मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय २९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 29

एकोनत्रिंशतं विद्धि देवं रामेश्वरं प्रिये

श्रीहर उवाच

एकोनत्रिंशतं विद्धि देवं रामेश्वरं प्रिये ॥

यस्य दर्शनमात्रेण मुच्यते ब्रह्महत्यया

॥१॥

पुरा त्रेतायुगे देवि रामः शस्त्रभृतां वरः ॥

शूरः सर्वगुणोपेतः पितृभक्तो बभूव ह

॥२॥

रेणुकागर्भसंभूतः स्वयं रामो बभूव ह ॥

विष्णुरेवावतीर्णोऽसौ भृगोः शापात्सुदुस्तरात्

॥३॥

स कदाचिन्नियुक्तोऽसौ मुनिना जमदग्निना ॥

शिरश्छिन्धीत्युवाचेदं मातुस्ते विपुलं सुत

॥४॥

स पितुर्वचनं श्रुत्वा भ्रातॄणां मातुरेव च ॥

शिरांसि चिच्छिदे रामो जमदग्निर्वरं ददौ

॥५॥

सर्वेषां पृथिवीशानां त्वमजेयो भविष्यसि ॥

सर्वक्षयकरो भावी न चिरादेव भार्गव

॥६॥

गृहाण परशुं पुत्र वह्निज्वालोद्भवं दृढम् ॥

अनेन शितशस्त्रेण ततः ख्यातो भवि ष्यति

॥७॥

अथ केनापि कालेन कार्त्तवीर्यार्जुनो नृपः ॥

हैहयानां कुले जातः सहस्रबाहुविश्रुतः

॥८॥

जघान जमदग्निं तु कामधेनुकृते कुधीः ॥

पितरं निहतं दृष्ट्वा रामः कुद्धोऽब्रवीदिदम्

॥९॥

अथ पश्यंतु मे वीर्यं त्रयो लोकाः सनातनम् ॥

स च पश्यतु दुर्बुद्धिर्ब्रह्महा कृतवीर्यजः

॥१०॥

मत्पिता निहतो येन सत्कर्मनिरतः सदा ॥

तस्य बाहुसहस्रं तु छेत्स्यामीह न संशयः

॥११॥

इत्युक्त्वा क्रोधरक्ताक्षः कार्त्तवी र्यार्जुनं भुवि ॥

धर्षयित्वा यथाकामं क्रोशमानं पुनःपुनः

॥१२॥

कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनंदनः ॥

परश्वधेन तीक्ष्णेन ज्ञातिभिः सहितं तदा

॥१३॥

रथस्थं पातयामास जघान नृपतिं प्रिये ॥

त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता

॥१४॥

कृत्वा निःक्षत्रियां चैव भार्गवः स महाबलः ॥

सर्वपापविनाशाय वाजिमेधेन चेष्टवान्

॥१५॥

तस्मिन्यज्ञे महादाने दक्षिणां भृगुनंदनः ॥

मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्

॥१६॥

वारुणांस्तुरगाञ्छुभ्रान्रथं च रथिनां वरः ॥

हिरण्यमक्षयं धेनूर्गजेंद्राश्च महामतिः

॥१७॥

तदा तस्मिन्महायज्ञे वाजिमेधे महायशाः ॥

तथापि न गता हत्या ह्यनेकप्राणिसंभवा

॥१८॥

एवं किल पुराणेषु सर्वागमभिदादिषु ॥

विश्वस्तघातिनां चैव निष्कृतिः श्रूयते यथा

॥१९॥

अश्वमेधेन यज्ञेन ब्रह्महत्या विनश्यति ॥

अथवा द्वादशाब्देन यद्येकाऽऽस्या कृता भुवि

॥२०॥

