चतुरशीतिलिंगमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनम्
अथ श्रीस्कांदे महापुराणे पञ्चमआवन्त्यखंडे ऽवंतीस्थचतुरशीतिलिङ्गमाहात्म्यं द्वितीयं प्रारभ्यते ॥
(५-२) ॥
श्रीगणेशाय नमः ॥
श्रीमहाकालाय नमः ॥
अथावन्त्यखण्डेऽवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यं प्रारभ्यते ॥
उमोवाच ॥
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा ॥
कथ्यतां तानि यत्नेन श्राद्धं येषु प्रदीयते
॥१॥ईश्वर उवाच
अस्ति लोकेषु विख्याता गंगा त्रिपथगामिनी ॥
सेविता देवगंधर्वैर्मुनिभिश्च निषेविता
॥२॥तपनस्य सुता देवी यमुना लोकपावनी ॥
पितॄणां वल्लभा देवि महापातक हारिणी
॥३॥चन्द्रभागा वितस्ता च नर्मदाऽमरकंटके ॥
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा
॥४॥केदारं पुष्करं चैव तथा कायावरोहणम् ॥
तथा पुण्यतमं देवि महाकालवनं शुभम्
॥५॥यत्रास्ते श्रीमहाकालः पापेंधनहुताशनः ॥
क्षेत्रं योजनपर्यंतं ब्रह्महत्याविनाशनम्
॥६॥भुक्तिदं मुक्तिदं क्षेत्रं कलिकल्मषनाशनम् ॥
प्रलयेऽप्यक्षयं देवि दुष्प्राप्यं त्रिदशैरपि
॥७॥उमोवाच
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर
॥८॥यानि तीर्थानि वंद्यानि यानि लिंगानि संति वै ॥
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे
॥९॥ईश्वर उवाच
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ॥
क्षेत्रमाद्यं महादेवि ममातीव प्रियं सदा
॥१०॥यत्रास्ति च महापुण्या सर्वपापहरा परा ॥
तथा गंधवती पुण्या दिव्या नवनदीप्रिया
॥११॥नीलगंगा चतुर्थी तु श्रेष्ठा नद्यः प्रकीर्तिताः ॥
आसां तु संगमे स्नात्वा श्राद्धं यः कुरुते नरः
॥१२॥गंगायास्त्रिगुणं देवि चतुर्वर्गफलप्रदम् ॥
क्षेत्रं योजनपर्यंतमवंत्या विद्धि सुव्रते
॥१३॥सिद्धलिंगानि तिष्ठंति भुक्तिमुक्तिकराणि च ॥
ईश्वराश्चतुराशीतिस्तथाष्टौ संति भैरवाः
॥१४॥एकादश तथा रुद्रा आदित्या द्वादश स्मृताः ॥
षड्वै विनायकाश्चात्र चतुर्विंशतिमातरः
॥१५॥यदाहं गतवांस्तत्र महाकालवने शुभे ॥
ब्रह्मविष्ण्वादयः सर्वे तत्राजग्मुर्मुदान्विताः
॥१६॥एभिर्व्याप्तं क्षेत्रमिदं देवि योजनमायतम् ॥
दश स्थानगतो विष्णुः सर्वपापप्रणाशनः
॥१७॥एतन्नामानि योऽधीते प्रभाते भक्तितः पुमान् ॥
विमुक्तः सर्वपापैस्तु रुद्रलोकं स गच्छति
॥१६॥उमोवाच
चतुराशीतिलिंगानि त्वयोक्तानीह यानि तु ॥
तानि विस्तरतो ब्रूहि सर्वपापहराणि तु
॥१९॥हर उवाच
शृणु देवि प्रवक्ष्यामि तेषां नामानि यानि च ॥
ख्यातं पृथिव्यां प्रथममगस्त्येश्वरमुत्तमम् ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत्
॥२०॥उमोवाच
अगस्त्येश्वरनामेह कथं लब्धमनेन वै ॥
कस्मिन्स्थाने कथं जातं विस्तराद्वक्तुमर्हसि
॥२१॥हर उवाच
शृणु देवि महाभागे कथामस्य पुरातनीम् ॥
सर्वपापप्रशमनीं समीहितफलप्रदाम्
॥२२॥पुराऽसुरैर्जिता देवा निरुत्साहाश्च ते ततः ॥
भागाश्चैषां हृताः सर्वे निराशाः पितरः कृता ॥
भ्रष्टैश्वर्य्यास्तदा देवि चेरुर्देवा महीतले
॥२३॥ततः कदाचित्ते दीना दीप्तमादित्यवर्चसम् ॥
ददृशुस्तेजसायुक्तमगस्त्यं विपुलव्रतम्
॥२४॥अभिवाद्य ततो देवा दृष्ट्वा तं तेजसा वृतम् ॥
इदमूचुर्महात्मानमगस्त्यं लोकविश्रुतम्
॥२५॥दानवैर्निर्जिता युद्धे सर्वे स्वर्गाच्च पातिताः ॥
ततस्त्वं नो भयात्तीव्रात्त्रायस्व मुनिपुंगव
॥२६॥इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् ॥
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये
