मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १९

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 19

अथातः संप्रवक्ष्यामि हरसिद्धिं सुसिद्धिदाम्

सनत्कुमार उवाच

अथातः संप्रवक्ष्यामि हरसिद्धिं सुसिद्धिदाम् ॥

पार्वत्या हरणे यत्र सिद्धिः प्राप्ता हरेण च

॥१॥

बलिनौ दानवौ जातौ नाम्ना चण्डप्रचंडकौ ॥

उत्खाय त्रिदिवं सर्वं गिरिं कैलासमागतौ

॥२॥

दृष्ट्वा तत्र गिरीशं तु उद्यताक्षाक्षहस्तकम् ॥

नागेशं शशिखट्वांगं गृहीत्वा दक्षिणे करे

॥३॥

देविदेवीति जल्पंतं दासस्तेऽस्मीति वादिनम् ॥

यावदेकं तु फलकं तावद्द्यूतं प्रवर्तताम्

॥४॥

रागीभूते तदा देवे तौ प्राप्तौ देवकंटकौ ॥

उत्सादिताः शिवगणा नंदिना प्रतिषेधितौ

॥५॥

ततस्ताभ्यां तदा नंदी शूलाभ्यां प्रविदारितः ॥

समं सव्यदक्षिणं वै सुस्राव रुधिरं बहु

॥६॥

नंदिनं ताडितं दृष्ट्वा तदा शिलादनंदनम् ॥

ध्याता हरेण सा देवी प्रणता साऽग्रतः स्थिता

॥७॥

वध्यतां तौ महादैत्यौ वधामीति वचोऽब्रवीत् ॥

गृहीत्वा मुद्गरं घोरमतिक्रोधादताडयत्

॥८॥

यदा तया हतौ दृष्टौ दानवौ बलगवितौ ॥

हरस्तामाह हे चंडि संहृतौ दुष्टदानवौ

॥९॥

हरसिद्धिरतो लोके नाम्ना ख्यातिं गमिष्यसि ॥

ततः प्रभृति सा देवी हरसिद्धि प्रदायिनी ॥

हरसिद्धिरिति ख्याता महाकाले बभूव ह

॥१०॥

यः पश्येत्परया भक्त्या हरसिद्धिं नरोत्तमः ॥

सोऽक्षयाँल्लभते कामान्मृतः शिवपुरं व्रजेत्

॥११॥

आदिसिद्धिं महादेवीं नित्यां व्योमस्वरूपिणीम् ॥

हरसिद्धिं प्रपश्येद्यः सोऽभीष्टं लभते फलम्

॥१२॥

यः स्मरेद्धरसिद्धीति मंत्रं च चतुरक्षरम् ॥

न वैरिणो भयं तस्य दारिद्र्यं नैव जायते

॥१३॥

नरो महानवम्यां यो हरसिद्धिं प्रपूजयेत् ॥

महिषं च बलिं दद्यात्स भवेद्भूपतिर्भुवि

॥१४॥

नवम्यां पूजिता देवी हरसिद्धिर्हरप्रिया ॥

तुष्टा नृणां सदा व्यास ददात्यनवमं फलम्

॥१५॥

सा पुण्या सा पवित्रा च सर्वत्र सुखदायिनी ॥

स्मृता संपूजिता दृष्टा धनपुत्रसुखप्रदा

॥१६॥

महानवम्यां ये व्यास हन्यंते महिषादयः ॥

सर्वे ते स्वर्गतिं यांति घ्नतां पापं न विद्यते

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये हरसिद्धिमाहात्म्य वर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