शंकरादित्यमाहात्म्यवर्णनम्
सनत्कुमार उवाच
शृणु व्यास महातीर्थं नाम्ना शंकरवापिका ॥
क्रीडमानेन देवेन निर्मितं तीर्थमुत्तमम्
॥१॥प्रक्षिप्तं देवदेवेन कपालक्षालनं जलम् ॥
वापीगतं कृतं यस्मादतः शंकरवापिका
॥२॥अर्काष्टम्यां नरः स्नात्वा दिशासु विदिशासु च ॥
पूर्वादिक्रमतो यावद्वापीमध्ये तथैव च
॥३॥हविष्यान्नयुतान्व्यास दद्याच्च करका न्नवान् ॥
शाकमूलांश्च विप्रेभ्यस्तस्य पुण्यफलं शृणु
॥४॥परत्र चेह ये लोकाः सर्वभावसमन्विताः ॥
तत्रतत्र समायाति भुनक्त्यैश्वर्यमुत्तमम्
॥५॥ये नरा कीर्तयिष्यंति माहात्म्यमतिभाविकाः ॥
रुद्रलोकेऽपि ते पूज्यास्तेभ्योऽपि सततं नमः
॥६॥सनत्कुमार उवाच
ततो वै देवदेवेशः पिनाकी वृषभध्वजः ॥
तुष्टाव प्रयतो भूत्वा देवदेवं दिवाकरम्
॥७॥आजगाम दिवानाथः संतुष्टः प्राह शंकरम्
॥८॥सूर्य उवाच
वरं वरय भूतेश वरदोऽस्मि ददामि ते ॥
तमाह वरदश्चेत्त्वं याच्यमानं कुरुष्व मे
॥९॥अंशेन स्थीयतामत्र हितार्थं सर्वदेहिनाम् ॥
अवतीर्णो रविस्तत्र श्रुत्वा माहेश्वरं वचः
॥१०॥ततो देवाधिदेवस्य शंकरस्य महौजसः ॥
वाक्येन भास्करस्तत्र ययौ ख्यातिं महाद्युतिः
॥११॥शंकरादित्यनामेति लोकानुग्रहकारकः ॥
देवा दैत्याश्च गंधर्वा विस्मिताः सह किन्नरैः
॥१२॥अहो धन्यमिदं स्थानं यत्रास्ते त्रिपुरांतकः ॥
भास्करोऽपि च तत्रस्थस्तीर्थमध्ये च वर्तते
॥१३॥ततस्तुष्टाश्च ते सर्वे ब्रह्माद्याः सुरसत्तमाः ॥
देवेशं पूजयामासुरादित्यं शंकरं तथा
॥१४॥मूर्तिमंतश्च ते देवा अवतीर्य च शोभनम् ॥
स्थापयित्वाऽब्रवीद्वाक्यं येऽत्र स्नास्यंति मानवाः
॥१५॥न दुःखं जायते तेषां जरामरण शोकजम् ॥
सर्वयज्ञेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥
तस्माच्चैवाधिकं ह्यत्र शंकरादित्यदर्शनात्
॥१६॥व्याधयो नाधयश्चैव दारिद्र्यं न कदाचन ॥
ऐश्वर्यं चातुलं तेषां जायते भुवि सर्वदा
॥१७॥न रोगो न च दारिद्र्यं वियोगो न च बन्धुभिः ॥
जायते मुनिशार्दूल शंकरादित्यदर्शनात्
॥१८॥इत्येवं देवदेवेन पुरा वै शूलपाणिना ॥
शंकरादित्यनाम्ना च स्थापितं परमं पदम्
॥१९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