कपालमोक्षणवर्णनम्
सनत्कुमार उवाच
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम् ॥
इह देवो ऽत्र देवोऽत्र विविशुस्ते दिदृक्षवः
॥१॥अद्भुतस्य वनस्यांते न ते ददृशिरे सुराः ॥
विचिन्वंतो महादेवं देवैर्बहुविलोकितः
॥२॥तमुवाच स भद्रं वै द्रक्ष्यध्वं न तपो विना ॥
विचिन्वन्तो विरूपाक्षं नैनं पश्यत शंकरम्
॥३॥स युक्तं हृदये स्मृत्वा ब्रह्मा देवांस्ततोऽब्रवीत् ॥
त्रिविधो दर्शनोपायस्तस्य देवस्य सर्वदा
॥४॥श्रद्धाज्ञानेन तपसा योगेनैव निगद्यते ॥
सकलं निष्कलं चापि देवाः पश्यंति योगिनः
॥५॥तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम् ॥
समुत्पन्नेऽपि विज्ञाने मंदश्रद्धो न पश्यति
॥६॥भक्त्या परमयोपेताः परं पश्यंति योगिनः ॥
द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः
॥७॥नादीक्षितैरतो देवाः शैवीं दीक्षां प्रपद्यत ॥
कर्मणा मनसा वाचा नित्ययुक्ता महेश्वरे
॥८॥तपश्चरत भद्रं वो रुद्राराध नतत्पराः ॥
शिवदीक्षां प्रपन्नानां भक्तानां च तपस्विनाम्
॥९॥सर्वकालं विजानाति दातव्यं दर्शनं मया ॥
ब्रह्मणो वचनं श्रुत्वा हितमेव यदु क्तवान्
॥१०॥शिवेक्षाविष्टमतयो ब्रह्माणमिदमबुवन् ॥
मार्गेण विधिना चैव शिवदीक्षासु तत्पराः ॥
प्रयच्छ ब्रह्मन्सर्वेषां दीक्षां नः शिवतोषदाम् ॥
श्रुत्वेति वचनं ब्रह्मा प्रत्युवाच विचारितम्
॥१२॥संदिदीक्षयिषुः क्षिप्रममराञ्छिवदीक्षया ॥
शिवयज्ञार्थसंभारानानयध्वमलं सुराः
॥१३॥वेदी प्रकल्प्यतामत्र यष्टव्योऽष्टतनुः शिवः ॥
पद्मयोनेर्वचः श्रुत्वा चक्रुः सर्वमतः सुराः
॥१४॥विनीतवेषाः प्रणता अनेन सस्तमन्वगुः ॥
शिवप्रसादसंप्राप्त्यै पुष्करज्ञानमीरितम्
॥१५॥यज्ञं चकार विधिना वेधाश्चन्द्रार्धधारिणः ॥
पद्मयोनिः पुरस्कृत्य तदा दीक्षां प्र योगतः
॥१६॥अनुग्रहेण देवांस्तानकारयत भावतः ॥
ततो व्रतानां प्रवरं व्रतं दिव्यं महाप्रभुः
॥१७॥तेभ्यो ददौ देवताभ्यः स तदप्यविरोधवित् ॥
पठ्यते शिवशालायां महापाशुपतं व्रतम्
॥१८॥शैवं यथोदितं यच्च आगमाचारचेष्टितम् ॥
शिवाराधनमुख्यानां मुनीनां तीव्रतेजसाम्
॥१९॥सर्वानुग्राहकः शंभुः सर्वदेवैः प्रकल्पितम् ॥
तदेवं प्रार्थितं बुद्ध्या व्रतं रौद्रं शिवं समम्
