मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ७०

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 70

देवयात्रांऽतर्गृहीसर्वतीर्थयात्राऽनुक्रमणिकादिकथनम्

सनत्कुमार उवाच

मेरोश्च दक्षिणे भागे दुग्धकुण्डोत्तरे तथा ॥

ऋषभः पर्वतश्रेष्ठो देवगन्धर्वसेवितः

॥१॥

यत्र देवांगना रम्याः क्रीडन्ति सततं द्विज ॥

तत्र रम्यसरोनाम तिष्ठते सर्वकामदम्

॥२॥

तत्र तीर्थे नरः स्नात्वा सुभगो जायते ध्रुवम् ॥

देवैश्च क्रीडते नित्यं भुवि विख्यातकः परम्

॥३॥

भाद्रपदसिताष्टमी मैत्रर्क्षेण समन्विता ॥

तद्दिनेऽत्र समागम्य स्नानदानादिकाः क्रियाः

॥४॥

करोति सततं व्यास तेषां लोकाः सनातनाः ॥

मेरोश्चेशानके तीर्थं दिव्यं परम शोभनम्

॥५॥

बिन्दुसरेति विख्यातं सर्वकामवरप्रदम् ॥

गंगा सरस्वती पुण्या शरयूश्च पयस्विनी

॥६॥

एताः सरिद्वरा यातास्तत्र सत्यवतीसुत ॥

ये सिद्धा ये च साध्याश्च तपस्विनो धृतव्रताः

॥७॥

उपासांचक्रिरे तत्र तस्य तीर्थस्य सर्वदा ॥

तस्मिंस्तीर्थे नरः स्नात्वा सर्वार्थान्प्राप्नुते ध्रुवम्

॥८॥

भाद्रपदे च शुक्ला वै चतुर्थी या प्रकीर्तिता ॥

सिद्धा सा सर्वदा प्रोक्ता यत्र जातो गणाधिपः

॥९॥

मनःकामेश्वरः ख्यातः सर्वकामवरप्रदः ॥

तस्य तीर्थे नरः स्नात्वा दृष्ट्वा देवं गणेश्वरम् ॥

मनोरथशतं प्राप्य कामचारी भवेन्नरः

॥१०॥

व्यास उवाच

अस्मिन्क्षेत्रे शुभे ब्रह्मन्महाकालवनोत्तमे

॥११॥

तीर्थानि कतिसंख्यानि देवतायतनानि च ॥

यानि कानि च ख्यातानि तानि नो वद विस्तरात्

॥१२॥

सनत्कुमार उवाच

शृणु व्यास ऋषिश्रेष्ठ कथां पापहरां पराम् ॥

अवन्त्यां यानि तीर्थानि लिंगानि च महामुने

॥१३॥

तानि वर्णयितुं शक्तः स्वयंभूश्चतुराननः ॥

वर्षाणामयुतैः षड्भिर्न च वक्तुं कथंचन

॥१४॥

यावंतो मेघमालानां बिंदवो हि स्रवंति च ॥

धरित्र्यां तृणसंख्या वै पृथिव्यां सिकतास्तथा

॥१५॥

नभसो ज्योतिषां संख्यां वक्तुं कोऽपि न शक्नुते ॥

न हि तीर्थलिङ्गसंख्याः संत्यवंत्यां तपोधन

॥१६॥

अंतरिक्षे च मेदिन्यां तीर्थभूता पुरी त्वियम् ॥

वापीकूपतडागादि प्रस्रवोद्गरणानि च

॥१७॥

नद्यः सरांसि खाताश्च तीर्थभूतं हि सर्वशः ॥

तथापि देवयात्रायां प्रसंगेन निबोध मे

॥१८॥

यानि कानि च मुख्यानि तानि तुभ्यं वदाम्यहम् ॥

