नरदीपमाहात्म्यवर्णनम्
व्यास उवाच
महाकालं किमर्थं तु किं वा शिवपदं स्मृतम् ॥
कोटीश्वरं किमर्थं तु पावकं तत्किमुच्यते
॥१॥नरदीपं किमर्थं तु द्वितीया वटमातरः ॥
अभयेश्वरं किमर्थं तु शंखोद्धा रणमेव च
॥२॥शूलेश्वरं किमर्थं तु किमोंकारस्तु कथ्यते ॥
धूतपापं किमर्थं तु किमंगारेश्वरं तथा
॥३॥पुरी चोज्जयिनी दिव्या सप्तकल्पा कथं स्मृता ॥
कथयस्व मुनिश्रेष्ठ तस्या नामानि यानि च
॥४॥सनत्कुमार उवाच
शृणु व्यास यथा ख्याता पुरी दिव्या कुश स्थली ॥
नामतः कर्मतः श्रेष्ठा सप्तकल्पानुवासिनी
॥५॥प्राक्कल्पे स्वर्णशृंगाख्या द्वितीये तु कुशस्थली ॥
तृतीयेऽवंतिका प्रोक्ता चतुर्थेत्वमरा वती
॥६॥विख्याता पञ्चमे कल्पे पुरी चूडामणीति च ॥
षष्ठे पद्मावती ज्ञेया सप्तमे चोज्जयिनी पुरी
॥७॥पुनरंते तु कल्पस्य स्वर्णशृङ्गादि का स्मृता ॥
एतानि सप्त नामानि प्रातरुत्थाय यः पठेत्
॥८॥सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
उज्जयिन्यां पुरा राजा बभूव किल चांधकः
॥९॥तस्य पुत्रो महावीर्यो नाम्ना कनकदानवः ॥
युद्धार्थं स महावीर्यः शक्रं युद्धे समाह्वयत्
॥१०॥क्रोधादिंद्रेण संग्रामे युध्य मानो निपातितः ॥
निहत्य दानवं शक्रो भयादंधासुरस्य तु
॥११॥जगाम शंकरान्वेषी कैलासं शंकरालयम् ॥
दृष्ट्वा प्रणम्य देवेशं चंद्रार्धकृत शेखरम्
॥१२॥भीतो विज्ञापयामास स चाश्र्वाकुललोचनः ॥
अभयं देहि मे देव दानवादंधकाच्च वै
॥१३॥शक्रस्येत्थं वचः श्रुत्वा शरणा गतवत्सलः ॥
ददावभयमेवासौ मा भैस्त्वमंधकाद्धि वै
॥१४॥कृत्वा रूपं महादेवो विश्वरूपं सुभैरवम् ॥
सर्पैर्ललद्भिरत्युग्रैस्तीक्ष्णदंष्ट्रैर्विषोल्बणैः
॥१५॥पातालोदररूपैश्च भैरवारावनादिभिः ॥
भुजैरनेकसाहस्रैर्बहुशस्त्रधृतैस्तथा
॥१६॥सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकम् ॥
गवाजिन कृताटोपं चंद्राग्निरविलोचनम्
॥१७॥महामहीध्रतुल्याभ्यां जंघाभ्यां भूषितं सदा ॥
क्षोभयंश्चालयन्सर्वान्पातालस्य तलावधि
॥१८॥ईदृग्रूपं विधायेशो दनुदैत्यभयावहम् ॥
अवातरन्महीं भीमः पादेनैकेन शंकरः
॥१९॥तत्रैव हि ह्रदो जातः सर्वदैवतवंदितः ॥
ख्यातं शिवपदं तद्धि यत्पदाऽऽक्रांतवान्विभुः
॥२०॥पापानां च पुरा कोटिः पादांगुष्ठेन दारिता ॥
कोटितीर्थमतः ख्यातं सर्वपापप्रणाशनम्
॥२१॥अगस्त्येन तथा कोटिस्तीर्थानामवधारिता ॥
अतोऽपीदं शुभं लोके कोटितीर्थं सदा स्मृतम्
॥२२॥दृष्ट्वा तु त्रिदशाः सर्वे स्नाता वै हितकाम्यया ॥
महा कालकृतं रूपं महाकालस्ततः स्मृतः
॥२३॥अंधासुरोऽपि दनुजः पुत्रं श्रुत्वा हतं युधि ॥
क्रोधेन तमसाविष्टो रणतूर्याण्यवादयत
॥२४॥ससैन्यो निर्गतः प्राप्तो यत्र ते त्रिदशाः स्थिताः ॥
महत्या सेनया सार्धं रथवारणयुक्तया
॥२५॥तदैव दानवान्वीक्ष्य महाहवकृतोद्यमान् ॥
वेपंतस्ते सुसंनद्धा शंभुं शरणमाययुः
॥२६॥मा भैरिति महाकालो देवानुक्त्वा त्रिलोचनः ॥
गृहीत्वा शूलमातिष्ठद्दष्टादंष्ट्राधरो रुषा
॥२७॥कोपयुक्ते विरूपाक्षे ज्वालाभिः पूरितं नभः ॥
अंधकेनाथ रुष्टेन शरकोटिस्तु दुःसहा
