मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 2

पुरा त्वेकार्णवे प्राप्ते नष्टे स्थावरजंगमे

सनत्कुमार उवाच

पुरा त्वेकार्णवे प्राप्ते नष्टे स्थावरजंगमे ॥

नाग्निर्न वायुरादित्यो न भूमिर्न दिशो नभः

॥१॥

न नक्षत्राणि न ज्योतिर्न द्यौर्नेंदुर्ग्रहा स्तथा ॥

न देवासुरगंधर्वाः पिशाचोरगराक्षसाः

॥२॥

सरांसि नैव गिरयो नापगा नाब्धयस्तथा ॥

सर्वमेवतमोभूतं न प्राज्ञायत किंचन

॥३॥

तदैको हि महाकालो लोकानुग्रहकारणात् ॥

तस्थौ स्थानान्यशेषाणि काष्ठास्वालोकयन्प्रभुः

॥४॥

सृष्ट्यर्थं स महाकालः करे कामं प्रतिष्ठितम् ॥

दक्षिणस्य तु तर्जन्यां स ममंथाविशोषितम्

॥५॥

कललं बुद्बुदं भूत्वा तविवेगविवर्द्धितम् ॥

जज्ञे तदंडं सुदृढं सुष्ठु वृत्तं हिरण्मयम्

॥६॥

करेण ताडितं तद्धि बभूव द्विदलं महत् ॥

अधःखंडं स्मृता भूमिरूर्ध्वं द्यौस्तारकान्वितम्

॥७॥

मध्येऽभवत्तदा ब्रह्मा पंचवक्त्रश्चतुर्भुजः ॥

महेश्वरोऽनुमान्यैव तमयोजदनंतरम्

॥८॥

कुरु सृष्टिं महाबाहो विचित्रां मदनुग्रहात् ॥

इत्युक्त्वांतर्हितः क्वापि देवो ब्रह्मा न जग्मिवान्

॥९॥

प्रेर्यमाणोऽपि वै स्रष्टुं ब्रह्मा देवमचिंतयत् ॥

ब्रह्मणा ध्यायमानश्च ज्ञानार्थं भगवान्भवः

॥१०॥

ब्रह्मणस्तपसा दृष्टः प्रादाद्वेदं षडंगकम् ॥

लब्धे वेदेऽपि न चिरात्सष्टिं कर्तुं शशाक सः

॥११॥

तपसाऽतिष्ठदा भूयः समाराधयितुं भवम् ॥

नापश्यत्स यदा देवं तदा तुष्टाव भावितः

॥१२॥

ब्रह्मोवाच

नमः शिवायामलसत्त्वचेतसे गुणत्रयातीतविसारितेजसे ॥

षडंगवेदस्य ममापि वेधसे परस्वरूपानुभवाय चक्षुषे

॥१३॥

नमोऽ स्तु ते सृष्टिविधौ रजोजुषे जगत्स्थितौ सत्त्वमधिष्ठिताय ते ॥

विनाशहेतौ तमसा महीयसे शिवाय निर्वाणसुखप्रदायिने

॥१४॥

अशेषभूतप्रकृतेः परा य वै परात्मरूपाय नमः शिवाय वै ॥

नृबुद्ध्यहंकारमनोविधायिने भर्त्रे च षड्विंशकरूपकाय वै

॥१५॥

भूतोयवह्न्यम्बरवायुचंद्रसूर्यात्मरूपाभिरिदं तनूभिः ॥

व्याप्तं जगद्यस्य नमोऽस्तु तस्मै भूतं भविष्यमथ वर्तमानम्

॥१६॥

यानीह तेजांसि जगंति यानि भूतानि भव्यान्यथ कारणानि ॥

भवंति सृष्टौ विलयं विनाशे व्रजंति यस्यात्मनि तं नमामि

॥१७॥

सनत्कुमार उवाच

एवं संस्तुवतो व्यास ब्रह्मणो भगवान्परः ॥

अन्तर्हित उवाचेदं ब्रह्मन्संयाच्यतां वरः

॥१८॥

स वव्रे मनसा पुत्रं भवं गौरवकारणात् ॥

विज्ञायांतर्गतं तस्य परमेश उवाच तम्

॥१९॥

यस्मान्मां मनसा पुत्रं चतुर्मुख समीहसे ॥

कस्मिंश्चित्कारणे तस्मादहं छेत्स्यामि ते शिरः

॥२०॥

अयाच्यं याचितं यस्मान्ममांशो नीललोहितः ॥

रुद्रो भविष्यति सुतः स च ते हिंस्यति प्रभाम्

॥२१॥

अन्यद्यस्मात्स्मृतो भक्त्या त्वयाहं पितृभावतः ॥

परब्रह्मस्वरूपेण जिज्ञासा मम या कृता

॥२२॥

तस्माद्ब्रह्मेति लोकेऽत्र नाम ख्यातं भविष्यति ॥

पितामहत्वं तेनापि पितामहस्ततो ह्यसि

॥२३॥

लब्ध्वा शापवरावेवं पुत्रसृष्टिं चकार सः ॥

स्वतेजोजनितं वह्निं जुह्वतः स्वेदमावहत्

॥२४॥

समिद्युक्तेन हस्तेन ललाटं मार्जतोऽभवत् ॥

