अथान्यं संप्रवक्ष्यामि देवं त्रैलोक्यविश्रुतम्
सनत्कुमार उवाच
अथान्यं संप्रवक्ष्यामि देवं त्रैलोक्यविश्रुतम् ॥
चंद्रादित्यमिति ख्यातं चंद्रादित्यार्चितं पुरा
॥१॥यस्तं समर्चयेद्देवं सुरासुरनमस्कृतम् ॥
गंधपुपोस्तथा धूपैर्नैवेद्यैविविधैस्तथा
॥२॥चंद्रादित्यादिसालोक्यं प्रयाति सर्वकामिकम् ॥
विमानं सूर्यसंकाशैर्यावच्चंद्रदिवाकरौ
॥३॥इति चन्द्रादित्यमाहात्म्यम् ॥
सनत्कुमार उवाच ॥
करभेशं ततो गच्छेद्देवदेवं महेश्वरम् ॥
यस्य दर्शनमात्रेण कुयोनौ नैव जायते
॥४॥व्यास उवाच
करभेशमहं देवं श्रोतुमिच्छामि तत्त्वतः ॥
कथं देवः समुत्पन्नः करभेशेतिसंज्ञितः
॥५॥सनत्कुमार उवाच
पुरा देवगणैः सार्धं देवदेवो महेश्वरः ॥
वनेऽस्मिन्क्रीडयामास परमाह्लादसंयुतः
॥६॥क्रीडन्बहुतिथे काले शंकरः करभोऽभवत् ॥
ज्ञायते च स नो देवैः शंकरः करभाकृतिः
॥७॥अन्वेषयंति ते देवास्ततो विस्मयसंयुताः ॥
न पश्यंति यदा तत्र तं देवं शूलपाणिनम्
॥८॥देवैः पृष्टस्ततो ब्रह्मा क्वास्ति देवो महेश्वरः ॥
ध्यात्वाथ ब्रह्मणा दृष्टो गुप्तो योगप्रभुर्हरः
॥९॥देवैः सार्धं ततो ब्रह्मा पप्रच्छ गणनायकम् ॥
न दृष्टः शंकरोऽस्माभिर्गतः कुत्र विनायक
॥१०॥कथयस्व नमस्तुभ्यं दास्यामो लड्डुकान्विभो ॥
एवमुक्तस्तदा हृष्टः प्रोवाच गणनायकः
॥११॥करभोऽयं महाऽदेवो दृश्यते विबुधो त्तमाः ॥
श्रुत्वा चैवं वचो देवाः प्रहृष्टाः करभं ययुः
॥१२॥ज्ञातोऽस्माभिर्महादेव जल्पंत इति ते स्वयम् ॥
गत्वा चैव ततः सर्व चतुर्दिक्षु स्थिताः स्वयम्
॥१३॥विचिंत्येति कथं ज्ञातः शंकरो विस्मयं गतः ॥
त्यक्त्वाथ कारभं रूपं देवदेवो महेश्वरः
॥१४॥लिंगमुत्पादयामास दिव्यं यत्करभे श्वरम् ॥
ते दृष्ट्वाऽथ सुराः सर्वे साष्टांगप्रणतिस्थिताः
॥१५॥ततःप्रभृति विख्यातः शंकरः करभेश्वरः ॥
कोटितीर्थादुत्तरस्मिन्स्थापयामास विघ्नपम्
॥१६॥स्वनाम्ना प्रथितं चक्रे करभं चातिपूजितम् ॥
स्नात्वा तत्र शुचिर्भूत्वा यस्तमर्चयते शिवम्
॥१७॥गंधपुष्पैश्च नैवेद्यैः शृणु तेषां च यत्फलम् ॥
सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम्
॥१८॥ततोऽधिकं स लभते नात्र कार्या विचारणा ॥
महाकालं ततो गच्छन्संपूर्णं फलमाप्नुयात्
॥१९॥ततः प्रसिद्धो लोकेऽस्मिन्नृद्धिदः करभेश्वरः
॥२०॥इति करभेश्वरमाहात्म्यम् ॥
छ ॥
सनत्कुमार उवाच ॥
