नृसिंहतीर्थमहिमवर्णनम्
सनत्कुमार उवाच
भूयः शृणु परं व्यास तीर्थानामुत्तमं वरम् ॥
तत्तीर्थं सर्वपापघ्नं नृसिंहस्य महात्मनः
॥१॥यस्य दर्शनमात्रेण सर्वपापं समुत्तरेत् ॥
दैत्यराजः समाख्यातो हिरण्यकशिपुः पुरा
॥२॥तेनेयं वसुधा सर्वा संप्राप्ता च दुरात्मना ॥
दुष्टदैत्यबलैर्व्याप्ता भाराक्रांता शुचार्दिता
॥३॥गौर्भूत्वाऽश्रुमुखी देवैर्ब्रह्माणं शरणं ययौ ॥
भाराक्रांतां धरां दृष्ट्वा ब्रह्मा लोकपितामहः
॥४॥उवाच श्लक्ष्णया वाचा तस्याः श्रमं व्यपोहितुम् ॥
श्रूयतां भोऽवने पुण्ये भवत्या उपकारकम्
॥५॥वचो वदामि ते तथ्यं देशकालोचितं तथा ॥
पुराऽनेन तपश्चीर्णं दुष्करं सर्वदेहिनाम्
॥६॥गायत्र्युपासना तेन कृता सुनियतात्मना ॥
मया चास्य वरो दत्तः प्रीतियुक्तेन चेतसा
॥७॥न दिवा न तथा रात्रौ नांतरिक्षे न भूतले ॥
नातिशुष्केण चार्द्रेण न चास्त्रशस्त्रघातनैः
॥८॥न देवासुर गंधर्वैर्न यक्षोरगकिन्नरैः ॥
पिशाचैर्गुह्यकाद्यैश्च राक्षसैर्न कदाचन
॥९॥मानवैः पक्षिजातैश्च न मे मृत्युर्भवेदिति ॥
एककरतलाघातैः सकुलबलवाहनम् ॥
मारयिष्यति मां वीरः स मे मृत्युर्भविष्यति ॥
तथेत्युक्त्वाऽतिहृष्टात्मा तमहं च तदाऽवने
॥११॥आगमं चैव लोकं स्वं स दैत्यो घोरशासनः ॥
बभूव सर्वलोकानां शास्ता चातुलविक्रमः
॥१२॥तस्यैवाऽधिकृता लोके बभूवुर्विगतज्वराः ॥
त्रैलोक्यं बुभुजे नित्यं सर्वदैत्यजनेश्वरः
॥१३॥तस्माद्यूयं वनं यात महाकालं महेशितुः ॥
तत्र तीर्थं महच्चासीत्सर्वतीर्थवरोतमम्
॥१४॥संगमेश्वरस्य दक्षिणे कर्कराजोत्तरे तथा ॥
शिप्रातीरे शुभे देशे पूर्वं वैकुण्ठसन्निभम्
॥१५॥नृसिंहाख्यं परं धाम तस्य तीर्थं प्रतिष्ठितम् ॥
तत्र गत्वा सुरश्रेष्ठाः स्नानदाना दिकाः क्रियाः
॥१६॥कुरुत सत्वरं सर्वे पुनर्लोकानवाप्स्यथ ॥
ते तस्य वचनं श्रुत्वा देवा इन्द्रपुरोगमाः
॥१७॥महाकालवनं प्राप्ता यत्र शिप्रा पयस्विनी ॥
नृसिंहतीर्थोपकूले उषित्वा शाश्वतीः समाः
॥१८॥स्नानदानादिकं कृत्वा नृसिंहस्याऽर्चनं तथा ॥
एवं कृत्वा विधानेन परां सिद्धिमितो गताः
॥१९॥नृसिंहस्य स्वरूपेण हतो दानवपुंगवः ॥
सभामध्ये तदा व्यास हरिणाऽमित्रघातिना
॥२०॥करेणैकप्रहारेण हिर ण्यकशिपुर्हतः ॥
ततः सुरगणाः सर्वे स्वाधिकारान्ययुस्तदा
॥२१॥तदारभ्य सुराः सर्वे मध्याह्नोह्नोपासनं सदा ॥
प्रकुर्वंति च तत्रैव यत्र तीर्थे हरिः परम्
॥२२॥एवं तीर्थं परं व्यास अवंत्यां विद्यते भुवि ॥
अस्मिंस्तीर्थे द्विजश्रेष्ठ स्नानदानादिकाः क्रियाः
॥२३॥ये कुर्वंति नराः पुण्यास्ते यांति परमां गतिम् ॥
सर्वदा सर्वकालेषु पुण्यदं तीर्थमुत्तमम्
॥२४॥कदाचिन्नृसिंहतिथिं प्राप्य चैव चतुर्दशीम् ॥
स्नानं कृत्वाऽर्चनं तस्य नृसिंहस्य च धीमतः
॥२५॥नृसिंहेश्वरदेवेशं पूजयेद्यः समाहितः ॥
तस्य हस्तगता लक्ष्मीर्भविष्यति न संशयः
॥२६॥ततोऽगस्त्येश्वरं देवं यः पश्येत्युसमाहितः ॥
तस्य व्यास क्षितौ किंचिद्दुर्लभं नैव दृश्यते
॥२७॥यत्र सिद्धिं परां प्राप्तो हनुमान्पवनात्मजः ॥
ब्रह्मचारी सदाचारो यतिः सर्वार्थसाधकः
॥२८॥तिष्ठति परदैवज्ञः सर्वकामार्थसिद्धये ॥
यस्मिन्वटे पुरा तप्तं तपः परमदुश्चरम्
॥२९॥मित्रावरुणपुत्रेण सिद्धिहेतोस्तपस्विना ॥
बोधी न्यग्रोध इत्याख्यो ह्यगस्तिवट एव च
॥३०॥नरो नारीसमायुक्तः सावित्रीव्रतमाचरेत् ॥
सौभाग्यं लभते नित्यं सावित्र्याश्च परंतप
॥३१॥यस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा दानं च सौभगम् ॥
अष्टसौभाग्यसंपूर्णं वंशपात्रं सवासकम्
॥३२॥सप्तधान्यसमोपेतं पंचरत्नपरिष्कृतम् ॥
सौगंध्यादीनि माल्यानि मौलिसूत्रसमायुतम्
॥३३॥सावित्रीं हाटकीं कृत्वा यथाशक्ति परंतप ॥
यो वै ददाति विप्राय वेदवेदांगधीमते
॥३४॥लभते विपुलां लक्ष्मीं बहुभोगकरीं शुभाम् ॥
भुक्त्वा वै विविधान्भोगान्पुनः स्वर्गमवाप्नुयात्
॥३५॥सावित्रीव्रतकृन्नारी जायते पतिवल्लभा ॥
पतिव्रता महाभागा विधवा न कदाचन
॥३६॥इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे अवन्तीक्षेत्रमाहात्म्ये नृसिंहतीर्थमहिमवर्णनंनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥
सनत्कुमार उवाच