मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ४७

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 47

विशालाभिधानकथनम्

सनत्कुमार उवाच

शृणु व्यास महाभाग पुरी ह्येषामरावती ॥

विशाला च समाख्याता सर्वलोकेषु गीयते

॥१॥

तथाहं संप्रवक्ष्यामि ब्रह्मणा कथितं पुरा ॥

गुह्याद्गुह्यतरं क्षेत्रं सर्वपापप्रणाशनम्

॥२॥

उमया सहितो देव एक एवाचरद्वने ॥

ततो भूतगणाः सर्वे पश्चात्सर्वे सुरासुराः

॥३॥

विष्णुर्दशाकृतिर्यत्र देव्यो वै लोकमातरः ॥

विनायकाश्च वैतालाः कूष्मांडा भैरवादयः

॥४॥

कल्पोद्भेदाश्च लिंगाश्च चतुराशीतिसंख्यकाः ॥

क्षेत्राणि क्षेत्रपालाश्च ऋद्धिः सिद्धिस्तथैव च

॥५॥

पितरो लोकपालाश्च सिद्धाः सिद्धिप्रदाश्च ये ॥

ऋषयश्च महाभागा ऋषिपत्न्योऽमलाशयाः

॥६॥

किंनरा देवगन्धर्वा ह्यप्सराश्च वरांगनाः ॥

मरुद्गणाश्च ये सर्वे साधकानां गणाश्च ये

॥७॥

यक्षा गुह्यकसंघाश्च पिशाचोरगराक्षसाः ॥

स्थावरा जंगमाः सर्वे ध्यानं मानसमाश्रिताः

॥८॥

उपासांचक्रिरे तत्र देवदेवमुमापतिम् ॥

तान्दृष्ट्वा सा तदा देवी पार्वती गिरिजा तदा ॥

उवाच श्लक्ष्णया वाचा शंकरं जगदाश्रयम्

॥९॥

पार्वत्युवाच

देवदेव जगन्नाथ जगदाधारतत्पर ॥

पश्य एतान्महाभागान्ध्यायमानांस्तवाश्रितान्

॥१०॥

नानुपेक्ष्याश्च तान्सर्वान्वातवर्षातपार्दितान् ॥

कल्पय त्वं महा भाग एतेषामात्मनो हितम्

॥११॥

यथायोग्यं वासनार्थं स्थानं परमशोभनम् ॥

पुरीं कल्पय मे नाथ वासार्थं सर्वकामदाम्

॥१२॥

एषा मे वासना स्वामिन्भवतां यदि रोचते ॥

इति श्रुत्वा वचस्तस्याः पार्वत्याः परमेश्वरः ॥

कल्पयामास पुरीं रम्यां सर्वभूतमनोरमाम्

॥१३॥

आत्मनोपि हितां पुण्यां शंभुः सर्वात्मना तदा ॥

बहुयोजनविस्तीर्णां दिव्यां दिव्यजनप्रियाम्

॥१४॥

दिव्याभिप्रायसंयुक्तां दिव्यस्थानमनोरमाम् ॥

दिव्यसर्वगुणोपेता विशालां विरजां शुभाम्

॥१५॥

क्रयविक्रयसंपन्नहट्टाट्टालकचत्वराम् ॥

बहुहर्म्यगृहाकीर्णां सौधपंक्तिविराजिताम्

॥१६॥

स्फाटिकाभित्तिरचितां वैडूर्यमणिभूमिकाम् ॥

प्रवालस्तंभप्रवरां हेमाभरणसंभराम्

॥१७॥

आरक्तमणिदेहल्यां द्वारशाखाभिमंडिताम् ॥

जांबूनदकपाटाढ्यां वज्रार्गलसुसंस्कृताम्

॥१८॥

मणिरत्नसमाभूमिद्वाराजिरगृहांतराम् ॥

घोषजालातिरम्यां च मुक्तादामविलंबिनीम्

॥१९॥

हेमस्तं भध्वजोपेताः पताकाश्च गृहेगृहे ॥

कलशाश्च विराजंते मणिहेमाचिता गृहे

॥२०॥

वापीकूपतडागानि सरांसि विमलानि च ॥

पद्मकिंजल्कगंधीनि जलयंत्रोपशोभिताम्

॥२१॥

हंसकारंडवाकीर्णां शिखंडिगणशोभिताम् ॥

जलयंत्रकृताधारां गृहवापीवनाकराम्

॥२२॥

क्वचिन्नृत्यंति मयूराः क्वचित्कूजंति कोकिलाः ॥

भ्रमरावलीढपुष्पाढ्यस्तबका वनराजयः

