मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २४

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 24

वाल्मीकेश्वरमाहात्म्यवर्णनम्

सनत्कुमार उवाच

वाल्मीकेश्वरमित्याख्यं यस्तु देवं प्रपूजयेत् ॥

मौनी ध्यानपरो भूत्वा स कवित्वमवाप्नुयात्

॥१॥

व्यास उवाच

कथमत्र समुत्पन्नः कोऽसौ वाल्मीकेश्वरः प्रभुः ॥

यस्य दर्शनमात्रेण कवित्वमुपजायते

॥२॥

सनत्कुमार उवाच

आसीद्व्यास पुरा विप्रः सुमतिर्भृगु वंशजः ॥

रूपयौवनसंपन्ना तस्य भार्याथ कौशिकी

॥३॥

तस्य पुत्रः समुत्पन्नो ह्यग्निशर्मेति नामतः ॥

स पित्रा प्रोच्यमानोऽपि वेदाभ्यासं न मन्यते

॥४॥

ततो बहुतिथे काले अनावृष्टिरजायत ॥

तस्यां विपद्गतः सोऽथ दक्षिणामाश्रितो दिशम्

॥५॥

ततोऽसौ सुमतिर्विप्रः सभार्यः स सुतस्तथा ॥

विदेशं काननं प्राप्तः कृत्वा चाश्रममाश्रितः

॥६॥

आभीरैर्दस्युभिः सार्धं संगोऽभूदग्निशर्मणः ॥

आगच्छति पथा तेन यस्तं हंति स पापकृत्

॥७॥

स्मृतिर्नष्टा गता वेदा गतं गोत्रं गता श्रुतिः ॥

कस्मिंश्चिदथ काले तु तीर्थयात्रा्प्रसंगतः

॥८॥

सप्तर्षयः पथा तेन सुव्रताः समुपस्थिताः ॥

अग्निशर्माथ तान्दृष्ट्वा हन्तुकामोऽब्रवीदिदम्

॥९॥

वस्त्राणीमानि मुच्यध्वं छत्रिकोपानहौ तथा ॥

हन्तव्या हि मया यूयं गन्तारो यम सादने

॥१०॥

तस्य तद्वचनं श्रुत्वा अत्रिर्वचनमब्रवीत् ॥

अस्मत्पीडनजं पापं कथं ते हृदि वर्तते ॥

वयं तपस्विनो भूत्वा तीर्थयात्राकृतोद्यमाः

॥११॥

अग्निशर्मोवाच

ममास्ति माताथ पिता सुतो भार्या गरीयसी ॥

पोषयामि सदा तांस्तु एतन्मे हृदि संस्थितम्

॥१२॥

अत्रिरुवाच

पित्रादीनाशु पृच्छस्व स्वकर्मोपार्जितं प्रति ॥

यद्युष्मदर्थं क्रियते पापं तत्कस्य कथ्यताम्

॥१३॥

यदि ते कथयंति स्म मा मृषा प्राणिनो वधीः

॥१४॥

अग्निशर्मोवाच

न कदाचिन्मया ते तु संपृष्टा ईदृशं वचः ॥

युष्माकं वचसा मेऽद्य प्रतिबोधः प्रवर्तते

॥१५॥

गत्वा पृच्छामि तान्सर्वान्कस्य भावश्च कीदृशः ॥

यूयमत्रैव तिष्ठध्वं यावदागमनं मम

॥१६॥

इत्युक्त्वा ताञ्जगामाशु पितरं स्वमुवाच ह ॥

धर्मस्य प्रतिघातेन प्राणिनां पीडनेन च

॥१७॥

सुमहद्दृश्यते पापं कस्य तत्कथ्यतां मम ॥

पिता प्राह तथा माता नापुण्यमावयोरिह

॥१८॥

त्वं जानासि यत्कुरुषे कृतं भाव्यं पुनस्त्वया ॥

तयोस्तद्वचनं श्रुत्वा भार्या वचनमब्रवीत्