॥२०॥तत्तेभ्यो विस्मयं त्यक्त्वा प्रायच्छत्कनकांडजः ॥
कामिकं भस्मनामाढ्यं सर्वदा कीर्तितं शुभम्
॥२१॥पापघ्रं दुःखशमनं पुष्टिश्रीबलवर्धनम् ॥
सिद्धिदं कीर्तिकृत्कांतं कलिकल्मषमोक्षणम्
॥२२॥तस्मात्सर्वप्रयत्नेन भस्मस्नानं समाहिताः ॥
कुर्वंतो मानवा दांता दीक्षिताः संयतेंद्रियाः
॥२३॥सर्वे कमंडलुधराः सर्वे रुद्राक्षधारिणः ॥
अनिष्टदर्शनालाप संगत्या परिवर्जिताः
॥२४॥एवं व्रतधराः सर्वे वने तस्मिन्महेश्वरम् ॥
आराधयंस्तमीशानं व्रतेनैव उमाधवम्
॥२५॥भक्त्या परमया युक्ता विधिना परमेण च ॥
कालेन महता ध्यानादेवं ज्ञात्वा मनोगतम्
॥२६॥रुद्रध्यानाग्निनिर्दग्धकल्मषाश्च श्रियान्विताः ॥
तदा हत्वाऽसुरं शंभुः प्रत्यक्षो भगवानभूत्
॥२७॥सनत्कुमार उवाच
ब्रह्मदत्तं वरं देवाः सर्वे शर्वानुभाविताः ॥
समचीकरन्प्रत्युक्ता ब्रह्मापीशानभावितः
॥२८॥गते वर्षसहस्रे स दिव्ये देवेश्वरेश्वरः ॥
जातानुकंपो देवानां दीपो दर्शनमेयिवान्
॥२९॥गणैर्नानाविधैः सार्धं नानाभूषणभूषितैः ॥
सुदर्पोद्भूतदर्पघ्रैघोरैर्घोरविघातिभिः
॥३०॥कामरूपैरकामैश्च सर्वकामसमन्वितैः ॥
करींद्रकरटाटोपपाटनैः सिंहदेहिभिः
॥३१॥अणिमादि गुणैर्दिव्यैर्योगैश्वर्यादिनामभिः ॥
व्यालोलकेशरशनादंष्ट्राकटकटोद्भवैः
॥३२॥व्याघ्रव्यालाननै रौद्रैः काककंकवटैस्तथा
॥३३॥अरूपैः समरूपैश्च सुरूपैर्बहुरूपकैः ॥
एकद्वित्रिशिरोभिश्च बहुशीर्षैरशीर्षकैः
॥३४॥एकद्वित्रिशिखैश्चैव नानारूपविराजितैः ॥
बहुनेत्रैरनेत्रैश्च एकद्वित्रिविलो चनैः
॥३५॥एककर्णैर्द्विकर्णैश्च बहुकर्णैर्विकर्णकैः ॥
एकद्वित्रिसुनासैश्च बहुनासैरनासिकैः
॥३६॥एकजंघैर्द्विजंघैश्च बहुजंघैरजंघकैः ॥
एक पादैर्द्विपादैश्च बहुपादैरपादकैः
॥३७॥गौरश्यामैः श्यामगौरैरसितैः कर्बुरैस्तथा ॥
भुजंगहारवलयैः कृतयज्ञोपवीतकैः
॥३८॥शूलासिपट्टिश धरैर्भुशुंडीपीरघायुधैः ॥
चक्रक्रकचकोदंडकांडदंडास्त्रपाणिभिः
॥३९॥गदामुद्गरपाषाणमुशलायुधहस्तकैः ॥
वज्रशक्त्यशनिप्रासकुंतकर्तृक धारिभिः
॥४०॥भंभाभेरीर्वादयद्भिर्वीणापणववेणुकान् ॥
मृदंगविमलाढक्काकाहलानकदुंदुभीन्
॥४१॥हुडंकाशृंगिकाद्यानि नानावाद्यानि वादकैः ॥
एवं नानाविधै रौद्रैर्भीमैर्भीमपराक्रमैः