लइडुकैश्च ततो देवैर्विघ्ननाथः समर्चितः ॥
तदाप्रभृति विख्यातो विश्वेशो लड्डुकप्रियः
॥२१॥यः समर्चयते भक्त्या तस्य विघ्नो न जायते ॥
तस्मै ददाति संतुष्टः सर्वान्कामान्विनायकः
॥२२॥निराहारश्चतुर्थ्यां च स्नात्वा शिप्रां विशेषतः ॥
रक्तांबरधरोभूत्वा रक्तपुष्पैर्विनायकम्
॥२३॥रक्तचंदनतोयेन मंत्रैः स्नपनपूर्वकम् ॥
चंदनेनापि रक्तेन तं विलेप्य प्रपूजयेत्
॥२४॥धूपं दद्यात्तथा दिव्यं सुगंधं लड्डुकप्रिये ॥
नैवेद्ये लड्डुका देया आज्यखंडपरिप्लुताः
॥२५॥न तस्य जायते व्याधिर्भयं विघ्नं कदाचन ॥
लभते च सदाभीष्टं मृतः शिवपुरं व्रजेत्
॥२६॥अवतीर्णः पुनर्लोके जायते वसुधाधिपः ॥
मतिमान्पुत्रवाञ्छूरो नात्र कार्या विचारणा
॥२७॥इति गणेशमा हात्म्यम् ॥
सनत्कुमार उवाच ॥
कुसुमेशं सुरद्वारे सुरासुरनमस्कृतम् ॥
श्रद्धया पूजयेद्यस्तु शिवलोके स मोदते
॥२८॥जयेश्वरं तु यः पश्येद्देवदेवं महेश्वरम् ॥
जयी स्यात्सर्वकार्येषु शिवलोकं स गच्छति
॥२९॥शिवद्वारे शिवं लिंगमर्चयेन्मानवो यदि ॥
त्रिदिवं याति यानेन गाणपत्यं च विंदति
॥३०॥अथान्यं संप्रवक्ष्यामि मार्कंडेश्वरमुत्तमम् ॥
मार्कण्डेयो मुनिर्यत्र तप्तवान्सुमहत्तपः
॥३१॥दृष्ट्वा तं शंकरं देवं वाजपेयफलं लभेत् ॥
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः
॥३२॥शृणु व्यास महास्थानं यस्यां पुर्यामनुत्तमम् ॥
यत्र तिष्ठति सा देवी ब्रह्माणी हंसवाहिनी
॥३३॥भक्तानां पूरयेदाशां पुत्रवत्परिपालयेत् ॥
यथा माता तथा देवी दृष्टा शांतिपरैरपि
॥३४॥अर्चिता ब्रह्मणा सा तु स्तुता देवी सुरोत्तमैः ॥
अर्चयेद्गंधृपुष्पैश्च नैवेद्यैः सर्वसिद्धिदाम् ॥
अपि या ब्रह्मणः पूर्वमभूदेव सुसिद्धिदा
॥३५॥यः स्नात्वा ब्रह्मसरसि पश्ये द्ब्रह्मेश्वरं शिवम् ॥
भवबंधविनिर्मुक्तो ब्रह्मलोके स मोदते
॥३६॥अथान्यां संप्रवक्ष्यामि यज्ञवापीमनुत्तमाम् ॥
यत्र वै ब्रह्मणा पूर्वमिष्टो यज्ञः सदक्षिणः
॥३७॥यज्ञार्थं यत्कृतं कुंडं यज्ञवापी च सा स्मृता ॥
पशुश्च पतितो यस्मात्तस्मात्पशुपतिः स्मृतः
॥३८॥तस्यां स्नात्वा शुचिर्भूत्वा पश्येत्पशुपतिं तु यः ॥
उद्धरेत्स पितॄन्व्यास पशुयोनिगतानपि
॥३९॥सुवर्णमणिमुक्ताद्यैर्विमानैः सर्वकामगैः ॥
याति रुद्रपुरं दिव्यं यत्र देवो महेश्वरः
॥४०॥रूपकुंडे नरः स्नात्वा सुरूपो जायतेनरः ॥
