मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ९

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 9

महिषकुण्डरुद्रसरोमाहात्म्यवर्णनम्

व्यास उवाच

कथं तन्माहिषं कुण्डं मातॄणामाकृतिः कथम् ॥

रुद्रस्यैव कथं क्षेत्रे महिषो दानवो हतः

॥१॥

सनत्कुमार उवाच

कपालखंडमादायं महादेवोऽप्यतिप्रभम् ।

ब्रह्मतेजो मयं दिव्यं ज्वलंतमिव चार्चिषा

॥२॥

क्रीडमानो जगन्नाथो मोहयामास वै सुरान् ॥

निमेषात्स इमं लोकं योगात्मा योगलीलया

॥३॥

प्राप्य पुण्यतमं क्षेत्रं यत्रातिष्ठन्महाप्रभुः ॥

तत्रतत्र महद्दिव्यं कपालं देवताधिपः

॥४॥

स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥

त्वत्स्थापितमथो दृष्ट्वा गताः सर्वे महौजसः

॥५॥

विनदत्समहानादं नादयंत दिशो दश ॥

क्षोभार्णवाशनिप्रख्यं नभो येन विदीर्यते

॥६॥

तेन शब्देन घोरेण दानवो देवकंटकः ॥

हालाहल इति ख्यातो देशं तमभिधावितः

॥७॥

अमृष्यमाणः क्रोधार्तो दुरात्मा दुर्जयः सुरैः ॥

ब्रह्मदत्तवरश्चैव माहिषं वपुरास्थितः

॥८॥

दैत्यैः परिवृतो घोरै कोटिभिश्चोद्यतायुधैः ॥

तमायांतं तु सक्रोधं महिषं देवकंटकम्

॥९॥

समावेक्ष्याह वै देवो गणान्सर्वा न्पिनाकधृक् ॥

मायावी गणपा दैत्यस्त्रैलोक्यस्यापि कंटकः

॥१०॥

आयाति त्वरितो यूयं तस्मादेनं विनिघ्नथ ॥

कपालस्य गतिं सर्व आश्रिता गणनायकाः

॥११॥

ततो देवगणा दृष्ट्वा तमायांतं महासुरम् ॥

गर्जमानं महानादं भ्रममाणं महाभुजम्

॥१२॥

बिभिदुः शलसंघातैरसिभि र्मुसलैस्तथा ॥

संमुह्य शरजालेन ततो भूमौ न्यपातयन्

॥१३॥

हते तस्मिन्महादेवो देवान्प्रोवाच वै तदा ॥

अहो दर्पातिमूढः स दर्पेण निधनं गतः

॥१४॥

एतस्मिन्नंतरे व्यास तत्कपालात्सुभैरवाः ॥

दीप्तास्या मातरः सर्वाः प्रचंडास्त्रा महाबलाः

॥१५॥

अभ्यधावंस्तमुद्देशं महादेवं निवेद्य वै ॥

दैत्यं ता भक्षयंति स्म भित्त्वा भित्त्वा महाबलाः

॥१६॥

कपालमातरस्तस्मात्ख्याताः क्षेत्रे महाबलाः ॥

महाकपालस्तस्माद्वै तादृशः परि कीर्तितः

॥१७॥

स्थापितस्य कपालस्य भित्त्वा समभवत्पुरा ॥

ख्यातं शिवतडागं च सर्वपापप्रणाशनम्

॥१८॥

तदद्यापि महद्दिव्यं सरस्तत्र प्रकाशते ॥

त्रिषु लोकेषु विख्यातं गणगंधर्वसेवितम्

॥१९॥

पात्रस्थमुद्धुतं वापि शीतोष्णं क्वथितं जलम् ॥

रौद्रं सरः पुनातीहाश्वमेधावभृथो यथा

॥२०॥

प्रागाद्ब्रह्मापि तं देशं देवतानां शतैर्वृतः ॥

स्वर्गलोकस्य निःश्रेणी कीर्तिता ब्रह्मणा स्वयम्

॥२१॥

अत्र त्यजंति ये प्राणान्रुद्र लोकं व्रजंति ते ॥

धन्या व्यास नरा मर्त्ये महाकालवने स्थिताः

॥२२॥

रौद्रे सरसि ये स्नांति जलं वापि पिबंति ये ॥

स्वधर्माचारनिरताः पश्यंतीशानमीश्वरम्

॥२३॥

इति स्वर्गगता देवाः स्पृहां कुर्वंति नित्यशः

॥२४॥

इदं शुभं दिव्यमधर्मनाशनं महाकपालं सुरदैत्यपूजितम् ॥

महाप्रभं पापहरं सनातनं सुरेशलोकादपि दुर्लभं सदा

॥२५॥

तपोरतैः सिद्धगणैरभिष्टुतं यथा नभःस्थं दिननाथमंडलम् ॥

य एकचित्तः शृणुयात्प्रसादतस्त्रिविष्टपं गच्छति सोऽभिनंदितः

॥२६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां पंचम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये महिषकुण्डरुद्रसरोमाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