प्रायश्चित्तवर्णनम्
सनत्कुमार उवाच
छिन्ने वक्त्रे ततो ब्रह्मा क्रोधेन तमसा वृतः ॥
ललाटे स्वदमुत्पन्नं गृहीत्वाऽताडयद्भुवि
॥१॥तत्स्वेदात्कुंडली जज्ञे सधनुः समहेषुधिः ॥
सहस्रकवचो वीरः किं करोमीत्युवाच ह
॥२॥तमुवाच विरंचिस्तु दर्शयन्रुद्रमोजसा ॥
वध्यतामेष दुर्बुद्धिर्जायते न यथा पुनः
॥३॥ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः ॥
स प्रतस्थे महेशस्य बाणहस्तोऽतिरोषभृत्
॥४॥स दृष्ट्वा पुरुषं चोग्रमगमद्विस्मितो भवः ॥
दिव्यबाणधनुर्हस्तं वेगविक्रांतगामिनम्
॥५॥मया न वध्योऽतिबलः सखा विष्णोर्भविष्यति ॥
अनुग्राह्यो ह्यहं तेन सख्यार्थं तपसि स्थितः
॥६॥चिंतयन्नित्थमीशोऽपि विष्णोराश्रममभ्यगात् ॥
हुंकारध्वनिना ब्रह्मन्मोहयित्वा ततो नरम्
॥७॥प्रपात्य च तदा हृष्टः क्रीडां कुर्वञ्जगत्स्थितौ ॥
यत्र नारायणः श्रीमांस्तपस्तेपे प्रतापवान्
॥८॥अदृश्यः सर्वभूतानां विश्वात्मा विश्वसृग्विभुः ॥
तत्र प्राप्तो विरूपाक्षो ददर्श मधुसूदनम्
॥९॥एकांगुष्ठस्थितं भूमौ तपोऽत्यंतमनातुरम् ॥
युगांतार्कसहस्रस्य तेजसा वृतमद्भुतम्
॥१०॥पुण्या धारसमायुक्तं पुराणपुरुषोत्तमम् ॥
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह
॥११॥कपालं दर्शयित्वाग्रे ज्वलज्ज्वलनसोत्कटम् ॥
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिंतयत्
॥१२॥कोऽन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम् ॥
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत्
॥१३॥तं बिभेदांतर्गतज्ञः शूलेन शशिशेखरः ॥
ततः प्रवाह उत्पन्नः शोणितस्य विभोर्भुजात्
॥१४॥जांबूनदरसाकारा वह्निज्वालेव निर्मला ॥
निष्पपात कपालांते शंभुना संप्रतीच्छिता
॥१५॥ऋज्वी वेगवती शिप्रा दीधितीवांबरे रवेः ॥
पंचाशद्योजना दीर्घा विस्तारे दशयोजना
॥१६॥दिव्यं वर्षसहस्रं सा समुवाह हरेर्भुजात् ॥
कियंतं कालमीशो हि भिक्षां जग्राह भावितः
॥१७॥दत्तां नारायणेनाथ सत्पात्रे पात्र उत्तमे ॥
ततो नारायणः प्राह हरं परमिदं वचः
॥१८॥संपूर्णं तव पात्रं हि ततो वै परमेश्वरः ॥
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः
॥१९॥शशिसूर्याग्नि नयनः शशिशेखरशोभितः ॥
कपाले दृष्टिमावेश्य त्रिनेत्रैश्च जनार्दनम्
॥२०॥अंगुल्या घटयन्प्राह कपालं चातिपूरितम् ॥
श्रुत्वा हरिरिदं वाक्यं रक्तधारां समाहरत्
॥२१॥पार्श्वतोथ हरेरीशः स्वांगुल्या रुधिरं तदा ॥
दिव्यं वर्षसहस्रं च दृष्टिपातं ममंथ वै
॥२२॥मथ्यमाने ततो रक्ते कललं बुद्बुदं क्रमात् ॥
बभूव च ततः पश्चात्किरीटी सशरासनः
॥२३॥सहस्रबाहू रक्ताक्षो धनुर्ज्यां संस्पृशन्मुहुः ॥
बभूव तूणीरगलो वृषस्कंधोंऽगुलित्रवान्
॥२४॥पुरुषोऽर्जुनसंकाशः कपाले संप्रकाशयन् ॥
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः
॥२५॥कपाले भगवन्कोऽयं प्रादुर्भूतोऽभवन्नरः ॥
उक्तिं श्रुत्वा हरेरीशस्तमुवाच हरे शृणु
॥२६॥नरो नामेति पुरुषः परमास्त्रविदांवरः ॥
यस्त्वयोक्तो नर इति नरस्तस्माद्भ विष्यति
॥२७॥नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः ॥
संग्रामे देवकार्येषु लोकानां परिपालने
॥२८॥एष नारायण सखा नरस्तव भविष्यति ॥
तव एकाकिनः संख्ये तपसश्च महामुनिः
॥२९॥विज्ञानस्य परीक्षायै तेजो लोके भविष्यति ॥
तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः
॥३०॥तेजसा ब्रह्मणो दीप्तो भुजस्य तव शोणितात् ॥
मम दृष्टिनिपाताच्च त्रीणि तेजांसि यान्यतः
॥३१॥तत्संयोगात्समुत्पन्नः शत्रूनुद्वेजयिष्यति ॥