स्वर्गे स देवगंधर्वैः स्पृहणीयवपुर्भवेत्
॥४१॥कुंडे स्नात्वाप्यनंगे यः शुचिर्भूत्वा समाहितः ॥
पश्येच्च देवदेवेशमनंगेनार्चितं पुरा ॥
कामं स लभतेऽभीष्टं मृतो याति शिवालयम्
॥४२॥आषाढे तु सिताष्टम्यां जागरं यस्तु कारयेत् ॥
केदारे यत्फलं प्रोक्तं तत्समानमवाप्नुयात्
॥४३॥करीकुंडे नरः स्नात्वा विश्वरूपं तु योऽर्चयेत् ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
॥४४॥अजागंधे नरः स्नात्वा दृष्ट्वा ब्रह्मेश्वरं शिवम् ॥
ब्रह्महत्यासमं पापं तत्क्षणात्संव्यपोहति
॥४५॥चक्रतीर्थे नरः स्नात्वा चक्र स्वामिनमर्चयेत् ॥
जायते स नरो व्यास चक्रवर्ती सदा भुवि ॥
सिद्धेश्वरं यदा पश्येत्स्नात्वा सुविधिपूर्वकम् ॥
कामिकेन विमानेन रुद्रलोकं स गच्छति
॥४७॥इति यज्ञवापीमाहात्म्यम् ॥
सोमवत्यां नरः स्नात्वा यः सोमेश्वरमर्चयेत् ॥
सोमवन्निर्मलो भूत्वा सोमलोके स मोदते
॥४८॥व्यास उवाच
तीर्थं सोमवतीनाम लिंगं सोमेश्वरं तथा ॥
अभूदेतत्कथं नाम श्रोतुमिच्छामि तत्त्वतः
॥४९॥सनत्कुमार उवाच
शृणु व्यास यथोत्पन्नं सोमतीर्थं सुशोभनम् ॥
सोमेश्वरं यथा लिंगमेतत्सत्यं वदामि ते
॥५०॥यो देवो भगवान्सोमो लोकस्याप्यायनं परम् ॥
आसीत्तस्य पुरा व्यास पिता विप्रो महातपाः
॥५१॥अवन्त्यां च महाभागो योऽत्रिर्नामा तपोनिधिः ॥
वर्षाणां त्रीणि दिव्यानि सहस्राणि तपो महत्
॥५२॥अत्रि शब्दोपरि टिप्पणी ऊर्ध्वबाहुः स वै तेपे ब्रह्मध्यानपरायणः ॥
ऊर्ध्वं गतं ततो व्यास ब्राह्म्यं तेजो महात्मनः
॥५३॥नेत्राभ्यां तेन सुस्राव भासयच्च दिशो दश ॥
तेजस्तत्सहसा दृष्ट्वा दिशो दशोद्धतं स्वतः
॥५४॥दिशश्च तद्यदा व्यास सर्वा धर्तुं न चाशकन् ॥
असुस्रवत्तदा दिग्भ्यस्तद्धि तेजोतिदुःसहम्
॥५५॥लोकांश्च भासयत्सर्वान्धरण्यां वै पपात ह ॥
सोमो जातस्ततस्तेन शीतांशुश्च जनप्रियः
॥५६॥वारि सोमात्समुत्पन्नं व्यास तेनैव तेजसा ॥
प्रविष्टा सा नदी शिप्राममृतेनातिपूरिता
॥५७॥ततः सोमवती शिप्रा विख्याता सर्वसि द्धिदा ॥
सोमयुक्तां नदीं शिप्रां दृष्ट्वा पापं व्यपोहति
॥५८॥ख्याता च त्रिषु लोकेषु पापिनां पुण्यदायिनी ॥
ब्रह्महा वा सुरापो वा स्तेयी वा गुरुतल्पगः
॥५९॥चत्वारोऽप्यत्र पापेन मुच्यंते दर्शनाद्ध्रुवम् ॥
अमासोमौ यदा युक्तौ सोमवत्यां तदा मुने