॥४२॥गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव ॥
आविर्भूतो महादेवः स्वगणैः परिवारितः ॥
तं पश्य तां तदा व्यास ब्रह्मादीनां दिवौकसाम्
॥४३॥अथ ब्रह्मादयो देवा दृष्ट्वाग्रे गणनायकम् ॥
तेजसाध्यासितास्तस्य बभूवुर्भ्रांतचेतसः
॥४४॥ततो ऽवलंब्य ते धैर्यं दृष्ट्वा देवं यथाविधि ॥
षडंगवेदयोगेन हृष्टचित्तवपुर्धराः
॥४५॥शिरोगतैरंजलिभिः पादेभ्यश्च महीं गतैः ॥
तुष्टुवुः सृष्टिसंहार स्थितिकर्तारमीश्वरम्
॥४६॥देवा ऊचुः
नमः शिवाय शांताय सगणाय सनंदिने ॥
वृषासनाय सौम्याय शूलशक्तिधराय ते
॥४७॥नमो दिक्चर्मवस्त्राय शुचये तीव्रतेजसे ॥
ब्रह्मणे ब्रह्मदेहाय ब्रह्मणा योजिताय च
॥४८॥नमोंधकविनाशाय परेशाय नमोनमः ॥
रुद्राय पंच वक्त्राय सर्वरोगापहारिणे
॥४९॥गिरिशाय सुरेशाय ईशानाय नमोनमः ॥
भीमोग्रादिस्वरूपाय विजयाय नमोनमः
॥५०॥सुरासुराधिपतये यतीनां पतये नमः ॥
चंडाय चंडदंडाय वरखट्वांगदंडिने
॥५१॥विरूपाक्षशुभाख्याय विश्वरूपाय वै नमः ॥
शांताय च मनोज्ञाय त्रिनेत्राय नमोनमः
॥५२॥वेधसे विश्वरूपाय दैत्यसंहारिणे नमः ॥
भक्तानुकंपिनेऽत्यर्थं रुद्रज्ञानपराय च
॥५३॥विरूपाय सुरूपाय रूपाणां शतधारिणे ॥
पंचास्याय शुभास्याय चन्द्रास्याय नमोनमः
॥५४॥वरदाय वराहाय सुकूर्माय नमोनमः
॥५५॥त्रिनेत्र त्राणमस्माकं त्रिपुरघ्न विधीयताम् ॥
वाङ्मनःकायभावैस्त्वां प्रपन्नानां महेश्वर
॥५६॥सनत्कुमार उवाच
एवं स्तुतस्तदा देवैर्विरिंच्याद्यैस्तथा हरः ॥
शरीराणि विलोक्येशः कृशान्यथ दिवौकसाम्
॥५७॥दिव्यप्रतापधारेण त्रिवेधेनांतरात्मना
॥५८॥आराधनं समीक्ष्याह ब्रह्मादीनां सुरेश्वरः ॥
साधुसाधु महाभागाः शश्वद्व्रतमुपासितम्
॥५९॥दिव्येनानेन विधिना भृशमाराधितो ह्यहम् ॥
भवद्भिः श्र द्धयात्यर्थं मम दर्शनकांक्षया
॥६०॥व्रतस्था मां हि पश्यंति मानुषा देवता अपि ॥
यदि यच्च प्रयच्छामि कांश्चिद्वो हि वराञ्छुभान्
॥६१॥एकैकशो द्वित्रिशो वा समस्तेभ्यः समेन वः ॥
सर्वकामप्रसिद्ध्यर्थं दास्याम्येनं वरं हि वः
॥६२॥हिताय भवतां चाहमागामुज्जयिनीं प्रति ॥
क्षिप्तं कपालं च मया किं पुनर्भद्रमस्तु वः
॥६३॥देवा ऊचुः
किं कृतं हितमस्माकं कपालं क्षिपता त्वया
