गोमतीतीर्थकुण्डमाहात्म्यवर्णनम्
व्यास उवाच
गोमतीकुण्डं त्वया प्रोक्तं पुरा ब्रह्मन्सनातनम् ॥
कस्मिन्काले कदा जातं तन्नो वद सुविस्तरात्
॥१॥सनत्कुमार उवाच
शृणुष्व भो महाप्राज्ञ कथां पापहरां पराम् ॥
गोमतीकुण्डोद्भवां पुण्यां पुरा रुद्रेण भाषिताम्
॥२॥नैमिषे च समासीना ऋषयः शौनकादयः ॥
कथयंति कथां पुण्यां सर्वतीर्थोद्भवां शुभाम्
॥३॥तस्मिन्नवसरे पुण्ये काशीमाहात्म्यमुत्तमम् ॥
कथितं नारदेनैव पवित्रं पापहारकम्
॥४॥ऊषरः पुण्य पापानां धन्या वाराणसी पुरी ॥
ध्रुवं लभंते मोक्षं च समं चंडालपंडिताः
॥५॥असीवरुणयोर्मध्ये पंचक्रोशी महाफलम् ॥
अमरा मरणमिच्छन्ति का कथा इतरे जनाः
॥६॥इति स्मृत्वा तदा व्यास स्वयंभूः प्रत्यभाषत ॥
शृण्वतां सर्वदेवानामृषीणां च परंतप
॥७॥नदी न गोमतीतुल्या कृष्णतुल्या न देवता ॥
सर्वपातालभूमध्ये न द्वारकासमा पुरी
॥८॥इति ते निश्चयं ज्ञात्वा ऋषयः शौनकादयः ॥
यत्र तत्र स्थिताः सर्वे प्रातःसंध्यामुपासितुम्
॥९॥तत्रैव गोमतीतीरे चक्रुस्ते ला धृतव्रताः ॥
सांदीपनोऽपि तत्रैव प्रातःसंध्यां समाचरत्
॥१०॥एवं बहुतिथे काले चरतस्तस्य वै व्रतम् ॥
सांदीपनस्य वै व्यास ह्यवंतीपुरवासिनः
॥११॥तस्यैव कामपूर्त्यर्थं विद्यार्थिनौ रामजनार्दनौ ॥
समायातौ सुकुमारांगौ सततं ब्रह्मचारिणौ
॥१२॥निवासं चक्रतुस्तस्य गुरोर्गेहे परंतप ॥
तस्य पाठयतः सम्यग्विद्यां सर्वश्रुतीः परम्
॥१३॥उषस्युषसि तत्रैव दृश्यते न तदा गुरुः ॥
विद्योपदेशकालोऽयं क्व गतो नौ गुरुर्वरः
॥१४॥इति पृष्टे तयोरेवं गुरुपत्नी ह्युवाच ह ॥
सदैव कुरुते वत्स प्रातःसंध्याद्युपास नम्
॥१५॥तत्रैव याति वै नित्यं गुरुस्ते स्नानकारणात् ॥
गोमती वै सरिच्छ्रेष्ठा द्वारकायां च पावनी
॥१६॥इति श्रुत्वा तदा कृष्णो रामेण सह संयुतः ॥
किं कर्तव्यमिहास्माभिरात्मनो हितमुत्तमम्
॥१७॥गुरोरागमनं कांक्षे अत्रैव स्थितिकांक्षया ॥
एतस्मिन्नेव काले तु सांदीपनिरगा द्गृहम्
॥१८॥तत उत्थाय तौ वीरौ गुरोरावंदनं ततः ॥
प्रश्रयावनतौ कृत्वा ह्यब्रूतां वचनं गुरुम्
॥१९॥श्रूयतां भो महायोगिन्नस्माकं वासकार णम् ॥
विद्यार्थिनाविह प्राप्तौ युष्माकं च गृहोत्तमे
॥२०॥प्रातःकाले च ते ब्रह्मन्समयो नास्ति नौ प्रभो ॥
एतच्छुत्वा वचस्तस्य कृष्णस्य च बलस्य च
॥२१॥उवाच भगवान्व्यास आत्मनो व्रतकारणम् ॥
अस्माकं परमं वत्स व्रतं वै शाश्वतं मतम्
॥२२॥गोमतीस्नानं कर्तव्यं प्रातःकाले सदा बुधैः ॥
तत्रैवोपासनं पुण्यं संध्याया इति निश्चितम्
॥२३॥इति निश्चित्य युष्माभिर्यद्योग्यं क्रियतां तथा ॥
तच्छ्रुत्वा भगवान्विष्णुर्मायामानुषरूपवान्
॥२४॥गोमत्याराधनं चक्रे कुशस्थल्यां द्विजोत्तम ॥
यत्र शिवेश्वरो देवो यज्ञकुण्डमनुत्तमम्
॥२५॥कंथडेश्वरस्योत्तरे भागे गोमती सा समागता ॥
पातालतलमाभेद्य सरस्वत्या सहागता
॥२६॥प्रातरुत्थाय ते सर्वे गोमतीं सरितां वराम् ॥
ददृशुः सुचिरापांगीं व्यास स्वाश्रमगामिनीम्
॥२७॥श्रीकृष्ण उवाच
अत्रैव चागता ब्रह्मन्गोमती सरितांवरा ॥
स्नानदानादिकं सर्वमत्रैव समुपासय
॥२८॥गोमत्यत्र समालीना यज्ञकुण्डे सरस्वती ॥
तदाप्रभृति लोकेऽस्मिन्गोमतीकुण्डमुच्यते
॥२९॥सर्वेषामपि लोकानां मार्गोऽ त्रैव च विद्यते ॥
तस्माद्व्यास महापुण्यं भुवि तीर्थमनुत्तमम्
॥३०॥गोमतीकुण्डमाख्यातं सर्वपापप्रणानशनम् ॥
भाद्रे मास्यसिताऽष्टम्यां कृष्ण जन्मसमुद्भवम्
॥३१॥तत्र स्नात्वा नरो नित्यं रात्रौ जागरणं चरेत् ॥
उपोष्य विधिवद्व्यास सशिष्यं व्यासमर्चयेत्
॥३२॥वैष्णवांश्च नरांश्चैव कृष्णजन्मोत्सुकान्वरान् ॥
नानासुगंधपुष्पाद्यैर्वस्त्रालंकारसंयुतैः
॥३३॥गोब्राह्मणानां पूजाश्च क्रियते यैः समाहितैः ॥
न तेषां दुर्लभं किंचित्सर्वलोकेषु विद्यते
॥३४॥गोमतीस्नानजात्पुण्याद्वासुदेवसमागमात् ॥
मनोरथफलप्राप्तिर्जायते नाऽत्र संशयः
॥३५॥तथा चैत्रसिते पक्षे यावच्चैकादशी भवेत् ॥
तद्दिने च नरः स्नात्वा गोमत्यां च विशेषतः
॥३६॥रात्रौ जागरणं कृत्वा विष्णुपूजां तथैव च ॥
आमलकीं ततो गत्वा प्रदक्षिणात्पदेपदे
॥३७॥गोसहस्रफलं तेषां प्राप्यते नाऽत्र संशयः ॥
ये शृण्वंति कथां पुण्यां पवित्रां पापहारिणीम्
॥३८॥सर्वपापविनिर्मुक्ता विष्णुलोकं प्रयांति ते
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गोमतीतीर्थकुण्डमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