैद्यः कलितो वै कलानिधिः

॥८२॥

विद्याशाली विशाली च पितृमातृविमोक्षकः ॥

रुक्मिणी रमणो रम्यः कालिंदीपतिः शंखहा

॥८३॥

पांचजन्यो महापद्मो बहुनायकनायकः ॥

धुंधुमारो निकुंभघ्नः शंबरांतो रतिप्रियः

॥८४॥

प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ॥

फाल्गुनश्च गुडाकेशः सव्यसाची धनंजयः

॥८५॥

किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥

शिखंडी सात्यकिः शैब्यो भीमो भीमपराक्रमः

॥८६॥

पांचालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति. ॥

युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः

॥८७॥

नकुलः सहदेव श्च कर्णो दुर्योधनो घृणी ॥

गांगेयोऽथ गदापाणिर्भीष्मो भागीरथीसुतः

॥८८॥

प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोथ गौतमः ॥

अश्वत्थामा विकर्णश्चजहु?र्युद्धविशारदः

॥८९॥

सीमंतिको गदी गाल्वो विश्वामित्रो दुरासदः ॥

दुर्वासा दुर्विनीतश्च मार्कंडेयो महामुनिः

॥१९०॥

लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ॥

पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः

॥९१॥

त्रिकालोऽथ त्रिलिंगश्च त्रिनेत्रस्त्रिपदीपतिः ॥

यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः

॥९२॥

शल्यक्रीडी विक्रीडश्च यादवांतकरः कलिः ॥

सदयो हृदयो दायो दायदो दायभाग्दयी

॥९३॥

महोदधि र्महीपृष्ठो नीलपर्वतवासकृत ॥

एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः

॥९४॥

यज्ञनिंदी वेदनिंदी वेदबाह्यो बलो बलिः ॥

बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः

॥९५॥

भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ॥

त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः

॥९६॥

शालिग्रामः शिलायुक्तो विशालो गंडकाश्रयः ॥

श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः

॥९७॥

कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् ॥

कुंकुमी धवलो धीरः क्षमाकरो वृषाकपिः

॥९८॥

किंकरः किन्नरः कण्वः केकी किंपुरुषाधिपः ॥

एकरोमा विरोमा च बहुरोमा बृहत्कविः

॥९९॥

वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ॥

बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः

॥२००॥

व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ॥

असंख्येयोऽप्रमेयश्च संख्याकारो विसंख्यकः

॥१॥

मिहिकोत्तारकस्तारो बालचंद्रः सुधाकरः ॥

किंवर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः

॥२॥

निर्लोकश्च निराकारी बह्वाकारैककारकः ॥

दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः

॥३॥

द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः

॥४॥

आधारोऽपि विधारश्च धरासूनुः सुमंगलः ॥

मंगलो मंगलाकारो मांगल्यः सर्वमंगलः

॥५॥

नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ॥

सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम्

॥६॥

यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥

यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः

॥७॥

त्रिसंध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥

नंदते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः

॥८॥

प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसंकटात् ॥

सर्वान्कामानवाप्नोति लभते विपुलं यशः

॥९॥

विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ॥

वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात्