॥६४॥किमर्थं कंपिता भूमिस्त्रैलोक्यं व्याकुलीकृतम् ॥
नैतन्निरर्थकं देव कथ्यतामत्र कारणम्
॥६५॥महादेव उवाच
युष्मद्धितार्थमेतद्वै भयं विनिहितं कृतम् ॥
देवतानां तु रक्षार्थं श्रूयतामत्र कारणम्
॥६६॥असुरो द्रोहणोनाम बलवान्योगमायिकः ॥
अवस्थितस्त्ववष्टभ्य रसातलतला श्रयम्
॥६७॥तस्य दैत्यस्य बलिनो दैत्याः परपुरंजयाः ॥
युष्माञ्ज्ञात्वा तपस्थांश्चाप्यभ्यगुर्बहवो हि ते
॥६८॥सेंद्रान्निहंतुमिच्छंतो माया प्रच्छन्नचारकाः ॥
पुरीं कनकशृंगाढ्यामेनामधि कुशस्थलीम् ॥
समुद्ययुः सुरान्हंतुमुद्यता उद्यतायुधाः
॥६९॥तेषां कपालपातेन भूमिनिष्कंपनेन च ॥
शब्देन चातिघोरेण देहात्प्राणा विनिर्ययुः
॥७०॥लोकस्थितिविनाशाथ तेषामासीत्समुद्यमः ॥
राज्यैश्वर्येण दर्पिष्ठास्तेन ते निहता मया
॥७१॥देवा ऊचुः
विश्वस्तानां पुनश्चैवमेव चानुग्रहः कृतः ॥
देवानुग्रहकर्ता त्वं गुणस्मृतिनिषेवितः
॥७२॥दिव्यदृष्टिभिरत्यर्थं यशोऽर्थं भीम नंदिताः ॥
इत्युक्त्वा प्रणतान्देवानुत्थाप्योचे पुनर्भवः
॥७३॥शिव उवाच
परिचर्याभिसंयुक्तं नित्यमुग्रनिषेवितम् ॥
ध्यानसाधननिष्पन्नं यदन्येषां न विद्यते
॥७४॥मनोवाक्कायभावेन दुष्करं दुश्चरं तपः ॥
अनेन तपसा युक्ताः कष्टेन दुःसहेन च
॥७५॥महता तनुसाध्येन बहुकालार्जितेन वः ॥
समंतादभिवर्धेतां युष्मत्तेजस्तपोऽपि च
॥७६॥सनत्कुमार उवाच
इत्युक्ता देवदेवेन देवा ब्रह्मपुरोगमाः ॥
ऊचुरुन्नाम्य वक्त्राणि स्थिता जानुभिरीश्वरम्
॥७७॥देवा ऊचुः
प्राणदस्त्वं कारणस्त्वं तपसां देव दृश्यसे ॥
तदस्माकं प्रवृत्तानां मानुषाणां वरप्रद
॥७८॥रक्षां कुरुष्व देवेश भक्तानामभयंकर
॥७९॥ईश्वर उवाच
यत्नेन विधिना दत्तं सुव्यक्तं दर्शनं हि वः ॥
सुदुर्लभान्यपि पुनर्दास्यामि वो वरान्बहून्
॥८०॥एवमुक्ते भगवता ब्रह्मा वचनमब्रवीत् ॥
देवानामग्रतः स्थित्वा श्रुतशब्दोद्भवं भवम्
॥८१॥प्राप्ता वयं च भगवन्सुपर्याप्तो महावरः ॥
जायतां नः सदैश्वर्यं वासस्थानमथाक्षयम्
॥८२॥शिव उवाच
लोकेऽस्मिन्मम ये भक्ता मया विनिहताश्च ये ॥
नैवं ते दुर्गतिं यांति लभंते सुमतिं पराम्
॥८३॥सार्धं तत्र जटाजूटैः शिरोभिः शूलपाणयः ॥
भांति मद्वामपार्श्वस्था इमे ते दारुणा गणाः