स्विन्नभ्रष्टस्ततो रक्तबिंदुरेको विभावसौ

॥२५॥

स नीललोहितोऽभूद्वै स च रुद्रो भवाज्ञया ॥

तदनन्तरमासाद्य उत्ततार सुतोंऽतिकात्

॥२६॥

पंचवक्त्रो दशभुजः शूलचापासिशक्तिमान् ॥

त्रिपंच नयनो रौद्रो व्यालयज्ञोपवीतकः

॥२७॥

सेन्दुः कपर्दं बिभ्राणः सिंहचर्मांबरंधरः ॥

जातमेवं स दृष्ट्वा तु ब्रह्मा नामाकरोत्तदा

॥२८॥

नीललोहितनामेति भव रुद्र पिनाकधृक् ॥

ततः प्रववृते सृष्टिः स्रष्टुर्लोकपितामहात्

॥२९॥

सप्तादौ मानसाञ्जज्ञे सनकादींस्ततोऽपरान् ॥

मरीचि दक्षप्रभृतीन्मन्वादींश्च प्रजासृजः

॥३०॥

अष्टभेदान्सुरान्कृत्वा तिर्यग्योनिं च पंचधा ॥

मनुष्यानेकभेदांश्च सृष्टिमेवं ससर्ज ह

॥३१॥

सृष्टिः सुरादिका जाता कृत्वा ब्रह्माणमप्यधः ॥

प्रणम्याथ सिषेवुस्ते केवलं नीललोहितम्

॥३२॥

ततो ब्रह्माऽवदद्रुद्रमपूज्यो हि त्वया कृतः ॥

स्वतेजसा भवान्पूज्यो यतो याहि हिमालयम्

॥३३॥

तं नीललोहितः प्रोचे भवता नार्चितो ह्यहम् ॥

ततो जगाम रुद्रोऽसौ स यत्र भगवान्भवः

॥३४॥

ततो ब्रह्माऽभवन्मूढो रजसा चोपबृंहितः ॥

तताप तेजसा सृष्टिं मन्यमानो मया कृताम्

॥३५॥

मत्तुल्यो नास्ति वै देवो येन सृष्टिः प्रवर्द्धिता ॥

सदेवासुरगन्धर्वा पशु पक्षिमृगाकुला ॥

एवं मूढः स पंचास्यो विरंच्योऽभवद्दर्पितः ॥

प्राग्वक्त्रं सुस्वरं तस्य सामवेदप्रवर्तकम्

॥३७॥

द्वितीयं वदनं तस्य ऋग्वे दस्य प्रवर्तकम् ॥

यजुर्वेदधरं चान्यदथर्वाख्यं चतुर्थकम्

॥३८॥

सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान् ॥

वेदानधीते वक्त्रेण पंचमेनोपचक्षुषा

॥३९॥

तस्याऽसुराः सुराः सर्वे वक्त्रस्याद्भुततेजसः ॥

तेजसा न प्रकाशंते दीपः सूर्योदये यथा

॥४०॥

सपुत्रा अपि सोद्वेगा बभूवुर्नष्ट चेतसः ॥

नाभिगन्तुं न च द्रष्टुं चिरं तेजोऽपसर्पितुम्

॥४१॥

अभिभूतमिवात्मानं मन्यमाना अविद्विषः ॥

सर्वे ते मन्त्रयामासुर्देवा वै हितमा त्मनः

॥४२॥

गच्छाम शरणं देवं निस्तेजा ब्रह्मतेजसा ॥

किं तु तस्य न जानीमः स्थानं यत्र व्यवस्थितः

॥४३॥

तं भीममत्र दक्ष्यामो भक्त्या नान्येन केनचित् ॥

एवं संमन्त्र्य ते देवाः कृतांजलिपुटास्तदा ॥

चक्रुः स्तोत्रं महेशस्य परया स्वरसंपदा

॥४४॥

देवा ऊचुः

नमस्ते देवदेवेश महेश्वर नमोनमः

॥४५॥

न विद्मः परमं मूढा महिमानं तवातुलम् ॥

यद्योगेन परं ब्रह्म भूतानां त्वं सनातनः

॥४६॥

प्रतिष्ठा सर्वभूतानां हेतुः सर्वस्य सर्जने ॥

बिभर्षि चैव नेत्रस्थान्सोमसूर्यविभावसून्

॥४७॥

नामसंकीर्तनादेव मुच्यन्ते जंतवोऽशुभात् ॥

पृथिव्यबग्निचन्द्रार्कव्योमवायूपलक्षणाः

॥४८॥

मूर्तयस्ते महादेव व्याप्तमाभिरशेषतः ॥

रजःसत्त्वतमोभावैर्भ्राम्यमाणं त्वया जगत्

॥४९॥

नावबुध्यति सर्वेश सर्वमूर्तिधरो यतः ॥

ब्रह्मादीनां सुरेशानां संमोहनविमोहनम् ॥

त्वं करोषि युगावर्तकाले काले च दुःसहम्

॥५०॥

सनत्कुमार उवाच

प्रत्यक्षं दर्शनं दत्त्वा देवानामनुकंपया ॥

प्रसन्नवदनो भूत्वा देवैश्चापि नमस्कृतः

॥५१॥

