मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५२

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 52

शिप्रामाहात्म्यवर्णनम्

सनत्कुमार उवाच

भूयः शृणु महाभाग शिप्रामाहात्म्यमुत्तमम् ॥

यस्य श्रवणमात्रेण हयमेधफलं भवेत्

॥१॥

शिप्रा च सर्वतः पुण्या पवित्रा पापहारिणी ॥

अवंत्यां च विशेषेण शिप्रा चोत्तरवाहिनी

॥२॥

तथापि तत्समुत्पत्तिं विस्तराद्गदतो मम ॥

यथा वाराहतनया विष्णुदेहोद्भवा शिवा ॥

शृणु व्यास महापुण्यां कथां पौराणिकीं शुभाम्

॥९३॥

पुरा महासुरो जातो हिरण्याक्षो महाबलः

॥४॥

स चेमां सकलां पृथ्वीं वशीकृत्वा चकार ह ॥

राज्यं च सार्वभौमानां दानवैश्च दुरात्मभिः

॥५॥

जित्वा च सकलाँल्लोकान्सुरानिंद्रपुरोगमान् ॥

दिक्पालान्वसुपालांश्च तिरस्कृत्यसुरा धिपः

॥६॥

स सर्वान्सर्वलोकेभ्यः स्वयमेवाधितिष्ठति ॥

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि

॥७॥

विचरंति यथा मर्त्या भ्रष्टराज्याः पराजिताः ॥

अलब्धशरणाः सर्वे ब्रह्माणं शरणं ययुः

॥८॥

तत्र गत्वा नमस्कृत्य दैत्यकृत्यं न्यवेदयन् ॥

भगवन्किमिदं कार्यं भवता परमेष्ठिना

॥९॥

येन देवगणाः सर्वे नष्टप्रायाश्च तत्क्षणात् ॥

हिरण्याक्षेण दैत्येन हृतं स्वर्गमकण्टकम्

॥१०॥

यज्ञभागांश्च वै सर्वानुपाश्नाति पृथक्पृथक् ॥

केनोपायेन जीवाम कथं तिष्ठाम भूतले

॥११॥

इति विक्लवितं तेषां देवानां स पितामहः ॥

उवाच वचनं रम्यं तत्कालसमयोचितम्

॥१२॥

ब्रह्मोवाच

शृणुध्वं भोः सुरश्रेष्ठा यूयं सर्वे समाहिताः ॥

पुरायं पार्षदश्रेष्ठो द्वारपालः समाहितः

॥१३॥

वैकुण्ठभवने रम्ये विष्णोरतुलतेजसः ।

जयोनाम महाबाहुर्विजयेन समन्वितत

॥१०॥

द्वावेव सचिवौ दांतौ विष्णुवेषधरावुभौ ॥

आत्तयष्टी च विक्रांतौ द्वारे संतिष्ठतः सदा

॥१५॥

एकदा वै मुनिश्रेष्ठ ब्रह्मणो मानसात्मजाः ॥

स्वैरं चरंतो लोकानां विष्णोर्भवनमागताः

॥१६॥

सनकादयो महाभागा भगवद्दर्शनलालसाः ॥

ताभ्यां निवारिताः सर्वे पेतुर्वै धरणीतले

॥१७॥

मुमुहुश्च तदा व्यास कुमारा भृशदुःखिताः ॥

ततोऽगात्स महाबाहुर्भगवान्कमलेक्षणः

॥१८॥

ददर्श सहसा विष्णुः कुमारान्भुवि दुःखितान् ॥

उत्थाप्यांकं समारोप्य सस्वजे मधुसूदनः

॥१९॥

मूर्ध्नि चाघ्राय बाहुभ्यां परिष्वज्य ह्युवाच ह ॥

कस्माद्वः कश्मलमिदं केनापि दुःखिता भृशम्

॥२०॥

सर्वं तत्कारणं बाला ब्रूत नो धर्मवित्तमाः

॥२१॥

कुमारा ऊचुः

श्रूयतां भो महाराज अस्माकं दुःखमीदृशम् ॥

येन प्राप्ता वयं ब्रह्मन्दशामेतां शृणुष्व ह

॥२२॥

आयाता भ्रातरो ह्येते चत्वारो लोकपर्यटाः ॥

दर्शनार्थं रमानाथ साभिलाषाः शुचार्दिताः

॥२३॥

निवारिताश्च सहसा ताभ्यां वै द्वारपालनात् ॥