॥६०॥स्नानं दानं च यो धीमाञ्जपं होमं समाचरेत् ॥
अक्षयं तस्य तत्सर्वं यावच्चंद्रदिवाकरौ
॥६१॥तिलोदकप्रदानेन पिंडदानेन कारिता ॥
अकाले कालिकी तृप्तिः पितॄणां च यतो मता
॥६२॥सर्वत्र दुर्लभा सिप्रा सोमं सोमग्रहस्तथा ॥
सोमेश्वरः सोमवारः सकाराः पंच दुर्लभाः
॥६३॥शिप्रासोमजलं व्यास कोटितीर्थफलप्रदम् ॥
अमासोमसमायोगे पितृतीर्थसमं स्मृतम्
॥६४॥अमायां सोमवारश्चेद्व्यतीपातो यदा भवेत् ॥
शतगुणं गयायास्तु सोमवत्यां प्रकीर्तितम्
॥६५॥एवं सोमवतीतीर्थं जातमत्र महामुने ॥
सोमं दृष्ट्वाथ पतितं क्षितौ ब्रह्मा जगद्गुरुः
॥६६॥रथे तं स्थापयामास लोकानां हितकाम्यया ॥
सं तु वेदमयो व्यास धर्माक्षः सत्यसंग्रहः
॥६७॥युक्तो वाजिसहस्रेण ब्रह्मणा प्रेरितस्तदा ॥
दृष्ट्वा सोमं ततो देवा रथे तं ब्रह्मणा युतम्
॥६८॥तुष्टुवुः सर्वभावेन हृष्टाः सर्वे समाहिताः ॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वरम्
॥६९॥आप्यायमानं त्रीँल्लोकान्पपात धरणीतले ॥
ब्रह्मा तेन रथेनाथ सागरांतां वसुन्धराम्
॥७०॥त्रिःसप्तकृत्वोऽतिशयाच्चकाराब्धिप्रदक्षिणम् ॥
तस्य तत्पतितं तेजो व्यास सोमस्य शीतलम्
॥७१॥तदेवौषधयो दिव्या जाता भुवि सुनिर्मलाः ॥
याभिर्धार्यो ह्ययं लोकः प्रजाश्चैव चतुर्विधाः
॥७२॥तुष्टोऽथ भगवान्सोमो जगतेः सर्वदा मुने ॥
दशवर्षसहस्राणि तेपेऽतिदुःसहं तपः
॥७३॥ततस्तस्मै ददौ वाक्यं ब्रह्मा लोकपितामहः ॥
बीजौषधानि विप्राणां सोमो राजा बभूव ह
॥७४॥सप्तविंशतिं सोमाय दाक्षायणीर्महाव्रताः ॥
पत्नीः प्राचेतसो दक्षो ददौ नक्षत्रसंज्ञकाः
॥७५॥स तत्प्राप्य महद्राज्यं सोमो भार्यायुतस्तदा ॥
समारेभे राजसूयं सहस्रशतदक्षिणम्
॥७६॥होता च भगवानत्रिरध्वर्युर्भगवान्भृगुः ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्
॥७७॥सदस्यो भगवान्विष्णुः सनकादिमुखैर्युतः ॥
ददौ स दक्षिणां सोमस्त्रीँल्लोकान्सुसमाहितः
॥७८॥सिनीवाली कुहूश्चैव धृतिः पुष्टिः प्रभा वसुः ॥
कीर्तिर्धृतिश्च लक्ष्मीस्तं देव्यो दिव्याः सिषेविरे
॥७९॥प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥
अतीव राजते चन्द्रो दशधा भासयन्दिशः
॥८०॥तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम् ॥
विबभ्राम मतिर्व्यास विनयाद्यमपास्य च
॥८१॥बृहस्पतेस्तदा भार्यां तारानाम्नीं यशस्विनीम् ॥