यज्ज्ञात्वा मोक्ष्यसे नित्यं पूर्वाऽऽचीर्णशुभाशुभैः

॥१९॥

प्रातरुत्थाय यो नित्यं शुचिः प्रयत मानसः ॥

विष्णुस्मरणसंपन्नः सर्वकामक्रियादिकम्

॥२०॥

कृत्वा वै सर्वगंधादितिलाक्षतसमन्वितः ॥

स्नात्वा रुद्रसरे तात तथैव च व्रतं चरेत्

॥२१॥

ऊर्जमाधवयोश्चैव वैशाखाऽऽषाढयोस्तथा ॥

शिवरात्र्यां विशेषेण देवयात्रा प्रशस्यते

॥२२॥

यस्य देवस्य यत्तीर्थं यस्य देवस्य संनिधौ ॥

तत्राभिषेकः कार्यो वै देवतायाश्च पूजनम्

॥२३॥

विधिवच्चाचरेद्यस्तु स सर्वंफलमश्नुते ॥

तस्मात्सर्वप्रयत्नेन देवयात्रां समाचरेत्

॥२४॥

व्यास उवाच

ब्रह्मन्केन प्रकारेण देवयात्रां चरेन्नरः ॥

तत्सर्वं श्रोतुमिच्छामि विस्तरेण तपोधन

॥२५॥

सनत्कुमार उवाच

शृणु व्यास परं गुह्यं प्रवक्ष्यामि यथाश्रुतम् ॥

उमामहेश्वरसंवादं देवयात्रादिकर्मसु

॥२६॥

उमोवाच

प्रभावः कथ्यतां देव क्षेत्रस्याऽस्य महेश्वर ॥

यानि तीर्थानि विद्यंते यानि लिंगानि संति वै ॥

तान्यादितो मे भूमंस्त्वं वदस्व वदतां वर

॥२७॥

ईश्वर उवाच

शृणु देवि प्रयत्नेन प्रभावं पापनाशनम्

॥२८॥

क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा ॥

यत्र शिप्रा महापुण्या दिव्या नवनदी प्रिया

॥२९॥

नीलगंगासंगमं च तथा गंधवती नदी ॥

चतस्रो मे प्रिया नद्यः कुमुद्वत्यां हि सुव्रते

॥३०॥

ईश्वराश्चतुराशीतिस्तथाऽष्टौ संति भैरवाः ॥

एकादश तथा रुद्रा आदित्या द्वादश स्मृताः

॥३१॥

षड्वै विनायकाश्चाऽत्र देव्यश्च चतुर्विंशतिः ॥

यतोहमागतो भद्रे महाकालवनोत्तमे

॥३२॥

विष्णुब्रह्मादयः सर्वे ह्यत्रैव निहिताः शुभे ॥

देवैव्याप्तमिदं क्षेत्रं देवि योजनमायतम्

॥३३॥

दश विष्णुः समाख्यातास्तेषां नामानि मे शृणु ॥

वासुदेवो ह्यनंतश्च बलरामो जना र्दनः

॥३४॥

नारायणो हृषीकेशो वाराहो धरणीधरः ॥

विष्णुर्वामनरूपेण शेषशायी श्रियालयः

॥३५॥

दशैते वैष्णवाः प्रोक्ताः सर्वपापहराः पराः

॥३६॥

उमोवाच

भगवञ्च्छ्रोतुमिच्छामि देवानामनुपूर्वतः ॥

महाकालवने रम्ये ये वसंति सुरेश्वराः

॥३७॥

विनायका भैरवा देव्यो ये संति पवनात्मजाः ॥

रुद्रादित्यास्तथा चाऽन्ये तेषां नामानि मे वद

॥३८॥

ईश्वर उवाच

ऋद्धिदः सिद्धिदो नित्यं कामदो वै गणाधिपः ॥

विघ्नहा च प्रमोदी च चतुर्थीव्रतकप्रियः

॥३९॥

षडेते वै समाख्याता विघ्ननाशकराः पराः ॥