॥२७॥तदा दीप्तांशुजालेन निर्दग्धा दानवास्तथा ॥
अंतरिक्षान्महादेवि पतिताश्च सहस्रशः
॥२८॥दह्यमानास्ततो दैत्या स्तस्यागस्त्यस्य तेजसा ॥
ऋषेश्च दानवाः सर्वे पातालं वव्रजुर्भयात्
॥२९॥ततो ऽगस्त्यो महात्मा वै तान्हत्वा शोकमूर्छितः ॥
बभूवातिशयं चासौ चिंतयोद्विग्नमानसः
॥३०॥कृतं घोरं महत्पापं हता यद्दानवा मया ॥
अहिंसा परमो धर्मो मनुना कथ्यते यतः ॥
किं करोमि क्व गच्छामि कथं शुध्येय चाप्यहम्
॥३१॥एवं चिंतयतस्तस्य समागच्छत्पितामहः ॥
प्रोवाच स मुनिं तत्र कस्मात्त्वं शोकविह्वलः
॥३२॥लक्ष्यसे मुनिशार्दूल कारणं कथ्यतां त्वरम् ॥
स ब्रह्माणं नमस्कृत्य कथयामास पृच्छतः
॥३३॥देवदेव जगन्नाथ दाहोंतर्मानसं मम ॥
ब्रह्महत्या समायाता यन्मया दानवा हताः
॥३४॥ममोपायं समाचक्ष्व प्रसादत्सुरसत्तम ॥
बहुकालार्जितं देव गतं मे संक्षयं तपः
॥३५॥प्रोवाचेदं सुरश्रेष्ठः शृणु त्वं यत्नतः परम् ॥
उपायं सर्वपापस्य क्षयो येन भवेद्ध्रुवम्
॥३६॥महाकालवने दिव्ये यक्षगंधर्वसेविते ॥
उत्तरे वटयक्षिण्या यत्तल्लिंगमनुत्तमम्
॥३७॥पिशाचस्यापि तीर्थस्य भागे दक्षिणतः स्थितम् ॥
तं समाराध्यतः सर्वं पापं नाशमवाप्नुयात्
॥३८॥आराधय शुभं लिंगं सर्वपापप्रणा शनम् ॥
बाढं प्रोवाच धर्मात्मा महाकालवनं ययौ
॥३९॥तस्मिन्स लिंगे देवेशि समाराधनतत्परः ॥
बभूवाहर्निशं भक्त्या तद्ध्यानैकरतो मुनिः
॥४०॥अहं तुष्टस्तदा देवि मुनेस्तस्य महात्मनः
॥४१॥प्रोक्तं मया महाभाग मुने शृणु समाहितः ॥
वरं वरय विप्रेंद्र यत्ते मनसि वर्त्तते
॥४२॥तुष्टोऽहमनया भक्त्या तपसा दुष्करेण तु ॥
लिंगस्यास्य प्रभावेण जातस्त्वं निर्मलोऽधुना
॥४३॥प्रणष्टा ब्रह्महत्या ते दानवोत्था मुनीश्वर ॥
मदीयं वचनं श्रुत्वा तेनोक्तं वरवर्णिनि
॥४४॥यदि देव प्रसन्नस्त्वं शरणागतवत्सलः ॥
त्वदंघ्रियुगले भूयान्मम भक्तिर्महेश्वर
॥४५॥तपस्यथ तथा धर्मे न मे विघ्नो भवेदिति ॥
तस्य तद्वचनं श्रुत्वा कुंभयोनेर्महात्मनः ॥
मया प्रोक्तं विशालाक्षि मुने एवं भविष्यति
॥४६॥यस्त्वया पूजितो देवो ब्रह्महत्याविनाशनः ॥
त्वन्नाम्ना त्रिषु लोकेषु सोऽहं ख्यातो भविष्यति
॥४७॥अगस्त्येश्वरदेवोपि विख्यातो भुवनत्रये ॥
एवमुक्तो मया देवि स विप्रस्तत्र संस्थितः ॥
कृपया तस्य लिंगस्य पंचमुद्राविभूषितः
॥४८॥ये नरास्तन्महालिंगं निरीक्षिष्यंति भक्तितः ॥
सर्वपापविनिर्मुक्ताः सर्वकामैरलंकृताः
॥४९॥भविष्यंति महात्मानः पुत्रैश्वर्यसमन्विताः ॥
अंतकाले च मां यांति विमानैः सर्वकामदैः
॥५०॥स्तुता गंधर्वमुख्यैश्च रुद्रलोके च शाश्वते ॥
येऽर्चयंति सदा देवमगस्त्वेश्वरसंज्ञकम्
॥५१॥कृतपुण्या नरा मर्त्त्यास्ते यांति परमं पदम् ॥
संस्मृते देवदे वेशे नराणां कोटिजन्मजम्
॥५२॥अशुभं क्षयमाप्नोति कस्तं न प्रणमेच्छिवम् ॥
यः प्रणम्य नरो भक्त्या देवं तं च निषेवते
॥५३॥मुच्यते ब्रह्महत्यादिपा तकैर्नरकप्रदैः
॥५४॥राजसूयशतेनैव यत्पुण्यं च भविष्यति ॥
तत्पुण्यमधिकं देवि दर्शनाच्च भविष्यति
॥५५॥किं तीर्थैर्विविधैः स्नानैः किं दानैर्विविधैः कृतैः ॥
ते प्राप्स्यंति फलं सर्वे मत्प्रसादान्न संशयः
॥५६॥अष्टम्यां च चतुर्द्दश्यां दिने सोमस्य शक्तितः ॥
यः करिष्यति लिंगस्य पूजा भक्तिसमन्वितः ॥
कुलानां तारयत्येव मातृकं पितृकं शतम्
॥५७॥ये च पश्यंति पुरुषा भावहीनाः प्रसंगतः ॥
न ते पश्यंति संसारे नरकं वै कदा चन
॥५८॥एतत्ते कथितं देवि लिंगमहात्म्यमुत्तमम् ॥
प्रथमं कथितं लोके द्वितीयं शृणु यत्नतः
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