मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५७

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 57

गयातीर्थप्रशंसावर्णनम्

सनत्कुमार उवाच

शृणु व्यास प्रवक्ष्यामि तीर्थमेकमतः परम् ॥

तीर्थानामुत्तमं तीर्थं गयानामेति नामतः

॥१॥

तत्र स्नात्वा नरो नित्यं मुच्यते च ऋणत्रयात् ॥

देवान्पितॄन्समभ्यर्च्य विष्णुलोकं स गच्छति

॥२॥

व्यास उवाच

कीकटेषु गया पुण्या नदी पुण्या पुनः पुना ॥

च्यवनस्याश्रमः पुण्यः पुण्यो राजगिरिस्तथा

॥३॥

स कथं विदितो देशे महाकालवने शुभे ॥

एतद्वेदितुमिच्छामि विस्तरेण तपोधन

॥४॥

सनत्कुमार उवाच

शृणु व्यास कथां पुण्यां पवित्रां पापहारिणीम् ॥

यस्याः श्रवणमात्रेण पितरो यांति सद्गतिम्

॥५॥

पुरा कृतयुगे पुण्ये युगादिदेवनामतः ॥

राजासीत्स तु धर्मात्मा पुण्यश्रवणकीर्तनः

॥६॥

तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान् ॥

बभूवुः सर्वसंपन्ना वर्धमानाः समंततः

॥७॥

धर्मश्चतुष्पदो नित्यं यस्मिन्राज्ञि प्रशासति ॥

कालवर्षी च पर्जन्य ऋतवः स्वांगचारिणः

॥८॥

बहुसस्यफला पृथ्वी गावश्च बहुदुग्धदाः ॥

वेदवादरता विप्राः क्षत्त्रिया बाहुशालिनः

॥९॥

वैश्या धनपरा नित्यं शूद्राः शुश्रूषणे रताः ॥

वर्णाश्रमरताः सर्वे सर्वे धर्मोपदेशकाः

॥१०॥

श्रुतिस्मृतिपरो धर्मो हृष्टपुष्टजनाकरः ॥

नाधिव्याध्यभिभूतश्च लक्ष्यते कोऽपि मानवः

॥११॥

दुःशीला दुर्भगा नारी विधवा नैव लक्ष्यते ॥

बहुपुत्राऽल्पपुत्रा च मृतपुत्रा न वंध्यका

॥१२॥

रूपशीलगुणोपेता पतिव्रतपरायणा ॥

नो मार्गः कंटसंकीर्णो दस्युदोषैश्च दूषितः

॥१३॥

हूयतां भुज्यतां शश्वद्दीयतां च गृहेगृहे ॥

दयादानतपोहोमजपयज्ञक्रियापराः

॥१४॥

जनाः सर्वत्र दृश्यंते सर्वधर्म परायणाः ॥

चतुष्पादचरो धर्मो ह्यधर्मोऽपादविग्रहः

॥१५॥

एवं राजा स धर्मात्मा युगादिदेवसंज्ञितः ॥

येनेयं पालिता पृथ्वी धर्मेण वर्धिताः प्रजाः

॥१६॥

अवंत्यां च पुरा व्यास यज्ञकोटिं समाचरत् ॥

तस्मिन्कालेतिविक्रांतस्तुहंडो नाम दानवः

॥१७॥

तेन सर्वं वशं नीतं चरा चरमिदंजगत् ॥

घोरं तप्त्वा तपः पुण्यं ब्रह्मलब्धवरः खलः

॥१८॥

नैव देवा न यज्ञाश्च वेदमार्गविवर्जिताः ॥

देवतापूजनं नास्ति स्वधा स्वाहा न दृश्यते

॥१९॥

उत्सन्नो धर्ममार्गोऽयं शाश्वतो वै दुरात्मना ॥

नष्टप्रायाः सुरास्तेन कृताः सर्वे द्विजोत्तमाः

॥२०॥

ब्रह्माणं शरणं जग्मुः पितृभिः सह साधुभिः ॥

किं कुर्मो वा क्व गच्छाम तुहंडेन पराजिताः

॥२१॥

इति श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥

समुत्थाय ततः सर्वैर्विष्णुलोकं जगाम ह

॥२२॥

तत्र गत्वा समाराध्य विष्णुं देवगणैः सह ॥

स्तुतिं पुरुषसूक्तेन विष्णोरतुलतेजसः

॥२३॥

प्रचक्रुः सर्व एवैते ह्यात्मनोभ्युदयाय च ॥

तदा तेषां शमिच्छन्ती वागुवाचाशरीरिणी

॥२४॥

श्रूयतां भोः सुरश्रेष्ठा भवतां श्रेय उत्तमम् ॥

यूयं यात क्षितौ क्षिप्रं महाकालवनं प्रति

॥२५॥

गुह्याद्गुह्यतरं पुण्यं पवित्रं पापनाशनम् ॥

नो यत्र मायिनां माया प्रकाशयति भूतले

॥२६॥

सर्वतीर्थमयं तीर्थं कोटितीर्थवरप्रदम् ॥

यत्र शिप्रा सरिच्छ्रेष्ठा सर्वकामफलप्रदा

॥२७॥

दैत्यांतकारिणी दिव्या महाकाली कुलेश्वरी ॥

कोटिकोटिगणाकीर्णा मातॄ णां शक्तिवर्धिनी

॥२८॥

यत्र गया महापुण्या फल्गुश्चैव महानदी ॥

पुरुषोत्तमगिरिश्रेष्ठो यत्र बुद्धगया स्मृता

॥२९॥

तथैवाद्यगया ख्याता त्रिषु लोकेषु विश्रुता ॥

विष्णोः षोडशपदीतीर्थं गदाधरविनिर्मितम्

॥३०॥

सर्वपापहरा पुण्या यत्र प्राची सरस्वती ॥

महासुरनदी प्रोक्ता यत्र तिष्ठति पुण्यदा

॥३१॥

न्यग्रोधश्चाक्षयो नित्यः पुरा प्रोक्तो महर्षिणा ॥

तत्रैव सा शिला प्रोक्ता प्रेतमोक्षकरी शुभा

॥३२॥

तत्रैव संति ताः सर्वा देवताः पितृकल्पजाः ॥

सर्वाक्षरमयोंकारः सर्वदेवमयो हरिः

॥३३॥

सर्वतीर्थमया देवा गयातीर्थमनुत्तमम् ॥

शीघ्रं गच्छत तत्रैव परां सिद्धि मवाप्स्यथ

॥३४॥

यत्र प्रविष्टमात्रेण पितरो निरयस्थिताः ॥

ते सर्वे स्वर्गमायांति ब्रह्मभूयाय कल्पते

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्ये गयातीर्थप्रशंसावर्णनं नाम सप्तपञ्चा शत्तमोऽध्यायः ॥ ५७ ॥