मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ७१

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 71

भगव न्भवता सर्वं कथितं देवमूर्तिना

व्यास उवाच

भगव न्भवता सर्वं कथितं देवमूर्तिना ॥

अवंतीतीर्थमाहात्म्यं पवित्रं वेदसंमितम्

॥१॥

भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥

महाकालवने रम्ये अवंत्यां भुवि सत्तम ॥

तीर्थानि कतिसंख्यानि विद्यंते ह्यत्र सुव्रत

॥२॥

सनत्कुमार उवाच

श्रूयतां भो द्विजश्रेष्ठ कथां पापहरां पराम्

॥३॥

उमामहेश्वरसंवादं नारदस्य च धीमतः ॥

नारदेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम

॥४॥

नारद उवाच

भगवञ्च्छ्रोतुमिच्छामि महाकाल वने शुभे ॥

तीर्थानि यानि वर्तंते तानि नो वद विस्तरात्

॥५॥

इति पृष्टस्तदा विप्र नारदेन पुराऽनघ ॥

उवाच श्लक्ष्णया वाचा उमया सहितो हरः

॥६॥

श्रीमहादेव उवाच

शृणुष्व भो ऋषिश्रेष्ठ महाकालवने शुभे ॥

तीर्थानि यानि तिष्ठंति तानि वक्ष्यामि सुव्रत

॥७॥

पुष्कराद्यानि तीर्थानि यानि कानि महीतले ॥

तानि सर्वाणि वर्तंते महाकालवनोत्तमे

॥८॥

असंख्यातसहस्राणि कोटिकोटीनि सत्तम ॥

रुद्रसरे निमज्जंति कोटितीर्थं तथोच्यते

॥९॥

नीहारकणिकावृष्टिं गिरौ वर्षंति किन्नराः ॥

हेमंते चैव दृश्यंते तीर्थे पैशाचमोचने

॥१०॥

न हि संख्यां विजानामि तीर्थानां भुवि सत्तम ॥

कियन्ति संति तीर्थानि लिंगानि च तथैव च

॥११॥

तथाऽपि च प्राधान्येन कथयिष्यामि सत्तम ॥

संवत्सरस्य यावंति अहानि च द्विजोत्तम

॥१२॥

तावंति प्रापणीयानि प्रसिद्धानि परंतप ॥

वत्सरे परिपूर्णे च जायतेऽवंतियात्रिका

॥१३॥

विधिवत्कुरुते यस्तु साक्षाच्छंभुर्भवेच्च सः ॥

मन्वंतरसहस्रेषु काशीवासे च यत्फलम्

॥१४॥

तत्फलं जायतेऽवंत्यां वैशाखे पंचभिर्दिनैः ॥

अवंती यात्रा कर्तव्या प्रयत्नेन मुमुक्षुणा

॥१५॥

माधवेऽपि विशेषेण ह्यवंतीस्नानमाचरेत् ॥

यो हि वैशाखमासाद्य अवंत्यां व्यास मानवः

॥१६॥

संवत्सरव्रती स्नातस्तीर्थेतींर्थे यथाविधि ॥

दत्त्वा दानानि सर्वाणि समूलं फलमश्नुते

॥१७॥

भुक्त्वा भोगान्सुविपुलाञ्छिवलोके महीयते

॥१८॥

माहात्म्यमेतच्छिवभक्तिवर्द्धनं यशस्करं पुण्यविवर्द्धनं च ॥

यः श्रावयेद्वा शृणुयाच्च भक्त्या कुलं समुद्धृत्य हरः पदं व्रजेत्

॥१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे ऽवन्तीक्षेत्रमाहात्म्यवर्णनंनामैक सप्ततितमोऽध्यायः ॥ ७१ ॥

छ ॥ इति श्रीस्कांदे महापुराणे पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रथमं सम्पूर्णम् ॥ ( ५-१)