॥२१०॥

रणे घोरे विवादे च व्यापारे पारतंत्रके ॥

विजयी जयमाप्नोति सर्वदा सर्वकर्मसु

॥११॥

एकधा दशधा चैव शतधा च सहस्रधा ॥

पठते हि नरो नित्यं तथैव फलमश्नुते

॥१२॥

पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् ॥

मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसंचयम्

॥१३॥

कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि ॥

ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते

॥१४॥

महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे ॥

महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते

॥१५॥

अरण्ये प्रांतरे वाऽपि दावाग्निपरिवारिते ॥

सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले

॥१६॥

राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह संगमे ॥

विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः

॥१७॥

ग्रहपीडासु चोग्रासु वधबन्धगतावपि ॥

महार्णवे महानद्यां पोतस्थेषु न चापदः

॥१८॥

रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः ॥

पठनाच्छवणाद्वापि दिव्यकाया भवंति ते

॥१९॥

तुलसीवनसंस्थाने सरोद्वीपे सुरालये ॥

बद्रिकाश्रमे शुभे देशे गंगाद्वारे तपोवने

॥२२०॥

मधुवने प्रयागे च द्वारकायां समाहितः ॥

महाकालवने सिद्धे नियताः सर्वकामिकाः

॥२१॥

ये पठंति शतावर्तं भक्तिमंतो जितेंद्रियाः ॥

ते सिद्धाः सिद्धिदा लोके विचरंति महीतले

॥२२॥

अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् ॥

मोहनं मोहनानां च पवित्रं पापनाशनम्

॥२३॥

बालग्रहविनाशाय शांतीकरणमुत्तमम् ॥

दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम्

॥२४॥

पतद्गर्भा च वंध्या च स्राविणी काकवन्ध्यका ॥

अनायासेन सततं पुत्रमेव प्रसूयते

॥२५॥

पयःपुष्कलदा गावो बहुधान्यफला।

कृषिः ॥

स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत्

॥२६॥

अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने ॥

शांतिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः

॥२७॥

यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ ॥

एकाकी च जिताहारो जितक्रोधो जितेंद्रियः

॥२८॥

गरुडारोहसंपन्नः पीतवासाश्चतुर्भुजः ॥

वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति

॥२९॥

एकतः सकला विद्या एकतः सकलं तपः ॥

एकतः सकलो धर्मो नाम विष्णोस्तथैकतः

॥२३०॥

यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः ॥

सोऽयमेकेन श्लोकेन स्तुत एव न संशयः

॥३१॥

सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः ॥

सहस्रनामानंताक्षः सहस्रबाहुर्नमोस्तु ते

॥३२॥

विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् ॥

पठितव्यं सदा भक्तैः सर्वमंगलमंगलम्

॥३३॥

इति स्तवाभियुक्तानां देवानां तत्र वै द्विज ॥

प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः

॥३४॥

श्रीभगवानुवाच

व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवांछितः ॥

तत्सर्वं संप्रदास्यामि नाऽत्र कार्या विचारणा

॥३५॥

देवा ऊचुः

वरदोऽसि यदा विष्णो वरमेतं ददस्व नः ॥

अदितेर्गर्भसंभूतः शक्रस्याऽप्यनुजो भव

॥३६॥

इति संप्रार्थितो देवैर्ब्रह्मशक्रपुरोगमेः ॥

तथेत्युक्ता च भगवांस्तत्रैवांऽतरधीयत

॥३७॥

ततः कतिपये काले भगवानदितिनंदनः ॥

विष्णुरूपधरो ऽनंतो वामनत्वाच्च वामनः

॥३८॥

बलिर्वैरोचनो व्यास वाजिमेधशतेन च ॥

ईजे द्विजवरश्रेष्ठ इंद्रराज्यजिहीर्षया

॥३९॥