वासयन्मोहनाम्ना तु सह देवैर्महेश्वरः

॥५२॥

एवं संस्तूयमानोऽसौ देवर्षिपितृमानवैः ॥

अन्तर्हित उवाचेदं देवा ब्रूत यथेप्सितम्

॥५३॥

देवा ऊचुः

प्रत्यक्षं दर्शनं स्थाणो प्रार्थयाम सदा तव ॥

त्वया कारुण्यतोऽस्माकं वरश्चापि प्रदीयताम्

॥५४॥

यदस्माकं महद्वीर्यं तेजश्चैव पराक्रमम् ॥

तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा

॥५५॥

विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो ॥

जायते तद्यथापूर्वं तथा कुरु महेश्वर

॥५६॥

सनत्कुमार उवाच

प्रत्यक्षमेत्य वै पश्चाच्चलितः शर्व एव हि ॥

जगाम तत्र यत्रासौ रजोऽहंकारमूर्त्तिमान् ॥

देवाः स्तुवंतो देवेशं परिवार्य उपाविशन्

॥५७॥

ब्रह्मा तमागतं देवं नाजानात्तमसा वृतः ॥

सूर्यकोटिसहस्राणां तेजसा रंजयञ्जगत्

॥५८॥

तदाऽदृश्यत विश्वात्मा विश्वसृग्विश्वभाव नः ॥

स पितामहमासीनं सकले देवमण्डले

॥५९॥

तेजसाभिभवन्रुद्रस्तेन मत्तोऽग्रतः स्थितः ॥

रुद्रतेजोभिभूतं च ब्रह्मवक्त्रं न राजते

॥६०॥

रात्रौ प्रकाशकिरणश्चंद्रः सूर्योदये यथा ॥

सगर्वोथात्मजं दृष्ट्वा रुद्रदेवं सनातनम्

॥६१॥

अवन्दत करेणैव प्राह वै सस्मितं वचः ॥

प्रत्युवाच विरूपाक्षो ब्रह्माणं तं हसन्निव

॥६२॥

यतो न वेद परमं देवं तत्तेजसावृतः ॥

ततोऽट्टहासं भगवान्मुमोच शशिशेखरः

॥६३॥

पश्यतां सर्वदेवानां शृण्वतां वाचमुक्तवान् ॥

तेनादृहासशब्देन मोहयित्वा पितामहम्

॥६४॥

तेजोराशिशशांकाभः शशांकार्काग्निलोचनः ॥

वामांगुष्ठनखाग्रेण ब्रह्मणः पञ्चमं शिरः

॥६५॥

चकर्त कदलीगर्भं नरः कररुहैरिव ॥

छिद्यमानं च तद्वक्त्रं बुबुधे न पितामहः

॥६६॥

रुद्रस्य तेजसा तस्मान्मो हितो न नतिं गतः ॥

छिन्नं तस्य शिरः पश्चाद्रुद्रहस्ते स्थितं तदा

॥६७॥

अपश्यद्दैवतैः सार्धं रौद्रमतिभयाज्ज्वलत् ॥

महेश्वरकरांतस्थनखै र्वक्त्रं विराजते

॥६८॥

ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः ॥

उत्क्षिप्य तत्कपालेन ननर्त शशिशेखरः

॥६९॥

शिखरस्थेन सूर्येण कैलास इव पर्वतः ॥

छिन्ने वक्त्रे ततो देवा हृष्टपुष्टा वृषध्वजम् ॥

तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं कपालिनम्

॥७०॥

देवा ऊचुः

नमः कपालिने नित्यं महाकालाय शंखिने

॥७१॥

ऐश्वर्यज्ञानयुक्ताय सर्वभोगप्रदायिने ॥

नमो दर्पविनाशाय सर्वदेवमयाय च

॥७२॥

कालसंहारकर्ता त्वं महाकालस्ततो ह्यसि ॥

भक्तानां दुःखशमनो दुःखांतस्तेन रोचसे

॥७३॥

शंकरोप्याशु भक्तानां तेन त्वं शंकरः स्मृतः ॥

छित्त्वा ब्रह्मशिरो यस्मात्कपालं च बिभर्षि च

॥७४॥

तेन देव कपाली त्वं स्तुतो ह्यसि प्रसीद नः ॥

एवं स्तुतः प्रसन्नात्मा देवानुत्थाप्य शंकरः

॥७५॥

कृपानिधिः स भगवांस्तत्रैवांतरधीयत ॥

शशिशकलमयूखैर्भासित यत्कपर्दं द्रवति गगनगंगातोयवीचीविचेयम् ॥

सितविधृतकपालो मालया रुद्रपार्श्वे स जयति जितवेधा ऊर्जितः प्राज्यतेजाः

॥७६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये ब्रह्मशिरश्छेद वर्णनं नामद्वितीयोऽध्यायः ॥ २ ॥