मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय १०

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 10

कुटुम्बिकेश्वरमाहात्म्यवर्णनम्

सनत्कुमार उवाच

अथातः संप्रवक्ष्यामि तीर्थ त्रैलोक्य विश्रुतम् ॥

स्वयंभूतं महेशस्य विख्यातं कुटुंबिकेश्वरम्

॥१॥

मुच्यते सर्वपापैस्तु सप्तजन्मकृतैरपि ॥

शुचिः पश्यति यो देवं कृत्वा श्राद्धं यथा विधि

॥२॥

सर्वाँल्लोकानतिक्रम्य शिवलोकं स गच्छति ॥

यस्तु सर्वाणि शाकानि कन्दानि विविधानि च

॥३॥

तीरे तस्य प्रयच्छेत स प्राप्नोति परां गतिम् ॥

पौषे प्रतिपदि सिते अष्टम्यां वा समाहितः

॥४॥

एकेनैवोपवासेन अश्वमेधफलं लभेत् ॥

आश्विन्यां पौर्णमास्यां च शुचिः पश्यति मानवः

॥५॥

पट्टबंधं महेशस्य स विपाप्मा दिवं व्रजेत् ॥

चैत्रे मासि सिते पक्षे पञ्चम्यां समुपोषितः

॥६॥

कर्पूरं कुङ्कुमं चैव मृगनाभि सचन्दनम् ॥

निवेदयति देवाय नैवेद्यं घृतपायसम्

॥७॥

स्वरूपं चैव विप्रेन्द्र सभार्यं भोजयेद्द्विजम् ॥

रुद्रलोकमवाप्नोति यावदिंद्राश्चतु र्दश

॥८॥

इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुटुम्बिकेश्वरमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥ १० ॥