तेनैवेयं दशा प्राप्ता भवता परिपालिताः

॥२४॥

भगवानुवाच

अतः प्रभृति स्थानेस्मिन्स्थितिर्नास्ति च शाश्वती ॥

एतयोरासुरी योनिः प्राप्स्यते यन्ममाहितौ

॥२५॥

सद्यः प्राप्तौ तदा व्यास आसुरीं योनिमेव तौ ॥

जयविजयनामाख्यौ दुष्टभावसमाश्रितौ

॥२६॥

जन्मांतरसहस्रेण तपोदानसमाधिभिः ॥

नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते

॥२७॥

दुष्टभावेन सद्यो वै जन्मभिर्जायते त्रिभिः ॥

भविष्यति च तस्माद्वो विष्णुभक्तिः परा स्मृता

॥२८॥

जन्मजन्मांतरे जातौ तामसीं योनिमुद्धतौ ॥

हिरण्यकशिपुश्चैव हिरण्याक्षो महाबलः

॥२९॥

तथैव कुंभकर्णाख्यो रावणो लोकरावणः ॥

दंत वक्त्रः शिशुपालश्च जन्मत्रयमिति स्मृतम्

॥३०॥

योऽसौ महाबली दैत्यो हिरण्याक्ष इति स्मृतः ॥

दुष्टभावसमापन्नो देवब्राह्मणनिंदकः

॥३१॥

जित्वा च सकलान्देवान्स्वयमेवाधितिष्ठति

॥३२॥

स्वर्गान्निराकृताः सर्वे भ्रष्टराज्याः पराजिताः ॥

विचरंति यथा मर्त्यास्तेन देव गणा भुवि

॥३३॥

स्वधाकारो वषट्कारः स्वाहाकारो न दृश्यते ॥

देवपूजार्चनं नास्ति ब्राह्मणानां विशेषतः

॥३४॥

नैव तीर्थं प्रकाशेत पुण्यान्यायतनानि च ॥

आश्रमेषु च सर्वेषु ऋषीणां च महात्मनाम्

॥३५॥

उद्वृत्तं च प्रकुर्वंति दुष्टदैत्याः प्रहारिणः ॥

वर्णाश्रमवतां धर्माः स्त्रीणां चैव सुशीलता

॥१८॥

उच्छिन्ना हि तदा जातास्तस्मिन्राज्ञि दुरात्मनि ॥

दुष्टाचारा दुरात्मानो मायिनो बहुमानिनः

॥३७॥

पाखंडिनोऽपरा क्रांताः सर्वे धर्मबहिर्मुखाः ॥

पशुधर्मरताः सर्वे सर्वे ब्रह्मेतिशंसिनः

॥३८॥

बहुम्लेच्छा बहुक्लेशा बह्वाबाधावनी कृता ॥

को वेदः का स्मृतिः को यज्ञः का च दक्षिणा

॥३९॥

तमीभूतं जगत्सर्वं दृश्यते वसुधातले ॥

एवं व्यास यदा जातं दुष्टं सर्वं जगत्त्रयम्

॥४०॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्

॥४१॥

इति ज्ञात्वा महाविष्णुर्वाराहं वपुरात्मवान् ॥

दधार लीलया दिव्यं श्वेतद्वीपोपमं शुभम्

॥४२॥

यूपदंष्ट्रो हविर्गंधो बीजौषधितनूरुहः ॥

वेदपादः शुचिर्दंडी जिह्वाग्निस्तालुकाहुतिः

॥४३॥

अंतरास्यरुचादार्ढो यज्ञकायः सुदक्षिणः ॥

उद्गानघुर्घुरोन्नादो विहार ऋत्विजाकृतिः

॥४४॥

हौत्रश्वासपरो दक्षसदस्यावयवः स्मृतः ॥

पुच्छ कर्माशनो नित्यं यजमानसुमानदः

॥४५॥

वेदिपल्वलसंस्तारो ब्रह्माध्वर्युर्वनाकरः ॥

लोककल्पो लोकसाक्षी परावरवहः शुचिः

॥४६॥

आद्यः पुरुष ईशानः पुरुहूतः पुरुष्टुतः ॥

तेनासौ निहतो दैत्यो हिरण्याक्षो दुरासदः

॥४७॥

संग्रामान्सुबहून्कृत्वा बहुकष्टेन विष्णुना ॥

दैत्येन पीडिता पृथ्वी रसातलतलंगता

॥४८॥

उद्धृता च वराहेण दंष्ट्रया चंद्ररेखया ॥

हतास्ते दानवाः सर्वे शेषाः पातालमाययुः

॥४९॥

ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥

जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः

॥५०॥

सरितो मार्गवाहिन्यः सागराः प्रकृतिं गतः ॥

दृष्ट्वा देवोऽखिलं व्यास प्रसन्नात्मा बभूव ह

॥५१॥

वाराहमूर्तिर्भगवान्सर्वकामफलप्रदः ॥

आनंदनिर्भरो देवो हतदैत्यो वरप्रदः

॥५२॥

तस्यापि हृदयाज्जाता नदी ह्येषा सनातनी ॥

आनंदजलसंपूर्णा सर्वानंदवरप्रदा

॥५३॥

बहुयोजनविस्तारा बहुला कामचारिणी ॥

पद्माकरसमाकीर्णा हंसकारण्डसंकुला

॥५४॥

सरला तरलच्छाया यक्षगंधर्वसेविता ॥

किन्नरीगीयमाना च गीयमाना खगालिभिः

॥५५॥

अप्सरोभिर्नृत्यमाना स्तूयमाना महर्षिभिः ॥

हूयमाना हुताग्निभी राजर्षिभिः समाश्रिता

॥५६॥

तुंगस्तनभराक्रांतयोषिद्भिः क्रीडितान्तरा ॥

क्वचित्कीरवरांदोलै रम्यमाणा विराजिता

॥५७॥

वेदविद्भिर्द्विजैः सेव्या ऋषिभिस्संशितात्मभिः ॥

सर्वदा सर्वकाले च सिद्धैः सिद्धिप्रदा नृणाम्

॥५८॥

महाकालवने रम्ये रम्या पद्मावती पुरी ॥

सुन्दरं कुण्डमपरं रम्यं प्राचीनकं शुभम्

॥५९॥

यत्र स्नात्वा नरा यांति शिवलोकं सनातनम् ॥

यत्र नीला परा व्यास शिप्रा वै लोकपावनी

॥६०॥

वाराहेण कृतं सर्वं दुष्टदैत्यनिबर्हणम् ॥

तेन देवा निरातंकाः कृता वाराहमूर्तिना

॥६१॥

कृतप्रांजलयः सर्वे देवा इंद्रपुरोगमाः ॥

स्तुतिं कृत्वा महाविष्णोः सततं पुरतः स्थिताः

॥६२॥

देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ॥

किं दानं किं तपः पुण्यं किं तीर्थं का च देवता

॥६३॥

येन पुण्यप्रभावेन पुनः स्वर्गो ह्यवाप्स्यते ॥

एतन्निश्चित्य नो ब्रूहि सर्वं गुह्यतरं विभो

॥६४॥

विष्णुरुवाच

शृणुध्वं भोः सुराः सर्वे युष्माकं सिद्धिकारणम् ॥

गुह्याद्गुह्यतरं पुण्यं महाकालवनं शुभम्

॥६५॥

मम देहोद्भवा शिप्रा यत्र लीना पयस्विनी ॥

नीलगंगा सरिच्छ्रेष्ठा यत्र प्राची सरस्वती

॥६६॥

पुष्करं च गयातीर्थं पुरुषोत्तमसरः शुभम् ॥

तत्रैव गच्छत क्षिप्र पुनर्लोकानवाप्स्यथ

॥६७॥

इति श्रुत्वा परं वाक्यं देवदेवजगद्गुरोः ॥

तत्र देवगणाः सर्वे ब्रह्मशक्रपुरोगमाः

॥६८॥

महाकालवने रम्ये यत्र शिप्रा सरिद्वरा ॥

स्नानदानादिकं कृत्वा श्राद्धं कृत्वा यथोचितम्

॥६९॥

तेन पुण्यप्रभावेन स्वकाँल्लोकान्गताः सुराः ॥

एवं व्यास समाख्याता शिप्रा वै लोकपावनी

॥७०॥

जातं सरो वराहस्य विष्णोरतुलतेजसः ॥

यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति

॥७१॥

अत्र स्नात्वा पयः पीत्वा श्राद्धं कृत्वा यथोचितम् ॥

पयस्विनीं च गां दत्त्वा विष्णुलोके महीयते

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्ती क्षेत्रमाहात्म्ये शिप्रामाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