जहार तमसा साध्वीमवमान्यां गिरःसुतम्
॥८२॥वाच्यमानस्तदा सोमो देवदेवर्षिभिस्तथा ॥
नैव व्यसर्जयत्तारां तस्मा आंगिरसाय च
॥८३॥बृहस्पतेस्ततः पक्षं शक्रो जग्राह कोपतः ॥
स हि शिष्यो महातेजा गुरोः पूर्वं वृहस्पतेः
॥८४॥ततो युद्धमभूत्तत्र सुघोरं शक्रसोमयोः ॥
देवानां दानवानां च व्यास त्रासकरं महत्
॥८५॥सर्वे भीतास्ततो देवा ब्रह्माणं शरणं गताः ॥
अग्रतो ब्रह्मणो युद्धं कथितं शक्रसोमयोः
॥८६॥देवानां वचनं श्रुत्वा सार्द्धं देवैः पितामहः ॥
आगत्य युद्धभूमिं सोऽवारयद्देवदानवान्
॥८७॥वारितास्ते स्थितास्तत्र युद्धं त्यक्त्वा सुरासुराः ॥
तारामादाय स तदा ददा वांगिरसे द्विजे
॥८८॥तामंतःप्रसवां दृष्ट्वा प्राह भार्यां बृहस्पतिः ॥
मदीयायां न ते योन्यां गर्भो धार्यः कथंचन
॥८९॥उत्ससर्ज ततस्तारा कुमारं देवरूपिणम् ॥
इषीकास्त्रं समासाद्य ज्वलंतमिव पावकम्
॥९०॥स तेजो जातमात्रोऽपि देवानामाक्षिपच्छिशुः ॥
ततः संशयमापन्ना ऊचुस्तारां दिवौकसः
॥९१॥कस्यायं ब्रूहि सुभगे सोमस्याथ बृहस्पतेः ॥
नाचचक्षे तु देवानां वेधाः पप्रच्छ तां पुनः
॥९२॥यदत्र सत्यं तद्ब्रूहि तारे कस्य सुतो ह्ययम् ॥
सा प्रांजलिरुवाचेदं ब्रह्माणं वरदं विभुम्
॥९३॥सोमस्येति रहः सोऽयं कुमारो देवसंनिभः ॥
सोमस्य तं सुतं ज्ञात्वा परिष्वज्य पितामहः
॥९४॥बुध इत्यकरोन्नाम तस्य पुत्रस्य वै तदा ॥
परदारापहाराच्च यत्पापं तेन दुःसहम्
॥९५॥तेन सोमोऽभवत्कुष्ठी क्षयरोगयुतस्तदा ॥
ततो राज्ये स्वकं पुत्रं स्थापयित्वा यथाविधि
॥९६॥अवन्तीमाजगामाशु सोमो देवदिदृक्षया ॥
सोमाहे सोमवत्यां च अमायोगे जितेंद्रियः
॥९७॥स्नात्वा संपूजयामास सोमः सोमेश्वरं ततः ॥
तस्य भक्त्या च सन्तुष्टः प्राह सोमं महे श्वरः
॥९८॥मत्प्रसादाद्वपुः कांतं तव सोम भविष्यति ॥
सोमेश्वरमिति ख्यातं भुक्तिप्रदायकम्
॥९९॥एवं व्यास तु तत्तीर्थं लिंगं चैवाति दुर्लभम् ॥
कथितं तथ्यभावेन मया तुष्टेन सांप्रतम्
॥१००॥श्रावणं प्राप्य यो मासं सोमनाथं जितेंद्रियः ॥
नित्यं पश्येन्नरो व्यास तस्य पुण्यफलं शृणु
॥१०१॥सौराष्ट्रे सोमनाथस्य पूजायाः प्रत्यहं फलम् ॥
लभते स नरो व्यास नात्र कार्या विचारणा
॥१०२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सोमवतीतीर्थमाहात्म्यवर्णनंनामाष्टाविंशो ऽध्यायः ॥ २८ ॥