ऋत्विजं कश्यपं कृत्वा होतारं भृगुसत्तमम् ॥

ब्रह्मा तत्राभवच्चैव स्वयमेव पितामहः

॥२४०॥

अध्वर्युर्भगवानत्रिर्बभूव मुनिसत्तमः ॥

उद्गाता नारदश्चैव वसिष्ठश्च सभासदः

॥४१॥

ये यत्र विहिताः सर्वे तत्र तत्र मुनीश्वराः ॥

बलिस्तत्राऽभवद्व्यास दीक्षितो राजसत्तमः

॥४२॥

एवं प्रवर्तमानेषु यज्ञेषु मुनिसत्तम ॥

हूयतां भुज्यतां चैव दीयतां धीयतां तथा

॥४३॥

इति वाचः शुभास्तत्र श्रूयंते च द्विजोत्तम ॥

तस्मिन्काले सुचित्रेषु वामनोऽगाच्छुचिस्मितः

॥४४॥

पठमानो मुखाग्रेण चातुर्वेदिकमंत्रकान् ॥

द्वारे तिष्ठति राजेंद्र वामनो द्विजसत्तमः

॥४५॥

प्रतिहारेण वै व्यास सर्वं राज्ञे निवेदितम् ॥

उत्थाय च महाराजो बलिर्वैरोचनिस्तदा

॥४६॥

अर्घ्यमादाय तत्सर्वं जगाम स्वैः सभासदैः ॥

पूजयित्वा यथान्यायं वामनं लोकभावनम्

॥४७॥

आनयित्वा सभामध्ये दत्त्वाऽऽसनपरिग्रहम् ॥

कुतस्त्वागमनं ब्रह्मन्किं तेऽभीष्टं ददामि वै

॥४८॥

वामन उवाच

राजराजाखिला सृष्टिर्ब्रह्मणः परमेष्ठिनः ॥

ततोऽहमागतो भूमन्यज्ञं चैव दिदृक्षया

॥४९॥

वरुणस्य च यज्ञो वै दृष्टो मे वै पुरानघ ॥

यक्षाधिपतेर्नूनं च यज्ञं वै दृष्टवानहम्

॥२५०॥

धर्मस्याऽपि च यज्ञो मे प्रजापतेश्च सत्तम ॥

वायोर्यज्ञो महाराज दृष्टो मे विधिपूर्वकः

॥५१॥

राजर्षीणां च ये यज्ञा दृष्टास्तेऽपि महाव्रत ॥

यादृशं वै महाराज यज्ञं ते दृष्टवानहम्

॥५२॥

ईदृशो राजराजेंद्र न भूतो न भविष्यति ॥

तस्मादिहागतो राजन्याचनार्थं तवाऽनघ

॥५३॥

बलिरुवाच

याचस्व त्वं द्विजश्रेष्ठ किं तेऽभीष्टं ददाम्य हम्

॥५४॥

वामन उवाच

देहि मे राजराजेंद्र पदानि त्रीणि मेदिनीम् ॥

वासार्थं रोचते तेऽद्य यदि पार्थिवसत्तम

॥५५॥

बलिरुवाच

किमिदं याचितं विप्र स्वल्पं ते नहि ते परम् ॥

गजवाजिरथाः क्षोणी रत्नानि विविधानि च

॥५६॥

दासदासीर्वरारोहाः स्त्रियो नाना वसूनि च ॥

द्रव्याणि वाससी शुभ्रे याचस्व त्वं द्विजोत्तम

॥५७॥

पात्रोऽसि कृतकृत्योऽसि वेदवेदांगपारग

॥५८॥

वामन उवाच

न मे किंचित्स्पृहा राज न्विद्यते भुवि मानद ॥

देहि त्वं त्रिपदां भूमिं यदि श्रद्धाऽस्ति तेऽधुना

॥५९॥

इत्युक्ते वामनेनाथ बलिर्वचनमब्रवीत् ॥

गृहाण त्रिपदां भूमिं वासस्यार्थं हि मानद

॥२६०॥

इत्युक्त्वा स च राजर्षिर्ददौ भूमिं द्विजाय वै ॥

वारितोऽपि तदा व्यास भृगुणा दैवनोदितः

॥६१॥

दत्तमात्रे जले सद्यो ब्रह्माण्डं चाक्रमद्धरिः ॥

सार्धं पादद्वयं जाता सशैलवनकानना

॥६२॥

वसुधेयं तदा व्यास बलिना चार्पितं वसु ॥

जित्वाऽसुरगणान्त्सर्वा न्राज्यं दत्त्वा शतक्रतोः

॥६३॥

पश्चात्कुमुद्वतीं प्राप्तो विष्णुर्वामनरूपधृक्

॥६४॥

ऋद्धिसिद्ध्याश्रमे पुण्ये तीर्थं कृत्वाऽऽत्मसंभवम् ॥

निवासमकरोद्व्यास तत्रैव स सुरोत्तमः

॥६५॥

वामनेन कृतं तीर्थं वामनं कुण्डमुच्यते ॥

भाद्रे मासि सिते पक्षे द्वादशी श्रवणान्विता

॥६६॥

वामन द्वादशी प्रोक्ता हत्याकोटिविनाशिनी ॥

अस्मिंस्तीर्थे नरः स्नात्वा ह्युपोष्यैकादशीं यदा

॥६७॥

रात्रौ जागरणं कुर्याद्ब्रह्मभूयाय कल्पते ॥

द्वादश्यां वै विशेषेण महादानानि कुर्वते

॥६८॥

न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ॥

एवं वै वामनं तीर्थं पुरा प्रोक्तं महर्षिणा

॥६९॥

सर्वपापहरं पुण्यं सर्वकामवरप्रदम् ॥

प्राप्यते तेन सर्वं हि नात्र कार्या विचारणा

॥२७०॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये वामनकुण्डमहिमविष्णुसहस्रनामकथनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