उमा चंडीश्वरी गौरी ऋद्धिसिद्धिप्रदा नृणाम्

॥४०॥

वटयक्षिणी वीरभद्रा इत्येताश्चाष्ट मातरः ॥

महामाया सती ख्याता कपालमातृका तथा ॥

अंबिका शीतला चैव एकानंशा च सिद्धिदा

॥४२॥

ब्रह्माणी पार्वती चैव योगिनी योगशालिनी ॥

कौमारी भगवती चैव षट्कृत्तिकास्तथैव च

॥४३॥

चर्पटामातृकाः ख्याता वटमातर एव च ॥

सरस्वती तथा ख्याता महालक्ष्मीश्च वै स्मृता

॥४४॥

योगिनीमातृका ख्याताश्चतुषष्टिस्ततः स्मृताः ॥

कालिका च महाकाली चामुण्ड ब्रह्मचा रिणी

॥४५॥

वैष्णवी च समाख्याता वाराही विंध्यवासिनी ॥

अंबा अंबालिका चैव चतुर्विंशतिकाः पराः

॥४६॥

हनूमान्ब्रह्मचारी च कुमारश्च महाबली ॥

चत्वारो वै समाख्याता मया ते पवनात्मजाः

॥४७॥

दंडपाणिश्च विक्रांतो महाभैरवसिताऽसिताः ॥

बटुको बालको नंदी षट् पञ्चाशतिकोऽपरः

॥४८॥

कालभैरवश्च विख्यातः क्षेत्रपालस्तथाष्टमः ॥

अष्टैव भैरवाः ख्याता महापापहराः पराः ॥

कपर्दी च कपाली च कला नाथो वृषासनः

॥४९॥

त्र्यंबकः शूलपाणिश्च चीरवासा दिगम्बरः ॥

गिरीशः कामचारी च सर्वः सर्वांगभूषणः

॥५०॥

रुद्राश्चैकादश प्रोक्ताः शत्रुपक्षविनाशनाः ॥

अरुणः सूर्यो वेदांगो भानुरिन्द्रो रविरंशुमान्

॥५१॥

सुवर्णरेताऽहःकर्ता मित्रो विष्णुः सनातनः ॥

इत्येते द्वादशाऽऽदित्याः सर्वरोगहराः पराः

॥५२॥

अगस्त्येश्वरमुख्यानां लिंगानां चतुराशिनाम् ॥

हिमाचलसुते नित्यं नामानि गदतः शृणु

॥५३॥

अगस्त्वेश्वर आख्यातो गुहेश्वरस्ततः परम् ॥

ढुंढेश्वरस्ततः प्रोक्तो डमरुकेश्वरश्च भामिनि

॥५४॥

अनादिकल्पेश्वरः शंभुः स्वर्णजालेश्वरः परः ॥

त्रिविष्टपेश्वरो देवः कपालेश्वरसंज्ञकः

॥५५॥

कर्कोटकेश्वरः शंभुः सिद्धेश्वरस्ततः परम् ॥

स्वर्गद्वारेश्वरो रुद्रो लोकपालेश्वरोऽपरः

॥५६॥

कामेश्वर इति ख्यातः कुटुम्बेश्वरस्ततः परम् ॥

इन्द्रद्युम्नेश्वरः ख्यात ईशानेशस्ततः परम्

॥५७॥

अप्सरेश्वरइतिख्यातः कल्कलेश्वर एव च ॥

नामचंडेश्चरो देवो दिवापापहरोऽपरः

॥५८॥

प्रतिहारेश्वरश्चैव कुक्कुटेशस्ततः परम् ॥

मेघनादेश्वरः पुण्यो महाकालेश्वरः परः

॥५९॥

मुक्तेश्वरः समाख्यातः सोमेश्वरस्ततः परम् ॥

अनरकेश्वरो देवो जटेश्वरस्ततः परम्

॥६०॥

रामेश्वरो महादेवश्च्यवनेशस्ततः परम् ॥

अखंडेशः समाख्यातः पत्तनेशस्ततः स्मृतः

॥६१॥

आनंदेशस्ततः प्रोक्तः कंथडेशस्ततः परम् ॥

