मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५३

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 53

सुन्दरकुंडपिशाचमोचनतीर्थमाहात्म्यवर्णनम्

सनत्कुमार उवाच

पृथिव्यां यानि तीर्थानि तानि सर्वाणि सुव्रत ॥

अवंत्यां सुन्दरे तीर्थे तिष्ठंति सर्वदा भुवि

॥१॥

व्यास उवाच

किमिदं सुन्दरं कुण्डं कदाकालेऽभवत्क्षितौ ॥

निर्मितं केन को देवः किं वा तस्य फलं स्मृतम्

॥२॥

सनत्कुमार उवाच

शृणु पुण्यतमे क्षेत्रे सुन्दराख्यं यदा ऽभवत् ॥

सर्वपापप्रशमनं वांछितार्थफलप्रदम्

॥३॥

यस्य श्रवणमात्रेण ब्रह्महत्या व्यपोहति ॥

अश्वमेधादिकं पुण्यं वाजपेयश ताधिकम्

॥४॥

पुरा कल्पक्षये व्यास नष्टकल्पा च मेदिनी ॥

प्रचण्डवातवर्षाभ्यां चूर्णितो मेरुपर्वतः

॥५॥

तदात्र पतितं व्यास वैकुण्ठशिखरोत्तमम् ॥

महाकालवने घोरे गुह्ये चाव्ययके ध्रुवे

॥६॥

तत्क्षणात्पतिते शृंगे कुण्डं जातं सुनिश्चितम् ॥

रत्नसोपानमच्छोदं मुक्तासैकतपूरितम्

॥७॥

जांबूनदकरारोहं हेमपद्मविराजितम् ॥

कल्पद्रुमकृतच्छायं चिंतामणिसमुच्छ्रितम्

॥८॥

हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् ॥

बीजौषधिगणाकीर्णं सर्वतत्त्वाभिसंयुतम्

॥९॥

कल्पक्षये न क्षीयंते यानि तत्त्वानि सर्वशः ॥

तानि तत्र प्रतिष्ठंति मूर्तिमंति पराणि च

॥१०॥

वेदशास्त्रपुराणानि गाथागीतिक्षराक्षराः ॥

ॐकारश्च वषट्कारो गायत्री त्रिपदा परा

॥११॥

कलाः काष्ठा मुहूर्ताश्च लवत्रुटिपलं घटिः ॥

अहर्निशश्च यामाश्च पक्षमासावृतुस्तथा

॥१२॥

संवत्सरयुगाश्चैव कुण्डे तिष्ठंति मूर्तितः ॥

देवा यक्षाश्च नागाश्च गुह्यकाः किन्नरास्तथा

॥१३॥

गंधर्वाप्सरसो यक्षाः सिद्धाः किंपुरुषास्तथा ॥

उपासांचक्रिरे तस्य कल्पदोषभयातुराः

॥१४॥

ब्रह्मा रुद्रश्च कालश्च लोकपाला महौजसः ॥

केचिद्ध्यानपराः सिद्धास्तापसाः शंसितव्रताः

॥१५॥

तिष्ठंति बहुयुग व्यास यावत्कल्पः समाप्यते ॥

सुदर्शनसमाकारं पूरितं चामृतांबुभिः

॥१६॥

दिव्यपादपसंयुक्तं पारिजातगुणान्वितम् ॥

दिव्यस्त्रीस्नानगंधोदैर्वासितोद्गारिसौरभम्

॥१७॥

क्वचिन्मयूरा नृत्यंति क्वचित्कूजंति कोकिलाः ॥

क्वचित्केकारवाः क्वापि मेघघोषसमाकुलम्

॥१८॥

सुन्दरं सुन्दराकारं सुन्दरं तेन चोच्यते ॥

बहुपुण्यकरं व्यास सर्वपापहरं परम्

॥१९॥

यत्र संनिहितो विष्णुः शिवः शक्त्या युतो वशी ॥

उपासांचक्रिरे शश्वत्सर्वकालेषु सर्वदा

॥२०॥

पक्षार्धं पक्षमेकं च सुन्दरकुण्डे नरो वसेत् ॥

वैकुण्ठे नियतं वासो यावत्कल्पशतं भवेत्

॥२१॥

पक्षिकीटपतंगाश्च मृता यांति शिवालयम् ॥

किं पुनर्मानवा लोके स्नानपूताश्च तत्र वै

॥२२॥

ये ददति तिलान्धेनुं गजवा जिरथावनीः ॥

दासीर्दासान्सुवर्णं च रत्नानि विविधानि च

॥२३॥

शय्यादानविमानानि दानानि विविधानि च ॥

न तेषां दानजं वेद्मि कीदृग्व्यास फलं भवेत्

॥२४॥

भूयः शृणु परं व्यास सुन्दरकुण्डफलं स्मृतम् ॥

एकदा बहुपापेन पतितः पापयोनिषु

॥२५॥

पिशाचो मोक्षमापन्नः शिव रूपधरो गतः ॥

पिशाचमोचने स्नात्वा दृष्ट्वा देवं महेश्वरम्

॥२६॥

मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत्

॥२७॥

व्यास उवाच

कोऽसौ पिशाच इति ख्यातः किं तेन दुष्कृतं कृतम् ॥

येन पापप्रसंगेन पिशाचत्वमुपागतः

॥२८॥

कथं तीर्थप्रसंगोऽस्य जातो वै द्विज सत्तम ॥

एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर

॥२९॥

सनत्कुमार उवाच

