मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १८

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 18

एकानंशां नमस्कृत्य देवीं त्रैलोक्यविश्रुताम्

सनत्कुमार उवाच

एकानंशां नमस्कृत्य देवीं त्रैलोक्यविश्रुताम् ॥

पूजां कृत्वा विधानेन सर्वसिद्धिफलं लभेत्

॥१॥

अणिमादिगुणान्सर्वान्गुटिकासिद्धिमंजनम् ॥

खड्गं च पादुके चैव विलवासं रसायनम् ॥

सर्वं तुष्टा प्रयच्छेत नात्र कार्या विचारणा

॥२॥

सुरामांसोपहारैश्च भक्ष्यभोज्यैश्च पूजिता ॥

सर्वान्कामान्नृणां देवी तुष्टा दद्याच्च सर्वदा

॥३॥

महानवम्यां यो देवीं महिषेण प्रपूजयेत् ॥

मेषेण वा यथालाभं सर्वान्कामानवाप्नुया त्

॥४॥

व्यास उवाच

कथं देवी समुत्पन्ना एकानंशेति विश्रुता ॥

तत्सर्वं श्रोतुमिच्छामि सर्वपापप्रणाशिनी

॥५॥

सनत्कुमार उवाच

पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ॥

निशां सस्मार भगवान्स्वां तनूं पूर्वसंभवाम्

॥६॥

ततो भगवती रात्रिरुपतस्थे पितामहम् ॥

तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्

॥७॥

ब्रह्मोवाच

विभावरी महामाये विबुधानामुपस्थितम् ॥

यत्कर्तव्यं त्वया देवि शृणु चार्थस्य निश्चयम्

॥८॥

तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः ॥

तस्य भयेन वै देवास्त्रस्ताः सर्वे दिवौकसः

॥९॥

तस्माद्भद्रे महेशो वै जनयिष्यति चेद्वरम् ॥

सुतं स भविता तस्य तारकस्यांतकः किल

॥१०॥

शंकरम्याभवत्पत्नी सती दक्षसुता तु या ॥

सा पितुः कुपिता भद्रे कस्मिंश्चित्कारणांतरे

॥११॥

भवित्री हिमशैलस्य दुहिता लोकपावनी ॥

विरहेण हरस्तस्या मत्वा शून्यंजगत्त्रयम्

॥१२॥

अतपद्धिमशैलस्य कंदरे सिद्धसेविते ॥

प्रतीक्षमाणस्तज्जन्म किंचित्कालं वसिष्यति

॥१३॥

तस्मात्सुतप्ततपसोर्भविता यो महाप्रभुः ॥

स भविष्यति दैत्यस्य तारकस्य निवारकः

॥१४॥

जातमात्रा तु सा देवी स्वल्पसंज्ञैव भामिनी ॥

विरहोत्कंठिता गाढं हरसंगमलालसा

॥१५॥

तयोः सुतप्ततपसोः संयोगः स्यात्सुयुक्तयोः ॥

पार्वतीहरयोस्तस्मात्सुरतं शक्तिकारणम्

॥१६॥

भवेत्तत्र सुराणां च कार्यार्थे विप्रमाचर ॥

विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु

॥१७॥

गर्भस्थानेऽथ तां मातः स्वेन रूपेण रंजय ॥

ततो रहसि शर्वस्तां बिभ्रदानंदपूर्वकम्

॥१८॥

हासयिष्यति कालीति ततः सा कुपिता सती ॥

प्रयास्यति तपः कर्तुं ततः सा तपसा युता

॥१९॥

जनयिष्यति यं शर्वादिंदुवज्ज्योतिमंड लम् ॥

स भविष्यति हंता वै सुरारीणां न संशयः

॥२०॥

त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः ॥

यावच्च न सती देहे संक्रांतगुणसंचया

॥२१॥

तत्संगमेन तावत्त्वं दैत्यान्हंतुं भविष्यसि ॥

एवं कृते त्वया देवि तपः काली करिष्यति

॥२२॥

समाप्तनियमा सा च यदा गौरी भविष्यति ॥

तदा तवापि सारूप्यं शैलजा संप्रदास्यति

॥२३॥

ततस्तवापि सहजा सैकानंशा भविष्यति ॥

रूपांशेन च संयुक्ता त्वमुमाख्या भविष्यसि

॥२४॥

एकानंशेति लोकस्त्वां वरदे पूजयिष्यति ॥

भेदैर्बहुविधाकारैः सर्वगां कामसाधनीम् २५ ॥

ॐकारवक्त्रा गायत्री त्वमेव ब्रह्मवादिनी ॥

आक्रांतरुचिराकारा राज्ञां चाहवशालिनी

॥२६॥

विशां त्वं कमलादेवी शूद्राणां जननी स्वयम् ॥

ज्ञानिनां ज्ञेयरूपा त्वं त्वं गतिः सर्वदेहिनाम्

॥२७॥

त्वं च कीर्तिमतां कीर्तिस्त्वं भूतिः सर्वदेहिनाम् ॥

रतिदा रक्तचित्तानां प्रीतिस्त्वं स्नेहवर्तिनाम्

॥२८॥

त्वं कांतिः कृतभूषा णां त्वं शांतिर्हृष्टकर्मणाम् ॥

त्वं च भ्रांतिरबोधानां त्वं कीर्तिः क्रमयाजिनाम्

॥२९॥

महावेला समुद्राणां विलासस्त्वं विलासिनाम् ॥

संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकशालिनाम्

॥३०॥

इत्यनेकविधैर्देवि रूपैर्लोकेषु चर्चिता ॥

ये त्वां पश्यंति वरदे पूजयिष्यंति चापि ये ॥

कामा नाप्स्यंति ते सर्वे नियतं नात्र संशयः

॥३१॥

इत्येवं सा समुत्पन्ना ब्रह्मणा संस्तुता सती ॥

एकानंशा महादेवी ध्यातव्या सापि भक्तितः

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्य एकानंशामाहात्म्यवर्णनंनामाष्टादशो ऽध्यायः ॥ १८ ॥