भूयः शृणु परं तीर्थं सर्वतीर्थफलप्रदम्
सनत्कुमार उवाच
भूयः शृणु परं तीर्थं सर्वतीर्थफलप्रदम् ॥
कीर्तितं ब्रह्मणा पूर्वं मार्कंडेयस्य पृच्छतः
॥१॥शृणु वत्स महीपृष्ठे शिप्रा दिव्यतरा नदी ॥
तस्यास्तीरे वरं तीर्थं कर्कराजेतिविश्रुतम्
॥२॥यस्य दर्शनमात्रेण महापापक्षयो भवेत् ॥
विकारा मानसाः सर्वे चंद्रो मानससंभवः
॥३॥तस्य स्थाने गतो भानुर्याम्यायनकरः परः ॥
ऋतुत्रयं समाख्यातं विधूम्रार्चिस्तदुच्यते
॥४॥तत्र मृताः प्रवर्तंते योगिनोऽपि परंतप ॥
चातुर्मास्ये हरौ सुप्ते ये नरा व्रतवर्जिताः
॥५॥न तेषां सद्गतिर्वत्स सत्यमेव ब्रवीमि ते ॥
चातुर्मास्ये मृता ये च ये मृता दक्षिणायने
॥६॥तेषामुद्धरणार्थाय तीर्थमेतद्विनिर्मितम् ॥
कर्कराज इति ख्यातं सर्वलोकेषु गीयते
॥७॥मार्कण्डेय उवाच
भगवन्भवता सर्वं निर्मितं विश्वमूर्तिना ॥
चराचरमिदं विश्वं जगत्सर्वं जगत्पते
॥८॥चातुमास्ये हरौ सुप्ते धर्माऽऽचारविधिः स्मृतः ॥
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर
॥९॥ब्रह्मोवाच
शृणु वत्स परं पुण्यं चातुर्मास्यफलं शुभम् ॥
यच्छुत्वा भारते खण्डे नृणां मुक्तिर्न दुर्लभा
॥१०॥मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणः ॥
यस्य स्मरणमात्रेण सर्वपापक्षयो भवेत्
॥११॥मानुष्यं दुर्लभं लोके तत्राऽपि च कुलीनता ॥
तत्राऽपि संयमित्वं च तत्र सत्संगमः शुभः
॥१२॥सत्संगमो न यत्राऽस्ति विष्णुभक्तिर्व्रतानि न ॥
चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः
॥१३॥चातुर्मास्ये ऽव्रती यस्तु तस्य पुण्यं निरर्थकम् ॥
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च
॥१४॥विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते ॥
स विष्णुराश्रितो नित्यं कर्कराजं सुतीर्थकम्
॥१५॥सुपुष्टेन च देहेन जीवितं तस्य शोभनम् ॥
चातुर्मास्ये समायाते हरिर्येनाऽर्चितस्तदा
॥१६॥कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः ॥
संप्राप्य मानुषं देहं चातुर्मास्ये पराङ्मुखः
॥१७॥तस्य पापशतान्याहुर्देहस्थानि न संशयः ॥
मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा
॥१८॥चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने ॥
चातुर्मास्ये नरः स्नात्वा कर्करात्रे द्विजोत्तम ।
देहशुद्धिं विधायाऽऽदौ मुक्तिमार्गमवाप्नुयात्
॥१९॥तत्राऽपि निर्झरे कूपे तडागे वा सरस्यपि ॥
तस्मात्तदधिकं पुण्यं समाख्यातं सुरासुरैः
॥२०॥तेषु यः स्नाति वै नित्यं तस्य पापक्षयो भवेत्
॥२२॥तस्मान्नद्यधिका पुण्या समाख्याता सुरासुरैः ॥
पुष्करे च प्रयागे च यत्र क्वाऽपि महाजले
॥२३॥चातुर्मास्ये तु यः स्नाति पुण्यसंख्या ततोऽधिका ॥
रेवायां भास्करे क्षेत्रे प्राच्यां सागरसंगमे
॥२४॥एकाहमपि यः स्नाति चातुर्मास्ये न दुःखभाक् ॥
दिनत्रयं च यः स्नाति नर्मदायां समाहितः
॥२५॥सुप्ते देवे जगन्नाथे पापं याति सहस्रधा ॥
पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये
॥२६॥स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम् ॥
अवंत्यां कर्कराजे तु साक्षाद्विष्णुर्भवेन्नरः ॥
क्षणमेकं क्षणार्धं वा चातुर्मास्ये ऽतिलंघयेत्
॥२७॥तिलोदकेनामलसंयुतेन बिल्वोदकेनापि च मज्जयेद्यः ॥
न तस्य जानामि फलाधिकं वै किं तस्य कीदृङ्मुनिभिः प्रणीतम्
॥२८॥गंगां स्मरति यो नित्यमुदपानसमीपतः ॥