॥१९॥

तयाप्युक्तं न मे पापं पापमेतत्तवैव हि ॥

तद्वाक्यमब्रवीत्पुत्रं बालोऽहमितिसोऽब्रवीत्

॥२०॥

तज्ज्ञात्वा हृदयं तेषां चेष्टितं चैव तत्त्वतः ॥

नष्टोऽहमिति मन्वानः शरणं मे तपस्विनः

॥२१॥

क्षिप्त्वाथ लगुडं कृष्णं येन वै जंतवो हताः ॥

प्रकीर्य केशांस्त्वरित ऋषीणामग्रतः स्थितः

॥२२॥

प्रणम्य दंडपातेन ततो वचनमव्रवीत् ॥

न मे माता न च पिता न भार्या न च मे सुतः

॥२३॥

सर्वैस्तैः परिमुक्तौऽहं भवतां शरणं गतः ॥

सुष्ठूपदेशदानान्मां नरकात्त्रातुमर्हथ

॥२४॥

एवं तं वादिनं दृष्ट्वा ऋषयोऽत्रिमथाब्रुवन् ॥

भवतो वचनादस्य प्रतिबोधः समागतः

॥२५॥

भवताऽयमनुग्राह्यः शिष्यो भवतु ते मुने ॥

तथेत्युक्ताथ तान्प्राह चाग्निं ध्यानं समाचर

॥२६॥

अनेन ध्यानयोगेन महामंत्रजपेन च ॥

अनेकदुस्तरात्युग्रपापकृज्जनघातकः ॥

संस्थितो वृक्ष मूले त्वं परा सिद्धिं गमिष्यसि

॥२७॥

इत्युक्त्वा ते ययुः सर्वे संकामं सोऽपि तत्र वै ॥

तद्ध्यानस्थोऽभवद्योगी वत्सराणि त्रयोदश

॥२८॥

तस्योपर्यभवत्तत्र वल्मीकोऽविचलस्य च ॥

निवृत्तास्तु पथा तेन मुनयस्तत्र शुश्रुवुः

॥२९॥

उदीरितं ध्वनिं तेन वल्मीके विस्मयान्विताः ॥

ततः खनित्वा वल्मीकं काष्ठीभूतोरुशंकुभिः

॥३०॥

तं दृष्ट्वोत्थापयामासुर्मुनयो नयसंयुतम् ॥

नमश्चक्रेऽथ तान्सर्वान्स विप्रो मुनिपुंगवान्

॥३१॥

तान्प्राह प्रणतो भूत्वा तपसा दीप्ततेजसः ॥

प्रसादाद्भवतामद्य ज्ञानं लब्धं मया शुभम्

॥३२॥

दीनोऽहमुद्धृतः सर्वैर्मग्नोऽहं पापकर्दमे ॥

तस्येति ते वाक्यमूचुः परमधार्मिकाः

॥३३॥

वल्मीकेऽस्मिन्स्थितः पुत्र यतस्त्वमेकचित्ततः ॥

वाल्मीकिरिति ते नाम भुवि ख्यातं भवि ष्यति

॥३४॥

इत्युक्त्वा मुनयो जग्मुः स्वां दिशां तपसान्विताः ॥

गतेषु मुनिमुख्येषु वाल्मीकिस्तपतां वरः ॥

कुशस्थल्यामथागम्य समाराध्य महेश्वरम्

॥३५॥

तस्मात्कवित्वमासाद्य चक्रे काव्यं मनोरमम् ॥

रामायणं च यत्प्राहुः कथां सुप्रथमस्थिताम्

॥३६॥

ततः प्रभृति देवेशो वाल्मीकेश्वरसंज्ञकः ॥

ख्यातोऽवंत्यां ततो व्यास नृणां कवित्वदायकः

॥३७॥

इति ते कथितं लिंगं वाल्मीकेश्वरमुत्तमम् ॥

यस्य दर्शनमात्रे ण कवित्वमुपपद्यते

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्य वाल्मीकेश्वरमाहात्म्य वर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