इन्द्रेश्वर इति ख्यातो मार्कंडेशस्ततः परः

॥६२॥

शिवेश्वर इति प्रोक्तः कुसुमेशस्ततः परम् ॥

अक्रूरेण इति ख्यातः कुण्डेश्वरस्ततः परम्

॥६३॥

लुम्पेश्वरः समाख्यातो गंगेश्वरस्ततः परम् ॥

शूलेश्वरेति विख्यात ओंकारेशस्ततः स्मृतः

॥६४॥

कंटकेशो महारुद्रः सिंहेश्वरस्ततः परम् ॥

रेवंतेश्वरः परो देवो घंटेश्वरपुरःसरः

॥६५॥

प्रयागेश्वरो महादेवः सिद्धेश्वरस्ततः परम् ॥

मातंगेश्वरः परो देवः सौभाग्येशस्ततो वरः

॥६६॥

रूपेश्वरेति विख्यातो ब्रह्मेश्वरस्ततः परम् ॥

जल्पेश्वरस्ततो देवः केदारेश्वर एव च

॥६७॥

पिशाचेश्वरशंभुश्च संगमेशस्ततः परः ॥

दुर्धर्षेशश्च विख्यातश्चंडादित्येश्वरस्ततः

॥६८॥

करभेश्वरः परः प्रोक्तो राजस्थलेश्वरः शिवः ॥

वडलेश्वरस्ततः प्रोक्तो ह्यरुणेशस्ततः स्मृतः

॥६९॥

पुष्पदंतेश्वरो देवो ह्यविमुक्तेश्वरस्ततः ॥

हनुमतेश्वरो देवो विश्वेश्वर स्ततः कम्

॥७०॥

स्वप्नेश्वर इति ख्यातः सिद्धेश्वरस्ततः परः ॥

नीलकंठेश्वरो देवः स्थावरेशस्ततः परम्

॥७१॥

कामेश्वर इति प्रोक्तः प्रतिहारेश्वरस्ततः ॥

पशुपतीश्वरः प्रोक्तो विश्वेश्वरस्ततः परः ॥

स्वर्णजालेश्वरः प्रोक्तो मनःकामेश्वरस्ततः

॥७२॥

दुर्वासेश्वरनामासौ नागचंडेश्वरस्ततः ॥

खर्परेशश्च विख्यातो ब्रह्मेश्वरस्ततः परम्

॥७३॥

पातालेश्वर आख्यातो गुप्तेश्वरस्ततः परः ॥

कपिलेश्वर इत्याख्यो योगयोगेश्वरः परः

॥७४॥

भीमेश्वरेति विख्यातो धनुःसहस्राभिधः परः ॥

अग्नीश्वरः परः प्रोक्तो देवेश्वरस्ततः परः

॥७५॥

द्वादशार्कः समाख्यातो दशाश्वमेधिकेश्वरः ॥

गदाधरेश्वरः ख्यातो वैजनाथेति शंभुराट्

॥७६॥

सोमनाथेश्वरः ख्यातो घुष्मेश्वरस्ततः परः।

भीमशंकर इत्याख्यो घंटेश्वरस्ततः परः

॥७७॥

ऊषरेश्वरसंज्ञश्च चन्द्रादित्येश्वरः परः ॥

केशवार्कः समाख्यातः शक्तिभेदेश्वरः परः

॥७८॥

रामेश्वरः परो देवो वाल्मीकेश्वरशंकरः ॥

ज्वालेश्वरः शिवः प्रोक्तो ह्यभयेशस्ततः परः

॥७९॥

विघ्नहस्तेश्वरः प्रोक्तश्चंचलेशस्ततः परः ॥

पुरुषोत्तमेति विख्यातो वीरेश्वरस्ततः परः

॥८०॥

कर्णेश्वरश्च विख्यातः पृथुकेशस्ततः परम् ॥

आनंदेशश्च विख्यातः कोटेश्वरस्ततः परः

॥८१॥

अविमुक्तेश्वरः प्रोक्तो हनुमत्केश्वरः परः ॥

विमलेश्वरेति विख्यातश्चंद्रेश्वरस्ततः परः

॥८२॥

