मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ४५

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 45

कुमुद्वतीप्रभावकथनम्

सनत्कुमार उवाच

शृणुष्वावहितो व्यास कथां पापहरां पराम् ॥

एषा कुमुद्वती जाता यथा पद्मावती पुरी ॥

तथाहं संप्रवक्ष्यामि यथा मे लोमशोऽब्रवीत्

॥१॥

लोमश उवाच

शृणु वत्स मया दृष्टा बहुपुण्यतमा पुरी ॥

एकदा तीर्थयात्रायां गतोऽहं वै कुशस्थलीम् ॥

गुह्याद्गुह्यतरं स्थानं यत्र संनिहितो हरः

॥२॥

यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥

यत्र तत्र स्थिता विप्रा ब्रह्मघोषमकुर्वत

॥३॥

यज्ञांश्चैव तथा चित्रानृत्विजोदारकर्मणः ॥

ऋषयश्च महाभागाः प्रकुर्वंति समाहिताः

॥४॥

ऋषिपत्न्यस्तथा साध्व्यः परिचर्यां प्रकुर्वते ॥

दश विष्णुसमाः ख्यातास्तत्रैव निवसंति ते

॥५॥

रुद्रा ह्येकादश प्रोक्ता द्वादशार्कास्तथैव च ॥

अष्टौ च वसवः ख्याता विश्वे देवास्त्रयोदश

॥६॥

अष्टौ च दिग्गजाश्चैव मनवश्च चतुर्दश ॥

मरुद्गणाश्च ते सर्वे तत्रैवेंद्रपुरोगमाः

॥७॥

गंधर्वासरसश्चैव किंनरोरगराक्षसाः ।

सिद्धास्तपस्विनो वत्स तत्रैव समुपस्थिताः

॥८॥

अष्टौ वै भैरवाः ख्याताश्चत्वारः पवनात्मजाः ॥

विनायकाश्च षट् प्रोक्ता देव्यश्च चतुर्विंशतिः

॥९॥

एते देवगणाः प्रोक्ता रौद्राश्चैव तथा गणाः ॥

ब्रह्मा वेदविदां श्रेष्ठो मरिचिकश्यपादयः

॥१०॥

दक्षः प्रजापतिश्रेष्ठो दितिर्वै देवमातरः ।

सुरभीप्रमुखा गावः स्थावराणि चराणि च

॥११॥

तीर्थानि यानि सर्वाणि नद्यः प्रस्रवणानि च ॥

क्षेत्राणि चैव सर्वाणि भुवि पुण्यतमानि वै

॥१२॥

सप्त पुर्यस्त्रयो ग्रामा नवारण्या नवोषराः ॥

चतुर्दशानि गुह्यानि मुक्तिद्वाराणि भूतले

॥१३॥

समुद्राश्चैव चत्वारो रत्नानि विविधानि च ॥

सती पतिव्रताः साध्व्यस्तथा ब्रह्मर्षयोऽमलाः ॥

राजर्षयस्तथा शांता ब्राह्मणा वेदपारगाः

॥१४॥

वेदाः पुराणस्मृतयो गाथा गीतिप्रहे लिकाः ॥

उपासांचक्रिरे तस्य देवदेवेडुमापतेः

॥१५॥

तस्य दर्शनमात्रेण जातोऽहं विज्वरोऽमलः ॥

दीर्घायुर्दीर्घतपसा जरारोगविवर्जितः

॥१६॥

स्नातोऽहं सर्वतीर्थेषु शुचिर्भूत्वा समाहितः ॥

प्रसन्नमानसो जातः सर्वपापपराङ्मुखः

॥१७॥

दृष्ट्वा पद्मावतीं शुद्धां सर्वकामवरप्रदाम् ॥

न यत्र दृश्यते कश्चिच्छोकरोगपरो जनः

॥१८॥

न दुःखी न च दारिद्रो न मूर्खो नाजितेंद्रियः ॥

परस्परविरोधी न नृतिर्य्यक्षु च दृश्यते

॥१९॥

अन्योन्यं सर्वमित्राणि अन्योन्यं चोपकारिणः ॥

सर्वे दांताश्च शांताश्च सर्वे विद्योपदेशिनः

॥२०॥

उद्यानानि च रम्याणि वनान्युपवनानि च ॥

हर्म्याणि च सुशुभ्राणि श्रेणीबद्धानि भांति वै

॥२१॥

नानारत्नसमाकीर्णैर्हेमकुंभैः सुशोभनैः ॥

विराजंते विचित्राणि गीतवाद्यमहोत्सवैः

॥२२॥

सदैव वसते यत्र उमया सह शंकरः ॥

चंद्रचूडः कृत्तिवासाश्चिताभस्मांगलेपनः

॥२३॥

चंद्रज्योत्स्नाकलापूर्णमरीचिभिः सदा बभौ ॥

यत्र नो कृष्णपक्षोऽभून्नामावास्या न वै तमः

॥२४॥

सदैव पुष्पिता श्यामा बाल्यरूपवती यथा ॥

हर्म्यपृष्ठे गवाक्षे च द्वाराजिरगृहांतरे

॥२५॥

गिरिगह्वरकुंजेषु गुहाध्वांतांतरेषु च ॥

आश्रमेषु च रम्येषु वनेषूपवनेषु च

॥२६॥

गृहदीर्घिकासु रम्यासु शालामालासु सर्वतः ॥

चंद्रज्योत्स्नासमापूर्णा दृश्यंते धवला दिशः

॥२७॥

कुमुद्वतीप्रफुल्लानि विराजंते सरांसि च ॥

ज्योतिर्गणसमाकीर्णं शरदीव नभःस्थलम्

॥२८॥

नद्यः सरांसि सर्वाणि वापीकूपसुपल्वलाः ॥

कुमुद्वत्या समाकीर्णा आसीच्चांद्रमसी मही

॥२९॥

यस्मात्सर्वेषु कालेषु प्रफुल्ला च कुमुद्वती ॥

तस्मात्पद्मावती ह्येषा जाता कुमुद्वती पुरी

॥३०॥

कुमुद्वत्यां नरा ये तु श्राद्धं कुर्युः समाहिताः ॥

न तेषां पितरः स्वर्गाच्च्यवंते हि कदाचन

॥३१॥

अक्षयं लभते श्राद्धं पितॄणां दत्तमक्षयम् ॥

स्नानं दानं तथा होमो देवताराधनं तथा

॥३२॥

यत्किंचित्क्रियते कर्म तत्सर्वं चाक्षयं भवेत् ॥

एवं कुमुद्वती जाता पुरी व्यास सनातनी

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुमुद्वतीप्रभावकथनंनाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