॥२३॥

नरनारीगणाकीर्णां वर्णाश्रमनिषेविताम् ॥

हर्म्यांतरागता नार्यो विलोकनपरा बभुः

॥२४॥

चंद्रमालाकृतश्रेणीतोरणानीव च शोभते ॥

एवं व्यास पुरी रम्या आत्मयोगेन वासिता

॥२५॥

यत्रालकापुरी रम्या कुबेरभवनांकिता ॥

धवला पुण्यजनैः कीर्णा पक्षिभिश्चोपशोभिता

॥२६॥

तत्र भोगवती दिव्या वरुणालय उत्तमः ॥

नागकन्याभिरुग्राभि र्नागपत्नीभिः संकुला

॥२७॥

संयमनीपुरी श्रेष्ठा धर्मराजेन पालिता ॥

सदाचारजनैः पूर्णा कृता कृतविचक्षणैः

॥२८॥

देवतानां पुरी रम्या वासवेनाभिरक्षिता ॥

पुण्यस्त्रीणां गणाकीर्णा किन्नरोद्गीतमंडिता

॥२९॥

एवंविधानि रम्याणि पुरा बहुतराणि च ॥

बहुविस्तीर्णमानानि शुभ्रा ण्यतितराणि च

॥३०॥

क्वचिद्रंभाकृतद्वारा यवांकुरघटाः शुभाः ॥

क्वचिद्गायन्ति गन्धर्वाः क्वचिन्नृत्यंति नर्तकाः

॥३१॥

क्वचिद्बालाः पठंति स्म वेदाध्ययनका द्विजाः ॥

क्वचिद्यज्ञान्यजंति स्म यजमानाः सऋत्विजः

॥३२॥

क्वचिच्चावभृथस्नाताः क्वचिद्दानान्यकुर्वत ॥

क्वचित्क्वचित्तूपनयनं विवाहाग्निपरिग्रहम्

॥३३॥

क्वचिदारामपूर्तं वै क्वचिद्यात्रावधारणम् ॥

वापीकूपतडागानां तथैव विधिपूर्वकम्

॥३४॥

क्वचित्कथाप्रसंगांश्च परिशंसंति वाचकाः ॥

क्वचिद्गाथाः प्रकुर्वंति कवयः पुर उत्तमे

॥३५॥

क्वचिन्मल्ला नियुध्यंते नटा नाट्यपराः क्वचित् ॥

तडागानि विराजंते मणिसोपानपंक्तिभिः

॥३६॥

चंचलाश्चपला बालाः श्यामाः षोडशवार्षिकाः ॥

वारिहारपरास्तत्र मणिहेमघटोत्कटाः

॥३७॥

एवं व्यास पुरी रम्या निर्मिता योगमायया ॥

शंभुना सर्वपापघ्नी प्रियाप्रियचिकीर्षया

॥३८॥

विशाला बहुविस्तीर्णा पुण्या पुण्यजनाश्रया ॥

तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते

॥३९॥

विशालेति समाख्याता पुरी रम्या सनातनी ॥

यत्रतत्र स्थितो वापि सर्वावस्थां गतोऽपि वा

॥४०॥

विशालेति वदेन्नित्यं शिवलोके महीयते ॥

ईदृशी न पुरीव्यास भुवि ब्रह्मांडगोलके

॥४१॥

विशाला सदृशी चान्या भुक्तिमुक्तिप्रदा नृणाम् ॥

पितॄनुद्दिश्य कुर्वंति श्राद्धं काले नरा यदि

॥४२॥

तदक्षयं भवेत्तेषां पितृकल्पे च गीयते ॥

स्नानदानादिकं यैस्तु विशालायां प्रसंगतः

॥४३॥

यत्र कुत्र गतास्ते वै मृता यांति शिवालयम् ॥

धन्याः पुण्यतमा लोके प्रीतिर्येषां सदाचला

॥४४॥

विशालायां फलं शश्वच्छेषः शक्तो न वर्णितुम् ॥

कथाश्रवणमात्रेण वाच्यमानेन तत्क्षणात् ॥

महापापोद्भवात्पापान्मुच्यते नात्र संशयः

॥४५॥

एवं व्यास पुरी जाता विशाला च कुशस्थली ॥

प्रतिकल्पा यथा जाता तथा मे शृणु भाषतः

॥४६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्र माहात्म्ये विशालाभिधानकथनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