बिंदुकेशश्च विख्यातो वालुकेश्वरसंज्ञकः ॥

बृहस्पतीश्वरो देवो ह्यसंख्यातेश्वरस्ततः

॥८३॥

यानि कानि च तीर्थानि तानि लिंगानि सत्तम ॥

तिष्ठंति तत्र पूज्यानि तानि वंद्यानि सर्वशः

॥८४॥

चत्वारो विदिताः सर्वे द्वारपाला महात्मभिः ॥

पिंगलेश्वरेति च ख्यातः पूर्वद्वारे द्विजोत्तम

॥८५॥

दक्षिणे च तथा द्वारे कायावरोहणेश्वरः ॥

बिल्वकेश्वरेति विख्यातः पश्चिमद्वारमाश्रितः

॥८६॥

दर्दुरेश्वरस्ततः प्रोक्तो द्वारे चोत्तरसंज्ञिके ॥

एते चाऽन्ये च बहवो लिंगाख्यास्त्रिभुवनेश्वराः

॥८७॥

महाकालवने रम्ये समाख्याता हि पावनाः ॥

षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च

॥८८॥

महाकालवने व्यास लिंगसंख्या न विद्यते ॥

तथाऽपि च प्राधान्येन मयाऽत्र परिकीर्तिताः

॥८९॥

यस्य देवस्य यत्तीर्थं तन्नाम्ना परिकीर्तितम् ॥

स्नात्वा दत्त्वा च तद्दानं तत्तीर्थ स्यफलं लभेत्

॥९०॥

तथा नवग्रहाः पुण्याः समाख्याताः पुराऽनघ ॥

तेषां नामानि पुण्यानि तीर्थानि च तथा शृणु

॥९१॥

नरादित्य इति ख्यातः सोमेश्वरस्ततः परः ॥

मंगलेश्वरः समाख्यातो बुधेश्वरस्ततः परम्

॥९२॥

बृहस्पतीश्वरः प्रोक्तस्तथा शुक्रेश्वरः शिवः ॥

स्थावरेश्वरो महादेवः समाख्यातो मुनीश्वरैः

॥९३॥

राहुकेतू समाख्यातौ तेषां तीर्थानि सत्तम ॥

तत्तीर्थेषु नरः स्नात्वा सर्वपापैः प्रमुच्यते

॥७॥

ग्रहा राज्यं प्रयच्छंति ग्रहा राज्यं हरंति च ॥

ग्रहैस्तु व्यापितं सर्वं त्रैलोक्त्यं सचराचरम्

॥९५॥

ग्रहतीर्थे नरः स्नात्वा ग्रहाणामर्चनं चरेत् ॥

न तस्य ग्रहपीडा वै बाधते हि कदाचन

॥९६॥

एवं व्यास समाख्याता मया देवाश्च तीर्थकाः ॥

यात्रा पुण्यतरा श्रेष्ठा पवित्रा पापनाशिनी

॥९७॥

ग्रहपीडासु चोग्रासु दारिद्र्ये घोरसंकटे ॥

तेषामुद्धरणार्थाय देवयात्रा प्रकीर्तिता

॥९८॥

क्षेत्रस्यांतर्गृहीं नित्यं ये कुर्वंति नरोत्तमाः ॥

न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते

॥९९॥

अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥

विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत्

॥१००॥

अक्षया संततिस्तस्य शिवलोके महीयते

॥१०१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये देवयात्रांऽतर्गृहीसर्वतीर्थयात्राऽनुक्रमणिकादिकथनंनाम सप्ततितमोऽध्यायः ॥ ७० ॥