॥२८॥मुक्ता जगाम देवानां ननाश शलभाकृति ॥
विस्फुलिंगार्चिषं वह्निं मुंचमानः पिनाकधृक्
॥२९॥शतशः शकलीचक्रे तं च बाणैरताडयत् ॥
अंधकोऽपि हि युद्धस्थः शिथिलः शिथिला युधः
॥३०॥निरुद्धः शंभुना बाणैरलिभिः पंकजं यथा ॥
तस्य सैन्यं प्रविद्धं च तद्गणैर्युधि योधिभिः
॥३१॥योधवरैर्हता दिव्यैः स्थाणु सान्निध्यमाश्रितैः ॥
ततोंऽधकेन सैन्यं स्वं भिन्नं दृष्ट्वा तथासुरैः
॥३२॥आत्मानं च महेशेन विद्धं च बाणकोटिभिः ॥
विदलीकृतदेहोऽसौ भय माश्रित्य वेगतः
॥३३॥चकार तामसीं मायां मायाशतविशारदः ॥
तयांतर्हितदेवेशो जगाम दिशमुत्तराम्
॥३४॥शंभुर्भीतिभरं बिभ्रद्बभ्राम भुवि भिन्नहृत् ॥
यस्मिन्मार्गे गतो देवस्तेन दैत्यो जगाम ह
॥३५॥वदन्न दृश्यते क्वासौ गतो दुष्टः पुनःपुनः ॥
उवाच चांधकः शब्दं तथोवा च महेश्वरः
॥३६॥तत्र तीर्थमथोत्पन्नं वागंधकमभिश्रुतम् ॥
तत्र स्नात्वा शुचिर्भूत्वा यो वै दद्यात्सशर्करम्
॥३७॥नवम्यां मार्गशीर्षस्य शुक्लायां श्रद्धयान्वितः ॥
अक्षयं तद्भवेद्दत्तं दाता शिवपुरं व्रजेत्
॥३८॥पितृनुद्दिश्य यत्किंचिद्दीयते भक्तितः शिवे ॥
तृप्तास्तिष्ठंति ते तावद्यावदाभूत संप्लवम्
॥३९॥तमसा च्छादिता देवाः संबभूवुः समाकुलाः ॥
संभ्रांतमनसः सर्वे न किंचिदपि मेनिरे
॥४०॥एतस्मिन्नंतरे व्यास नरादित्यः स्वतेजसा ॥
उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः
॥४१॥नष्टे तमसि दैत्येपि प्रकाश प्रकटे सति ॥
देवा मुदमवापुस्ते दृष्ट्वा नरं विलोचनैः
॥४२॥स्तुवंतो विविधैः स्तोत्रैर्नररूपं दिवाकरम् ॥
उत्तस्थौ नररूपेण दीप्तो यस्माद्दिवाकरः
॥४३॥तेनास्य नाम ते चकुर्नरदीप इतीश्वराः ॥
यः पश्यति नरो भक्त्या नरदीपं दिवाकरम्
॥४४॥मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत् ॥
षष्ठ्यामर्कदिने विप्र सप्तम्यामुप वासयेत्
॥४५॥दिनच्छिद्रेथ संक्रांतौ ग्रहणे विषुवत्यथ ॥
कुंडे स्नात्वा शुचिर्भूत्वा जपन्नियतमानसः
॥४६॥नरदीपं नरः पश्येत्स्तोत्रवा दित्रमंगलैः ॥
गंधैर्धूपैस्तथा दीपैर्नैवेद्यैः पूजयेत्तथा
॥४७॥गीतं वाद्यं पुरस्कृत्य प्रणम्याष्टांगमेव च ॥
प्रातर्मध्यापराह्ने वा कृत्वार्कस्य प्रदक्षिणा म्
॥४८॥स मुक्तः सर्वपापैस्तु सप्तजन्मकृतैरपि ॥
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः
॥४९॥सूर्यलोकं प्रयात्याशु यत्सुरैरपि दुर्लभम् ॥
शक्रात्प्राप्य पुरा यस्माद्भानुरत्र प्रतिष्ठितः
॥५०॥नरेणैव प्रसादेन नरदीपस्ततो ह्ययम् ॥
तदैवास्य पुरा व्यास यात्रा शक्रेण निर्मिता
॥५१॥आगमिष्याम्यहं पार्थ सार्धं देवैः समाहितः ॥
ज्येष्ठे सिते द्वितीयायां नरदीपे तु सर्वदा
॥५२॥तत्राहमागतो ज्ञेयो लोके देवस्य वर्षणात् ॥
ततोऽनंतरमागत्य देवा ये त्रिदशालयात्
॥५३॥दृष्ट्वा देवं तथारूढं नरदीपं सुदीपितम् ॥
कृत्वा यात्रां च ते यांति देवयानैरितस्ततः
॥५४॥यः पश्येन्मानवो भक्त्या नरदीपं रथस्थितम् ॥
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते
॥५५॥रथयात्रामथो वक्ष्ये नरदीपस्य या मुने ॥
तां कृत्वा चैव यत्पुण्यं मुनिभिः परिकीर्तितम्
