एवं व्यास पुरी रम्या नामभूता सनातनी
सनत्कुमार उवाच
एवं व्यास पुरी रम्या नामभूता सनातनी ॥
युगेयुगे यथा जाता तथा ख्याता मयाऽनघ
॥१॥व्यास उवाच
भूयोऽहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥
शिप्रायाश्च कथां पुण्यां पवित्रां पापहारिणीम्
॥२॥सुन्दरं कुंडमाख्यातं पिशाचमोचनं तथा ॥
नीलगंगा इति प्रोक्ता कर्कराजमतः परम्
॥३॥पुष्कराणि च सर्वाणि गयातीर्थमनुत्तमम् ॥
गोमतीकुण्डमाख्यातं नाम्ना धर्मसरस्तथा
॥४॥ख्यातं संगमजं तीर्थं शनेर्जन्मकथां शुभाम् ॥
च्यवनाश्रमे च या वार्ता तथा नागालये शुभे
॥५॥पुरुषोत्तममहिमानं काले केन कथं भवेत् ॥
एतद्वेदितुमिच्छामि यत्ते मनसि वर्तते
॥६॥सनत्कुमार उवाच
शृणु व्यास महाभाग कथां पापहरां पराम् ॥
यस्मिन्काले यदा जाता महाकालवने शुभे
॥७॥नास्ति वत्स महीपृष्ठे शिप्रायाः सदृशी नदी ॥
यस्यास्तीरे क्षणान्मुक्तिः किं चिरात्सेवनेन वै
॥८॥वैकुण्ठे जायते शिप्रा ज्वरघ्नी च सुरालये ॥
महाद्वारे च पापघ्नी पातालेऽमृतसंभवा
॥९॥वाराहकल्पे वै प्रोक्ता विष्णुदेहेति नामतः ॥
शिप्रावंत्यां समाख्याता कामधेनुसमुद्भवा
॥१०॥व्यास उवाच
विचित्रमिदमाख्यातं भवता ऋषिसत्तम ॥
वक्तुमर्हसि शिप्रायाः समासेन कथां शुभाम्
॥११॥सनत्कुमार उवाच
ब्राह्मं कपालमादाय भिक्षार्थं संचरन्महीम् ॥
महादेवो विशुद्धात्मा सर्वलोकेषु सर्वतः
॥१२॥अप्राप्तभिक्षो भिक्षार्थी वैकुण्ठमगमद्विभुः ॥
गतश्चातिथ्यवेलायां भ्रममाणो यतस्ततः
॥१३॥लोकनिंदापरः क्रुद्धः क्षुधितो बहुवासरैः ॥
भिक्षां देहीति भो ब्रह्मन्क्षुधितोऽहं समाहितः
॥१४॥कपालं च करे कृत्वा इत्यु वाच पुनः पुनः ॥
गृह्यतां हर भिक्षां ते ददामीति हरिस्तदा
॥१५॥इत्युक्त्वा करमुद्यम्य तर्जन्यगुंलिमादधत् ॥
तदा रुद्रः समाध्मातस्त्रिशूलेनाहन द्रुषा
॥१६॥तदांगुलिसमुद्भूतं बहु सुस्रावशोणितम् ॥
तेनाशु पात्रं तत्पूर्णं शंकरस्य करे स्थितम्
॥१७॥तदा उद्वेलिता सा वै धारा जाता समं ततः ॥
तत्र स्थाने समुद्भूता शिप्राऽसृग्धारसंभवा
॥१८॥वैकुंठे चाभवत्सद्यो नदी त्रैलोक्यपावनी ॥
एवं शिप्रा सरिच्छ्रेष्ठा त्रिषु लोकेषु विश्रुता
॥१९॥ज्वरघ्नी च यथा प्रोक्ता तथा व्यास ब्रवीम्यहम् ॥
यदा बाणासुरो दैत्यः कृष्णेन सह संयुगे
॥२०॥योधयामास दैत्येंद्रो ह्यनिरुद्धप्र हेलनः ॥
सहस्रबाहुभिर्वीरो नानाप्रहरणोद्यतः
॥२१॥तस्मात्क्रुद्धो वासुदेवश्चक्रमादाय सत्वरः ॥
चिच्छेद बाहुसाहस्रं क्षुरप्रेणाशुगामिना
॥२२॥स तदा भग्नसंकल्पश्छिन्नदोश्च व्रणार्दितः ॥
