मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५५

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 55

विमलोदतीर्थमाहात्म्यवर्णनम्

व्यास उवाच

कोऽसौ विंध्यगिरिर्ब्रह्मन्कदा काले समागतः ॥

महाकालवने रम्ये केन वा प्रेषितः पुरा

॥१॥

सनत्कुमार उवाच

पुरा रेवाजलैर्व्यास प्लावितेयं वसुंधरा ॥

तदा सर्वसुरैरेवमगस्तिर्मुनिसत्तमः

॥२॥

आराधितो महाभागो धरणीत्राणकारणात् ॥

तदागत्य गिरौ रम्ये विंध्ये स मुनिसत्तम

॥३॥

एकाग्रमानसो भूत्वा भवानीं विंध्यवासिनीम् ॥

आराधयामास तदा तां च देवीं वरेप्सया

॥४॥

कंसविद्रावणकरीमसुराणां क्षयंकरीम् ॥

भारावतारणीं पुण्यां बलदेवानुजां शुभाम्

॥५॥

यशोदागर्भसंभूतां चाणूरबलमर्दिनीम् ॥

विद्युदाभां नभःस्थां च कृष्णां कृष्णाहिमर्दिनीम्

॥६॥

जननीं देवसेनस्य कवीनां वाचमीश्वरीम् ॥

गायत्रीं द्विजमुख्यानां व्याहृतिश्छंदसां वराम्

॥७॥

सहस्राक्षीं तथेंद्रस्य ऋषेश्चारुंधतीं पराम् ॥

गवां कामदुघां श्यामां लतां मधुतमप्रियाम्

॥८॥

अदितिं सर्वमातॄणां पार्वतीं सर्वयोषिताम् ॥

ज्योत्स्नां चांद्रमसीं बालां सर्वकामवरप्रदाम्

॥९॥

शारदीमृतुवेलायां वृंदावनचरीं वराम् ॥

मायिनां वैष्णवीं मायां सर्वदैत्यविमोहिनीम्

॥१०॥

लक्ष्मीं च श्रीमतामिष्टां यक्षिणीं धनदार्चिताम् ॥

महोदधीप्सितां वेलां राज्ञां च राजसंपदम्

॥११॥

वेदिकां यज्ञशालानां हविराहवनीं शुभाम् ।

दक्षिणां सर्वदीक्षाणां सर्वकामफलप्रदाम्

॥१२॥

एवं स्तुता तदा देवी प्रत्यक्षा विंध्यवासिनी ॥

प्राह प्रसादसुमुखी ऋषीणां प्रवरं ह्यृषिम्

॥१३॥

वियतां भो द्विजश्रेष्ठ यदस्मत्तोऽभिवांछितम् ॥

यदीप्सिता त्वया वत्स स्तुतिर्मे शुचिना कृता

॥१४॥

अगस्तिरुवाच

यदि मातर्वरो देयो देवानामुपकारिणि ॥

रेवेयं वर्द्धिता लोके सर्वलोकभयप्रदा

॥१५॥

तयेदं प्लावितं विश्वं तस्यास्तु ग्रहणं कुरु ॥

इति सा प्रार्थिता तेन तदा काले महर्षिणा

॥१६॥

आगात्साध्वी तदा व्यास महाकालवनं शुभम् ॥

सांत्वपूर्वं वचस्तथ्यमगस्ति मिदमब्रवीत्

॥१७॥

वारयिष्ये परां देवीं वर्धमानां द्रुतं ह्यृषे ॥

तावत्कालं न चोत्तिष्ठेद्विंध्यो नाम महागिरिः

॥१८॥

यावत्त्रिकूटे द्वारे त्वं स्थास्य सि ऋषिसत्तम ॥

देवकार्योद्यतो नित्यं दक्षिणां दिशमुत्तमाम्

॥१९॥

कुशस्थली महापुण्या पवित्रा पापहारिणी ॥

पुरी ह्येषा मुनिश्रेष्ठ त्रिषु लोकेषु विश्रुता ॥

तत्रैवाहं चिरं कालं मातृभिर्निवसामि वै

॥२०॥

तत्रापि त्वं सदा सिद्धक्षेत्राधिपत्यमाप्नुयाः ॥

मत्सरो निर्मलं पुण्यं विमलोदं च विश्रु तम्

॥२१॥

यत्र पुण्यवतां वासो देव्यस्तिष्ठंति कोटिशः ॥

तस्मिंस्तीर्थे नराः स्नात्वा शुचीभूय समाहिताः

॥२२॥

यजंति चैव मां भक्त्या धूपदीपाग्नितर्पणैः ॥

क्षीरखंडाज्यभोज्यैश्च भोजयेद्विधिवद्द्विजान्

॥२३॥

न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ॥

धनधान्यधरैश्वर्यपुत्रदारादिसं पदाम्

॥२४॥

प्राप्यंते विविधा भोगा देवानामपि दुर्लभाः ॥

शत्रुतो न भयं तेषां दस्युभ्यो वा न राजतः

॥२५॥

न शस्त्रानलतोयौघात्कदा चित्संभविष्यति ॥

दीर्घायुर्बुद्धिमाँल्लोके उषित्वा शाश्वतीः समाः

॥२६॥

सर्वपापविशुद्धात्मा मृतः शिवपुरं व्रजेत् ॥

एवं व्यास पुरीं प्राप्य रम्यां चोज्जयिनीं शुभाम् २७ ॥

समाश्रिता तदा देवी सततं विंध्यवासिनी ॥

तस्मिंस्तीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते

॥२८॥

स्त्रियो वा रजो दोषार्ता वंध्याः काकबकादिकाः ॥

दुर्भगाः शीलहीनाश्च सर्वकामविवर्जिताः

॥२९॥

विमलोदेऽपि ताः स्नात्वा दृष्ट्वा वै विंध्यवासिनीम् ॥

मुच्यंते सर्वदो षैस्ता नात्र कार्या विचारणा

॥३०॥

अपुत्रा प्राप्नुयुः पुत्रान्कन्या वीरपतिं वरम् ॥

प्राप्यते सर्वसौभाग्यं सर्वकामवरप्रदम्

॥३१॥

विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ॥

वैश्यश्च बहुलाभाढ्यः शूद्रः सुखमथाश्नुते

॥३२॥

कथां पुण्यवतीमेतां सर्वकामवरप्रदाम् ॥

पठन्वाप्यथवा शृण्वन्गोसहस्रफलं लभेत्

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विंध्यवासिनी विमलोदतीर्थमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