शृणु व्यास महाख्यानं तीर्थमाहात्म्यमुत्तमम् ॥

यस्य श्रवणमात्रेण सर्वपापक्षयो भवेत्

॥३०॥

ब्राह्मणो देवलो नाम दाक्षिणात्यो द्विजाधमः ॥

सदा पापरतो लोभी कूटसाक्षी च लंपटः

॥३१॥

गुरुद्रोही कितवो धूर्तो गुरुहा गुरुतल्पगः ॥

हेमहारी सुरापी च ब्रह्महा स्वामिद्रोहकः

॥३२॥

अभक्ष्यभक्षकश्चैव वेदशास्त्रविवर्जितः ॥

अनेकजन्मार्जितपापी सर्वधर्मबहिष्कृतः

॥३३॥

विश्वासघातको मानी चोरसंगरतः खलः ॥

देशांतरगतो मंदश्चौरकार्यार्थसाधकः

॥३४॥

बहवो निहता मार्गे पापाचारेण जंतवः ॥

मगधे स गतो दुष्टः प्रसंगात्पापकारिणाम्

॥३५॥

तत्रैको ब्राह्मणो दांतो वेदवेदांगपारगः ॥

साग्निकः शुद्धसत्त्वस्थो ब्रह्मकर्मरतः सदा

॥३६॥

श्वशुरगृहे स्थिता भार्या तामादाय यशस्विनीम् ॥

चलितो यानमारुह्य तेन पापेन घातितः

॥३७॥

तस्य स्त्री च वरारोहा रूपलावण्यशालिनी ॥

पतिव्रता महाभागा दृढचित्ता शुचिस्मिता

॥३८॥

हते भर्तरि दुःखार्ता पतिविरहकातरा ॥

वने घोरे परिभ्रष्टा काष्ठान्यादाय भामिनी

॥३९॥

आरुरोह चितां दीप्तां पतिना हृष्टमानसा ॥

स च दुष्टतरः सर्वं तस्य विप्रस्य जीवनम्

॥४०॥

गृहीत्वा चलितो मार्गे गृहीतो राजकिंकरैः ॥

बंधयित्वा च तैः सर्वैस्तेन वित्तेन वै सह ॥

नीतोऽसौ राजभवनं निवेदितो राजसंनिधौ

॥४१॥

पातितो वै गले बद्ध्वा रज्जुना वृक्षकोटरे ॥

चांडालैर्घृष्टितो भूमावितस्ततः श्वपाकिभिः

॥४२॥

तेन कर्मविपाकेन रौरवं नरकं गतः ॥

षष्टिवर्षसहस्राणि विष्ठायां कृमितां गतः

॥४३॥

ततोऽन्यं नरकं प्राप्तो यमशासनकारकैः ॥

असिपत्रवनं घोरमायसं तप्तसायकम्

॥४४॥

मुद्गरैस्ताड्यमानो हि शृंखलाभिश्च किंकरैः ॥

कुंभीपाकगतौ रौति वैतरण्यां सुपीडितः

॥४५॥

एवं बहुविधान्कुण्डान्भुक्त्वा पापी नवान्नवान् ॥

ततः प्रेतत्वमापन्नो युगानां पंचसप्ततिम्

॥४६॥

महाकायो महारावो महोदरः सूचीमुखः ॥

क्षुत्तृड्भ्यां च पराक्रांतो मरुदेशं समाश्रितः

॥४७॥

ततः कष्टतरां प्राप्य पैशाचीं तनुमाश्रितः ॥

कुटिलो दुष्टभावश्च दुष्टचारी दिगंबरः

॥४८॥

विण्मूत्रदूषितोच्छिष्टपूतिपर्युष्टभोजनः ॥

श्मशानोच्छिष्टभोजी च कृत्तिवासा विलोचनः

॥४९॥

भग्नवापीतडागे च शुष्कवृक्षे निरूदके ॥

प्राकारपरिखागारे शून्यागारे नदीतटे

॥५०॥

निवासो रोचते तस्य सर्वदा सर्वसंधिषु ॥

एवं बहुयुगे याते महाकालवने गतः

॥५१॥

यत्र माहेश्वरं लिंगं सुन्दरं कुंडमुत्तमम् ॥

तत्रोषितत्वमात्रेण सिंहेन विनिपातितः

॥५२॥

घातयित्वा च तं पापं जलार्थी कुंडमाविशत् ॥

दंष्ट्रांतरगतं चास्थ्यपतत्तस्य मुखाज्जले

॥५३॥

तेन पुण्यप्रभावेन सर्वपापं क्षयं गतम् ॥

मृतमात्रे च लिंगं तन्नेत्रांतरगतं तदा

॥५४॥

हित्वा पैशाचकं देहं ज्योतिस्तल्लिंगमाविशत् ॥

तदारभ्य परं व्यास तीर्थं पैशाचमोचनम्

॥५५॥

पिशाचमोचनेशेति देवः ख्यातिं ततो गतः ॥

तावद्गर्जंति पापानि मदोन्मत्तगजा यथा

॥५६॥

यावन्नायाति शिप्रायास्तीर्थे पैशाचमो चने ॥

पिशाचमोचने स्नात्वा शुचिर्भूत्वा समाहितः

॥५७॥

पिशाचमोचनं देवं पूजयित्वा यथाविधि ॥

सर्वपापविशुद्धात्मा जायते नात्र संशयः

॥५८॥

पिशाचमोचने व्यास महादानानि कारयेत् ॥

न तस्य पुनरावृत्तिः शिवलोकात्कदाचन

॥५९॥

पिशाचमोचनकथां पवित्रां पापहारिणीम् ॥

यः पठेच्छणुयाच्चैव हयमेधफलं लभेत्

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽव न्तीक्षेत्रमाहात्म्ये सुन्दरकुंडपिशाचमोचनतीर्थमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