अवध्या ये भविष्यंति दुर्जयास्तव चापरे
॥३२॥शक्रस्य चामरारीणां तेषामेव भयंकरः ॥
एवमुक्तवतः शंभोर्विस्मितस्तस्य तेजसा
॥३३॥हरिरपि स तत्रैव तुष्टाव हरकेशवौ ॥
नमो हर हरे तुभ्यं नमः शंकर विष्णवे
॥३४॥नमस्ते शूलहस्ताय नमस्ते खङ्गपा णये ॥
नमोनमस्ते मेध्याय हृषीकेश नमोऽस्तु ते
॥३५॥नमोऽस्तु वाचां पतये श्रीधराय नमोनमः ॥
एवं स्तुवन्तं तं भक्त्या कृतांजलि पुटं नरम्
॥३६॥तथैवांजलिसंबद्धं गृहीत्वाशु करद्वयम् ॥
उद्धृत्याथ कपालात्तु पुनर्वचनमब्रवीत्
॥३७॥य एव पुरुषो रौद्रो ब्रह्मणः स्वेदसं भवः ॥
मम हुंकारशब्देन मोहनिद्रामुपागतः
॥३८॥निबोध तं च त्वरितमित्युक्त्वांतर्हितो हरः ॥
नारायणस्य प्रत्यक्षं बोधयित्वा द्रुतं हि तम्
॥३९॥वामपादेन हत्वा च समुत्तस्थौ नरो रुषा ॥
तयोर्युद्धं समभवत्स्वेदरक्तजयोर्महत्
॥४०॥विस्फारितधनुःशब्दैर्नादिताशेषभूत लम् ॥
कवचं स्वेदजस्यैकं रक्तजस्य तथा भुजौ
॥४१॥एवं समेन वै युद्धं दिव्यं जातं तु भूतले ॥
त्रिवर्षोनानि वर्षाणां शतानि दश सुद्विज
॥४२॥युध्यतो समतीतानि स्वेदरक्तजयोर्मुने ॥
रक्तजो द्विभुजो दृष्ट्वा कवचैकेन स्वेदजम्
॥४३॥बिभेद बाणवेगेन ब्रह्मणस्तं नरं परम् ॥
ससंभ्रममु वाचेदं ब्रह्माणं मधुसूदनः
॥४४॥मन्नरेणोच्छ्रितो ब्रह्मंस्त्वदीयो विनिपातितः ॥
श्रुत्वा तदाकुलो ब्रह्मा बभाषे मधुसूदनम्
॥४५॥हरेऽन्यजन्मनि नरो मदीयो यदि हीयते ॥
तेन तुष्टेन संप्रोक्तं हरिणैवं भविष्यति
॥४६॥कृत्वा तयो रणमपि निवार्य तावुवाच ह ॥
अथान्यजन्मनि नरो मदीयो भविता कलौ
॥४७॥ततो महारणे जाते तत्राहं योजयामि तम् ॥
विष्णुनाथ समाहूय महेश्वरसुरेश्वरौ
॥४८॥उक्ताविमौ नरौ रुद्रौ पालनीयौ स्वशक्तितः ॥
स्वेदजातासृग्जातौ तु स्वकीयांशौ धरातले ॥
स्वांशभूतौ द्वापरांते नियोज्यौ भूतले त्वया
॥४९॥ततोऽब्रवीत्तदा विष्णुं सुरेशो दुःखितं वचः
॥५०॥अस्मिन्मन्वंतरे देव त्रेतायुगं तदा यदा ॥
त्वद्रूपेणेह महता सूर्यपुत्रहितार्थिना ॥
वालीनाम महाबाहुः सुग्रीवार्थे निपातितः
॥५१॥तेन दुःखेन तप्तोऽहं नाहं गृह्णामि ते नरम् ॥
अगृह्णमानं देवेशं कारणांतरवादिनम्
॥५२॥विष्णुः प्रोवाच मघवन्भुवो भारावतारणे ॥
अवतारं करिष्यामि मर्त्यलोकेऽप्यहं विभो
॥५३॥ततो हृष्टोऽभवच्छक्रो विष्णुवाक्येन तेन वै ॥
प्रतिगृह्य नरं हृष्टः सत्यमस्तु वचस्तव
॥५४॥इत्युक्त्वा तु रवीन्द्रौ स प्रेषयित्वा च तौ पुनः ॥
गत्वा च पुण्डरीकाक्षो ब्रह्माणं ब्रह्मवेश्मनि
॥५५॥कृतं जुगुप्सितं कर्म ब्रह्मन्नीशं जिघांसता ॥
यत्त्वया देवदेवेश पुमान्कोपेन भाषितः
॥५६॥शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु ॥
गृह्णन्वह्नित्रयं ब्रह्मन्नग्नि होत्रमुपास्व ह
॥५७॥एको वै गार्हपत्योऽस्तु द्वितीयाहवनीयकः ॥
दक्षिणाग्निस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय
॥५८॥वर्तुले तर्पयात्मानं मामथो धनुषाकृतौ ॥
चतुष्कोणे हरं देवमृग्यजुःसामनामभिः
॥५९॥हुत्वा त्वग्निं च तपसा हरमेवार्च्य तत्क्षणात् ॥
दिव्यं वर्षसहस्रं तु हुत्वाग्निं सिद्धिमाप्स्यसि
॥६०॥प्रायश्चित्तविशुद्धात्मा प्रतिपद्य महेश्वरम् ॥
ततो निष्कल्मषो भूत्वा विषादस्ते गमिष्यति
॥६१॥इत्येवमुक्त्वा हरिरुग्रतेजा गतः स्वकीयं निलयं महात्मा ॥
ब्रह्मापि चित्तं तपसे निधाय समादधे सर्वमथाच्युतोक्तम्
॥६२॥इति श्रीस्कांदे महापुराण एकाशीतिसाह स्र्यां संहितायां पंचम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्ये ब्रह्मणः प्रायश्चित्तवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