॥५६॥ज्येष्ठे सिते द्वितीयायां रथस्थो हि दिवाकरः ॥
कुशस्थल्यां द्विजैः श्रेष्ठैर्बाहुक्षेपैः प्रणीयते
॥५७॥उत्तरां दिशमायांतं यः पश्यति दिवस्पतिम् ॥
अग्निष्टोमस्य यज्ञस्य लभते सोऽखिलं फलम्
॥५८॥निवृत्य केशवार्काद्यो रथं पश्यति मानवः ॥
शुंडीरस्वामिनो यात्रा कृता तेन न संशयः
॥५९॥रथमाकर्षते यस्तु रज्ज्वाकर्षेण वै मुने ॥
कुलमुद्धरते सोऽपि पूर्वान्पितृपितामहान्
॥६०॥दक्षिणाभिमुखं यांतं नरदीपं द्विजोत्तम ॥
ये संयताः प्रपश्यंति ते यांति च त्रिविष्टपम्
॥६१॥सूत्रेण वेष्टयेत्क्षेत्रं रथं देवमथापि वा ॥
सर्वान्कामानवाप्नोति कृतपुण्यश्च जायते
॥६२॥प्रदक्षिणां तु सूर्यस्य भक्त्या कुर्वंति ये नराः ॥
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा
॥६३॥प्रातरुत्थाय यो भक्त्या मौनी याति दिवाकरम् ॥
दृष्ट्वा तु पूर्वद्वारेण नमस्कृत्य द्विजोत्तम
॥६४॥प्रविश्य दक्षिणेनैव रथचक्रं प्रपूजयेत् ॥
तेन द्वारेण निष्क्रम्य प्रणिपत्य व्रजेत्ततः
॥६५॥पश्चिमं द्वारमाश्रित्य रथस्थं सूर्यमर्चयेत् ॥
चामरं च वितानं च घंटादीनि निवेदयेत्
॥६६॥पूर्वद्वारे तु गौर्दे या तथाश्वश्चैव दक्षिणे ॥
पश्चिमे च गजः प्रोक्त उत्तरे रथ एव च
॥६७॥कुर्यादेव तु यो यात्रां नरदीपस्य मानवः ॥
सर्वान्कामानवाप्नोति कृतपुण्यश्च जायते
॥६८॥गोसूर्यशिवशक्राणां स्वर्लोकं लभते शुभम् ॥
प्रदक्षिणा महामेरोः कृता तेन भवेन्मुने
॥६९॥दद्याद्गवां सहस्रं यो व्यतीपातशते नरः ॥
अश्वानां च सहस्रेण यद्यायात्तत्फलं लभेत्
॥७०॥नरदीपे रथारूढे वपनं कारयेत्तु यः ॥
श्रिया न विच्युतिस्तस्य सूर्यलोके महीयते
॥७१॥सूर्यस्य पुरतो वाप्यां मासं नित्यं सरस्वती ॥
यस्तामालोकते मर्त्यो दुःस्वप्नं तस्य नश्यति
॥७२॥भक्त्या योऽनुदिनं व्यास नरदीपं प्रपश्यति ॥
उत्तमं स्थान मासाद्य पुत्रपौत्रसमन्वितः
॥७३॥प्रक्रीड्य बंधुभिः सार्धं मृतः सूर्यपुरं व्रजेत् ॥
प्रनष्टे तिमिरे विप्र जाते सर्वत्र सुप्रभे
॥७४॥हतेंऽधके महेशेन शूलेन त्रिशिखेन वै ॥
प्रहृष्टाश्च सुराः सर्वे ब्रह्मेंद्रप्रमुखास्तदा
॥७५॥शंखं दध्मौ तदा विष्णुः सुराणां हितकाम्यया ॥
तत्र तीर्थमथोत्पन्नं शंखोद्धारणसंज्ञ कम्
॥७६॥तत्र संनिहितो विष्णुर्लिंगं चैव चतुर्मुखम् ॥
अनाद्यं चैव विप्रेंद्र लिंगस्यैव समीपतः
॥७७॥देवस्य दक्षिणे भागे शूलेनाधिष्ठितः स्थितः ॥
चतुर्दश्यां तथाष्टम्यां ये पश्यंति जितेंद्रियाः
॥७८॥ते क्षीणाशेषपापौघाः प्राप्स्यंति परमां गतिम् ॥
योगिनीनां बलिं यस्तु यथावत्संप्रदा स्यति
॥७९॥भूतप्रेतपिशाचाद्यैर्नासौ केनापि बाध्यते ॥
द्वादशीं समुपोष्यैव स्नात्वा देवं जनार्दनम्
॥८०॥यः पश्येच्छंखिनं देवं सोऽच्युतं स्थानमाप्नुयात्
॥८१॥यः स्थूलसूक्ष्मप्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः ॥
विश्व यतश्चैव हि विश्वहेतुर्नमोस्तु तस्मै पुरुषोत्तमाय
॥८२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये नरदीपमाहात्म्यवर्णनंनाम षट्त्रिशोऽध्यायः ॥ ३६ ॥