तीर्थस्याऽनरकस्यास्य माहात्म्यं शृणु सांप्रतम्
सनत्कुमार उवाच
तीर्थस्याऽनरकस्यास्य माहात्म्यं शृणु सांप्रतम् ॥
तीर्थे चानरके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥
न पश्येन्नरकं क्वापि यद्यपि ब्रह्महा भवेत्
॥१॥व्यास उवाच
कियंतो नरकास्तात कस्मिन्स्थाने प्रतिष्ठिताः ॥
पतन्ति केन पापेन पापिनस्तेषु दुःखिताः
॥२॥तत्कथं प्राणिनस्तत्र गच्छन्ति पापकारिणः ॥
एतत्सर्वं समाख्याहि यदि तुष्टोऽसि मे प्रभो
॥३॥सनत्कुमार उवाच
शृणुष्व नरकान्व्यास तावन्तो यत्र संस्थिताः ॥
न लभ्यंते यथा चैते सत्यमेतद्वदामि ते
॥४॥पातालनि लयाः सर्वे विख्याता दुःखदाः सदा ॥
पुण्यप्लावेन ते सर्वे तिर्यग्यांति स्वकर्मभिः
॥५॥रौरवः सूकरो रौद्रस्तालो विनशकस्तथा ॥
तप्तकुम्भस्तु तप्तायो महाज्वालस्तथैव च
॥६॥कुंभीपाकः क्रकचनस्तथा देवातिदारुणः ॥
कृमिभुक्तिश्च रक्ताख्यो लालाभक्षश्च गंडकः
॥७॥अधोमुखश्चास्थिभंगो यंत्रपीडनकस्तथा ॥
संदंशो रुधिरांगश्च श्वभोज्यश्च कुभोजनः
॥८॥इत्येवमादयः सर्वे नरका भृशदारुणाः ॥
यमस्य विषये संति स्तुता हि भयदायिनः
॥९॥पतंति पुरुषास्तेषु पापकर्मरताश्च ये ॥
पतिताश्च प्रपच्यंते नराः कर्मानुरूपतः
॥१०॥यातनाभिर्विचित्राभी रौद्रकर्म क्षयाद्भृशम् ॥
सुगाढं हस्तयोर्बद्धास्तप्तशृंखलया नराः
॥११॥महावृक्षाग्रशृंगेषु लंब्यंते यमकिंकरैः ॥
शोचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति निश्चलाः
॥१२॥अग्निवर्णैः शंकुभिश्च लोहदंडैः सकंटकैः ॥
हन्यंते किंकरैर्घोरैः समंतात्पापकारिणः
॥१३॥तत्तत्क्षणात्प्रदीप्तेन वह्निना च विशेषतः ॥
समंततः प्रक्षिप्यंते कृत्ताश्च जर्जरीकृताः
॥१४॥कूटसाक्षी तथाऽसम्यक्पक्षपातेन यो वदेत् ॥
यश्चान्यदनृतं ब्रूयात्स नरो याति रौरवम्
॥१५॥सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूचकः ॥
प्रयांति नरकांश्चैव तैः संसर्गमुपैति यः
॥१६॥भ्रूणहा गुरुहंता च गोघ्नश्च मुनिसत्तम ॥
यांत्येते नरकं रौद्रं ये च विश्वासघातकाः
॥१७॥तप्तलोष्ठेषु पच्यंते यस्तु भक्तं परित्यजेत् ॥
स्नुषां सुतां च यो गच्छेन्महा ज्वाले स पात्यते
॥१८॥कुंभीपाके प्रयात्येव पादैरूर्ध्वैरधोमुखः ॥
करोति कर्म वै नित्यं यश्च गां प्रतिषेधयेत्
॥१९॥स्वामिद्रोही च यो रौद्रस्तप्तकुंभे स पात्यते ॥
देवदूषयिता यश्च वेदविक्रयिकस्तथा
॥२०॥परस्त्रीगामिनो ये च यांति क्रकचने तु ते ॥
चौरोऽतिदारुणे याति मर्यादाभेदकस्तथा
॥२१॥देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्षे वै रक्ताख्ये च पतंति ते
॥२२॥पितृदेवगुरूणां च सपर्यां न करोति यः ॥
लालाभक्षे स यात्युग्रे कूटकर्म करोति यः
॥२३॥अंत्यजेभ्यो ग्रहीता च नरके यात्यधोमुखे ॥
अस्थिभंगे प्रयात्येव एको मिष्टान्नभुङ्नरः
॥२४॥कृतघ्नः पिशुनः क्रूरः कूटमानी विडंबकः ॥
यंत्रपीडनके याति परगुह्यप्रकाशकः
॥२५॥लाक्षामांसरसानां च तिलानां रसकस्य च ॥
विक्रयी ब्राह्मणो याति श्वदंशे नात्र संशयः
॥२६॥मधुहा ग्रामहंता च याति वैतरणीं नरः ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः
॥२७॥कर्मणा मनसा वाचा महानद्यां प्रयांति ते ॥
गुरूणामवमंता च शास्त्रदूषयिता च यः
॥२८॥असिपत्रे प्रयात्येव तथा पर्वविलंघकः ॥
धनयौवनमत्ता ये मर्यादाभेदिनो नराः
॥२९॥ते यांति नरके घोरे कृष्णसूत्रेऽतिदारुणे ॥
असंस्कृतश्च यो विप्रो वृषलीं सेवते तु वै
॥३०॥वृषलीमिथुनो यश्च पततस्तावुभावपि ॥
उच्छिष्टा ये स्पृशंतीह गावोऽग्निं जननीं द्विजान्
॥३१॥ते पच्यंते कुभोज्ये च मित्र द्वेषी विशेषतः ॥
पंक्तिभेदे दिवास्वप्रे ये नरोऽब्रह्मचारिणः
॥३२॥पुत्रैरध्यापिता ये तै ते पतंति श्वभोजने ॥
एते चान्ये च नरकाः शतशोऽ थ सहस्रशः
॥३३॥तत्र दुष्कृतकर्माणः पच्यंते यातनागताः ॥
नृणां स्वर्गाश्च यावंतस्तावंतो निरयास्तथा
॥३४॥पापं कृत्वा तु बहुलं प्रायश्चित्तपराङ्मुखाः ॥
कृते पापे च वै तापो यस्य पुंसः प्रजायते
॥३५॥प्रायश्चित्तं तु तस्यैकं शिवसंस्मरणं परम् ॥
तस्मादहर्निशं शंभुं संस्मरन्पुरुषोत्तमः
॥३६॥न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥
कार्तिकस्यासिते पक्षे कृष्णा या च चतुर्दशी ॥
तस्यां दीपः प्रदातव्यो देवदेवस्य चाग्रतः
॥३७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरकऽकथनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