॥८४॥येषां विनिग्रहार्थाय युष्मत्संबोधनाय च ॥
सविकारं मया क्षिप्तं कपालं धरणीतले
॥८५॥कृतो मेऽनुग्रहस्तेषां भक्तानां भक्तिमिच्छताम् ॥
वनेऽस्मिन्नित्यवासो मे वृक्षैरभ्यर्थितस्य च
॥८६॥महाकालवने देवा आगतस्य ममानघाः ॥
तपस्यतां च भवतां महाकालवनं ततः
॥८७॥नामद्वययुतं गुह्यं लोके ख्यातं भविष्यति ॥
गुह्यं वनं श्मशानं च क्षेत्राणां प्रवरं महत्
॥८८॥कपालव्रतचर्या च मया ह्येषा प्रकीर्तिता ॥
कपालपात्रे भुंजानः कपालव्रतभूषणः
॥८९॥कपालपाणिः संतुष्टो भिक्षा व्रतसमन्वितः ॥
श्मशाननिलयो रौद्रो व्रतोन्मत्तविमूढधीः
॥९०॥नंदितः सर्वभूतेषु प्रियाप्रियसमः सदा ॥
भस्मभूषितसर्वांगो ज्ञानी चैव विशेषतः
॥९१॥जितेंद्रियोऽसर्वसंगो मृद्भस्मोदकसंग्रही ॥
नित्ययुक्तः सदाव्यापी जापी जितवरासनः
॥९२॥पुण्यतीर्थाश्रमोपेतः स्वरे देवे समाहितः ॥
लोकातीतं परं ज्ञानं महापाशुपतं व्रतम्
॥९३॥कपालव्रतमास्थाय पुरा चीर्णं मया स्वयम् ॥
कपालं परमं गुह्यं पवित्रं पापनाशनम्
॥९४॥कपालव्रतमेतद्धि दुर्धरं परमाद्भुतम् ॥
अत्यंतमुत्कटं रौद्रमघोरं लोमहर्षणम्
॥९५॥महाव्रतं द्विषन्मोहात्पापेनैव स्थितो नरः ॥
न मुच्यते स पापेन जन्मकोटिशतैरपि
॥९६॥महापाशुपतं तस्मान्न हन्यान्न च दूषयेत् ॥
एतस्मिन्निहते तस्मात्कोटिर्भवति घातिता
॥९७॥एवं महाव्रतं यस्तु भोजयेच्छ्रद्धयान्वितः ॥
तस्य भुक्ता भवेत्कोटिर्विप्राणां वेदपाठिनाम्
॥९८॥कपालपूरणीं भिक्षां यतीनां यः प्रयच्छति ॥
विमुक्तः सर्व पापेभ्यो नासौ दुर्गतिमाप्नुयात्
॥९९॥कपाले भोजनं श्रेष्ठं मार्गोऽयं ब्रह्मसंभवः ॥
वदंति लोके वेदेषु पूजितं देवदानवैः
॥१००॥धारयिष्यंति ये विप्राः कपालं भूतमोहनम् ॥
मम तुल्यास्तु ते ब्रह्मन्विचरंति महीतले
॥१॥जपैकनिरता धीराः कपालकृतभूषणाः ॥
महापाशुपता लोके रुद्राः संसारतारकाः
॥२॥धर्माधर्मविमुक्ताश्च कृत्याकृत्यविवर्जिताः ॥
दीक्षया ज्ञानयोगेन प्राणिनस्तारयंति ते
॥३॥यानि तीर्थानि लोकेऽस्मिन्यज्ञकोटिशतानि च ॥
विशुद्धस्य विज्ञानस्य कलां नार्हंति षोडशीम्
॥४॥यथाहं सर्वदेवानां संपूज्यो वै पितामह ॥
तथैव सर्वयोगेभ्यः संपूज्योऽयं महाव्रती
॥५॥संसारबन्धमोक्षार्थं शिवगुह्यमिदं व्रतम् ॥
