मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ४६

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 46

आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽमरावतीनामकथनम्

सनत्कुमार उवाच

अमरावती यथा जाता पुरी ह्येषा कुशस्थली ॥

शृणु व्यास महाभाग यथा ब्रह्माब्रवीत्सुरान्

॥१॥

तथाहं संप्रवक्ष्यामि विस्तरेण तपोधन ॥

एकदा ब्रह्मणादिष्टः प्रजार्थमृषिसत्तमः

॥२॥

मारीचः कश्यपस्तेपे तपः परमदुष्करम् ॥

महाकालवने रम्ये दिव्ये स हि महानृषिः

॥३॥

शीर्णपत्रानिलाहारो वायुभक्षी जितेन्द्रियः ॥

पूर्णे वर्षसहस्रे तु वागुवाचाशरीरिणी

॥४॥

श्रूयतां भो द्विजश्रेष्ठ मम वाक्यमनुत्तमम् ॥

यस्मात्तपसि तपस्तीव्रं फलमुद्दिश्य सुव्रत

॥५॥

तस्मात्ते संततिस्तात यावच्चंद्रदिवाकरौ ॥

तावत्तिष्ठतु मेदिन्यां यशसा पुत्रपौत्रकैः

॥६॥

अदितिस्ते सती भार्या त्वया सहाचरत्तपः ॥

तस्मात्सर्वेषु कालेषु छायाभूता यशस्विनी

॥७॥

भविष्यंति सुताः सर्वे विष्णुश्चेंद्रपुरोगमाः ॥

अमरा निर्जरा देवा दिवि ख्याताः सदैव हि

॥८॥

त्वं चापि च ऋषिश्रेष्ठः प्रजापतिरकल्मषः ॥

भविष्यसि न संदेहो ममवाक्याद्द्विजोत्तम

॥९॥

इत्युक्त्वा च पुन र्देवी तत्रैवांतरधीयत ॥

तदारभ्य पुरीं व्यास कुशस्थलीमनुत्तमाम्

॥१०॥

कश्यपः सह दाक्षिण्या साग्निकः समुपाश्रितः ॥

प्रजापि ववृधे तस्मा त्सदेवासुरमानुषा

॥११॥

मरीचेः कश्यपो जज्ञे ततः सर्वं प्रतिष्ठितम् ॥

सुधापानकृतो देवाः शश्वत्तेनामराः कृताः

॥१२॥

नंदनं चापि तत्रैव महाकालवनोत्तमे ॥

कामधेनुः समाख्याता मनोरथवरप्रदा

॥१३॥

सा सिषेवे सदा तत्र महाकालं महेश्वरम् ॥

पारिजाततरुश्रेष्ठस्तथा चाम्लानपंकजम्

॥१४॥

बिंदुसरः समाख्यातं मानसं सर उत्तमम् ॥

हंससारससमाकीर्णं सुरसिद्धनिषेवितम्

॥१५॥

मुक्तामणिगणाकीर्णं रत्नशोभनशोभितम् ॥

निधिरेष महापद्मः कह्लारकुमुदोज्ज्वलः

॥१६॥

यानि यानि च दिव्यानि संति ब्रह्माण्डगोलके ॥

तानि सर्वाणि तिष्ठंति महाकालवने शुभे

॥१७॥

तेनतेनात्मयोगेन मानवाश्चात्र संस्थिताः ॥

तदाहारास्तदाचारास्तद्रूपास्तत्पराक्रमाः

॥१८॥

अन्योन्यं च समाकीर्णा सर्वे चामरसंनिभाः ॥

विचरंति यथा देवाः पुरीमेतां जना भुवि

॥१९॥

अमरांगनासमा नार्यः सदैव स्थिरयौवनाः ॥

ईदृशी च पुरी दृष्टा भुवि व्यास सनातनी

॥२०॥

देवदानवगन्धर्वैः किन्नरोरगराक्षसैः ॥

भुक्तिमुक्तिप्रदा नित्या बहुकालफलप्रदा

॥२१॥

अमराणां कटकं ह्यत्र तस्माजातामरावती ॥

य एतस्यां महाभागाः प्रसंगेन समागताः

॥२२॥

स्नानदानादिकं कृत्वा पश्यत्येव महेश्वरम् ॥

न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा

॥२३॥

सर्वभोगानवाप्नोति मृतः शिवपुरं व्रजेत् ॥

पठनाच्छ्रवणाद्वापि शतरुद्रियफलं लभेत्

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽमरावतीनामकथनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