पराङ्मुखपरो भूत्वा शंकरं शरणं ययौ
॥२३॥तदागतं महादैत्यं समीपे भयविह्वलम् ॥
विलोक्य कृपयाविष्टो गते संग्राममूर्धनि
॥२४॥छित्त्वा बाहुसहस्रं वै दैत्यराजस्य चाहवे ॥
क्रुद्धः कृष्णो महाबाहुः परसेनांतको वरः
॥२५॥स्थितो यत्राचलो व्यास तत्रागतो महेश्वरः ॥
वारयामास कृष्णं वै शरोघैश्च समाकिरन्
॥२६॥अन्योन्यं च समासाद्य कृत्वा युद्धं तु दारुणम् ॥
शस्त्रास्त्रैश्च महाघोरैः सर्वप्राणिभयंकरैः
॥२७॥वैष्णवास्त्रं तदा कृष्णः संदधे हरजिघांसया ॥
पाशुपतं च नामास्त्रं सर्वसंहारकारकम्
॥२८॥संदधे वै तदा शंभुः कृष्णप्राणहरोत्सुकः ॥
हाहाकारस्तदा जातः सर्वलोकेषु श्रूयते
॥२९॥मोहनास्त्रं पुनः कृष्णः शिवोपरि मुमोच ह ॥
तेनास्त्रेण तदा शंभुर्मोहितो देवमायया
॥३०॥जृंभमाणः स्थितः संख्ये किंचित्कालं मुहुर्मुहुः ॥
लब्धसंज्ञः पुनर्जातो यदा रुद्रो महाहवे
॥३१॥तदा क्रोधाभिभूतेन कृतो माहेश्वरो ज्वरः ॥
ललाटफलकात्सद्यो वीरभद्रो महाबलः
॥३२॥त्रिनेत्रस्त्रिशिरा ह्रस्वस्त्रिपादो बर्कराकृतिः ॥
क्षुद्रो जटिलभस्मांगो महाव्याधिर्दुरत्ययः
॥३३॥कृष्णसेनां समासाद्य महादेवेन प्रेरितः ॥
प्राणिनां कदनं चक्रे सर्वेषां कृष्णसंगिनाम्
॥३४॥पराङ्मुख्यपरा भग्ना ज्वराभिघातपीडिता ॥
बभूव सहसा व्यास सेना कृष्णेन पालिता
॥३५॥तथाभूतां समालोक्य जृंभमाणा रुजार्दिताम् ॥
स्वसेनां भग्नसंकल्पां माहेशज्वरपीडिताम्
॥३६॥ससर्ज वैष्णवं तापं कृष्णः परमकोपनः ॥
तेन सह वैष्णवेन माहेश्वरेण ज्वरेण च
॥३७॥अन्योन्यमभवद्युद्धं घोरं घोरतरं महत् ॥
संग्रामं बहुलं कृत्वा भग्नो माहेश्वरो ज्वरः
॥३८॥सर्वलोकेषु गत्वा वै न शांतिं प्रतिजग्मिवान् ॥
महाकालवने रम्ये प्राप्तस्तेनाभिपीडितः
॥३९॥निमग्नोऽथ वै शिप्रायां ततः शांतिं परां ययौ ॥
दृष्ट्वा माहेश्वरं शांतं ज्वरं परमकोपनम्
॥४०॥वैष्णवो ऽपि समासाद्य तस्यां मज्जनमाचरत् ॥
तस्याः प्रभावसन्नष्टौ ज्वरो हरिहरोद्भवौ
॥४१॥तस्मात्सर्वेषु कालेषु ज्वरघ्नी साऽभवत्क्षणात् ॥
ज्वराभिभूतास्तां प्राप्य जनाः परमदुःखिताः
॥४२॥निमज्जंति च शिप्रायां व्यासोषसि समाहिताः ॥
न तेषां बाधते पीडा ज्वरोद्भूता कदाचन
॥४३॥सत्यमुक्तं तदा व्यास ब्रह्महरिहरेण च
॥४४॥ये शृण्वंति कथां दिव्यां नराश्चैकाग्रमानसाः ॥
न तेषां जायते किंचिज्जवरसंतापजं भयम्
॥४५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये शिप्राया माहात्म्ये ज्वरानुग्रहोनामैकोन पंचाशत्तमोऽध्यायः ॥ ४९ ॥