यदेतत्सर्वधर्मेण अपुनर्भवकारणम्
॥६॥कपालव्रतमादाय यस्त्यजेदजिते न्द्रियः ॥
रौरवं स प्रयात्याशु प्रणीतो यमकिंकरैः
॥७॥आलापयति भावेन न तु कर्म करोति यः ॥
सरागचित्तः शृंगारी न च धर्मप्रियंकरः
॥८॥एकत्र भोजी मिष्टाश्ी कैतवेन प्रियस्तथा ॥
कुग्रामनगरे वासी कृषिवाणिज्यसेवकः
॥९॥इत्यादिदुष्टदोषश्च तस्य संभाषणादपि ॥
नरो नरकगामी स्याद्यतो मद्व्रतदूषकः
॥११०॥दृष्ट्वा च शिष्टमथ ३ महाव्रतधरो नरः ॥
न स्पृशेदंगमंगेन स्पृष्ट्वा स्नायात्तु चांबुभिः
॥११॥एवं च सर्वमाख्यातं कपालस्य च मोक्षणम् ॥
यथा मयात्र निक्षिप्तमज्ञानेन हतं स्वयम्
॥१२॥सनत्कुमार उवाच
एवमुक्त्वा स भगवान्ब्रह्माद्यैरमरैः सह ॥
क्षेत्रं निवासयामास यथावत्कथयामि ते
॥१३॥आद्यमेततत्स्मशानं च पठ्यते मुनिसत्तमैः ॥
महाकालवनं व्यास यत्र सन्नि हितो हरः
॥१४॥अनुग्रहस्य भुवनं भूमिभागो न संशयः ॥
अनुग्रहार्थं भूतानां क्षेत्रांतर्मृत्युधर्मिणाम्
॥१५॥सुवर्णवज्रपर्यंकवेदिका च महीकृता ॥
विचित्रकुसुमारत्नैः कारिता सर्वशोभना
॥१६॥स्वर्णवज्रांकिततला श्रेष्ठा हरितशाद्वला ॥
त्रिंशच्चत्वारिंशपूर्णाः कलशाः कोणसंस्थिताः
॥१७॥द्वाराणि तत्र चत्वारि प्रवर्णानि तपंति च ॥
कुम्भाः शोभंति तत्रस्थाः उदिता भास्करा इव
॥१८॥रमते तत्र भगवान्वनानामुत्तमे वने ॥
सनंदिदेवगणपः कालदंडादिसंयुतः
॥१९॥एतत्कृतयुगे सर्वं प्रत्यक्षं दृश्यते वने ॥
त्रेतायां धर्मनिरतास्तापसा ब्रह्मचारिणः
॥१२०॥द्वापरे धर्मशीला ये श्रुतवि ज्ञानशालिनः ॥
कलौ तु शुद्धविज्ञानशालिनः शंकरं हरम्
॥२१॥तपोधिकाः प्रपश्यंति देवदेवं महेश्वरम् ॥
महाकालवने नित्यं शूलपट्टिशधारिणम्
॥२२॥एतत्ते तथ्यमाख्यातं लोकानुग्रहकारकम् ॥
सहितानुक्रमेणात्र मन्त्रैश्च विधिपूर्वकम्
॥२३॥समर्चयंति ये विप्रा भक्त्या शंभुमहापदम् ॥
वसंतीह समीपं ते महाकालानुभाविताः
॥२४॥पठति य इह लोके तस्य संस्थानमेतत्प्रथितगुणगणौघैरर्चितं दोषहं तत् ॥
शुभमतिरभिषिक्तः सोऽमरैरर्च्यमानो व्रजति हरपुरं यः संशृणोत्येकचित्तः
॥१२५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्ती क्षेत्रमाहात्म्यं कपालमोक्षणवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