तद्गांगेयजलं जातं तेन स्नानं समाचरेत्
॥२९॥गंगाऽपि देवदेवस्य चरणांऽगुष्ठवाहिनी ॥
पापहा सा सदा प्रोक्ता चातुर्मास्ये विशेषतः
॥३०॥चातुर्मास्ये जलगतो देवो नारायणो भवेत् ॥
सर्वतीर्थाऽधिकं स्नानं विष्णुतेजोंऽशसंगतम्
॥३१॥स्नानं दशविधं कार्यं विष्णुनाम्ना महाफलम् ॥
सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात्
॥३२॥विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभ म् ॥
क्रियते विफलं ब्रह्मंस्तद्गृह्णन्ति हि राक्षसाः
॥३३॥स्नानेन सत्यमाप्नोति सत्ये धर्मः सनातनः ॥
धर्मान्मोक्षपथं प्राप्य पुनर्नैवावसीदति
॥३४॥ये चाध्यात्मविदः पुण्या ये च वेदांतपारगाः ॥
सर्वदानप्रदाने च तेषां स्नानेन शुध्यति
॥३५॥कृतस्नानस्य हि हरिर्देहमाश्रित्य तिष्ठ ति ॥
सर्वक्रियाफलं येषु संपूर्णफलदं भवेत्
॥३६॥सर्वपापविनाशाय देवतातोषणाय च ॥
चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम्
॥३७॥निशायां चैव न स्नायात्संध्यायां ग्रहणं विना ॥
उष्णोदकेन न स्नायाद्रात्रौ शुद्धिर्न जायते
॥३८॥भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु ॥
चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी
॥३९॥अशक्त्यां तु शरीरस्य भस्मस्नानेन शुध्यति ॥
मंत्रस्नानेन विप्रेंद्र विष्षुपादोदकेन वा
॥४०॥नारायणाऽग्रतः स्नानं क्षेत्रे तीर्थे नदीषु च ॥
विशेषतोऽपि शिप्रायां तीर्थे कर्काभिधे वरे
॥४१॥यश्च स्नाति नरो नित्यं स याति वैष्णवं पदम् ॥
तस्मात्त्वं भार्गवश्रेष्ठ तत्र गच्छस्व मा चिरम्
॥४२॥पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥
तानि सर्वाणि तिष्ठंति कर्कराजजले सदा
॥४३॥कर्कस्थे च दिवानाथे स्नानं कुर्वंति ये नरा ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
॥४४॥चातुर्मास्यं समासाद्य तत्रैव निवसाम्य हम् ॥
नास्ति रेवासमा पुण्या नदी ब्रह्मांडभूतले
॥४५॥महेशान्नाऽपरो देवो मुक्तिदो न जनार्दनात् ॥
उज्जयिनीसमा नास्ति पुरी कामवर प्रदा
॥४६॥कर्कराजसमं तीर्थं नास्ति वत्स महीतले ॥
यस्य दर्शनमात्रेण मुक्तिभागी भवेन्नरः
॥४७॥एवं व्यास समाख्यातं ब्रह्मणा भार्ग वाय च ॥
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रज
॥४८॥अस्माकं चाऽपि तत्रैव स्थानं परमशोभनम् ॥
चातुर्मास्ये हरौ सुप्ते यावद्यायात्प्रबो धिनी
॥४९॥तावत्कालं हि तत्रैव मुक्तिरेव न संशयः ॥
चातुर्मास्ये हरौ सुप्ते जहाति चेत्कलेवरम्
॥५०॥यमलोके चिरं वासो जायते नाऽत्र संशयः ॥
तस्मात्तुलसिकाभागे शालिग्रामे सुरालये
॥५१॥आत्मानं हि पणीकृत्य तत्रैव संनियोजयेत् ॥
यावत्प्रबोधिनी चैति द्वादशी द्विज्सत्तम
॥५२॥पश्चाद्घृतसुवर्णेन मोचयित्वा स्वकं नयेत् ॥
चातुर्मास्योद्भवं दोषं बाधते न च मानवम्
॥५३॥यस्य शिप्रोदके स्नानं कर्कराजेऽनुजायते ॥
एवं व्यास वरं तीर्थं सर्वतीर्थफलप्रदम्
॥५४॥पृथिव्यां यानि तीर्थानि सरितः सागराश्च ये ॥
ते सर्वे च समायांति चातुर्मास्ये द्विजोत्तम
॥५५॥तस्माच्च तद्वरं तीर्थं कर्कराज इति स्मृतम्
॥५६॥य एतां वै कथां पुण्यां शृण्वंति श्रावयंति च ॥
न तेषां जायते दोषश्चातुर्मा स्योद्भवः कदा
॥५७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कर्कराजतीर्थ महिमवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