मया पुनर्नृशंसेन बहवः प्राणिनो हताः ॥

विश्वस्ताश्च प्रमत्ताश्च गर्भस्थाश्च पुनःपुनः

॥२१॥

स्त्रियो वृद्धाश्च बालाश्च माता चैव विशेषतः ॥

इति दुःखान्वितो रामो विषादं परमं गतः

॥२२॥

चिंतयित्वा मुहूर्तं तु गतो रैवतकं गिरिम् ॥

तथा तपो ऽतपद्धोरं बहून्वर्षगणान्प्रिये

॥२३॥

तथापि न गता हत्या ह्यनेकप्राणिसंभवा ॥

अथ रामो जगामाथ महेन्द्रे मलये तथा

॥२४॥

सह्ये हिमालये रम्ये पुण्ये बदरिकाश्रमे ॥

चरित्वा पर्वतान्सर्वान्स्नानार्थं नर्मदां ययौ

॥२५॥

यमुनां चंद्रभागां च गंगां त्रिपथगामिनीम् ॥

इरावतीं वितस्तां च परां चर्मण्वतीं शुभाम्

॥२६॥

विशालां कपिलां दुर्गां गंभीरां गोमतीं शिवाम् ॥

गोदावरीं दशार्णां च पुण्यां भीमरथीं तथा

॥२७॥

गयां चैव कुरुक्षेत्रं नैमिषं पुष्करं तथा ॥

अट्टहासं प्रभासं च केदारममरेश्वरम्

॥२८॥

कृतयात्रोऽपि दुःखार्त्तश्चिंतयामास भार्गवः ॥

न नूनं तीर्थमाहात्म्यं दृश्यते भुवि सांप्रतम्

॥२९॥

न गता ब्रह्महत्या मे कृतो धर्मो निरर्थकः ॥

मिथ्या तत्कथ्यते शास्त्रे तीर्थदानादिभिः शुभैः ॥

यदि स्यात्सत्यमेतच्च नष्टं जातं कथं मम

॥३०॥

एतस्मिन्नेव काले तु नारदो मुनिपुंगवः ॥

आजगाम तमुद्देशं यत्र रामो व्यवस्थितः

॥३१॥

विषण्णवदनो दीनश्चिंतयानः पुनःपुनः ॥

दृष्ट्वा तथाविधो रामः प्रत्युवाचाथ नारदम्

॥३२॥

भोभो नारद देवर्षे शृणु मे परमं वचः ॥

जननी निहता पूर्वं पितुर्वाक्याहिजोत्तम

॥३३॥

पितुः पराभवाद्भूमौ भृमिपाला मया हताः ॥

गर्भा विदारिताः स्त्रीणां बाला वृद्धाश्च योषितः

॥३४॥

निरंतरा हता लोका विशोकेनादयालुना ॥

पश्चाद्धृणा समुत्पन्ना परलोकं ममेक्षतः

॥३५॥

यज्ञः कृतोऽश्वमेधश्च दत्तं दानमनेकधा ॥

स्नातोहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च

॥३६॥

पर्वतेषु तपस्तप्तं हुतं जप्तं निरंतरम् ॥

ब्रह्महत्याविनाशार्थंं किं किं नात्र मया कृतम्

॥३७॥

परं नैव गता हत्या तस्मात्सर्वं निरर्थकम्

॥३८॥

इति तस्य वचः श्रुत्वा नारदो भगवानृषिः ॥

प्रत्युवाच हितं सत्यं चिरं ध्यात्वा वचस्तदा ॥

भोभो राम किमात्मानं न स्मरस्यधुना हरिम्

॥३९॥

त्वयैव कथितं पूर्वं ब्रह्महत्याविनाशनम् ॥

महाकालवने क्षेत्रे क्षेत्राणामुत्तमं परम् ॥

तस्मिन्क्षेत्रे महालिंगं ब्रह्महत्याविनाशनम्

॥४०॥

जटेश्वरो महाभाग विद्यते सर्वसिद्धिदम् ॥

कृतावतार राम त्वं तत्र गच्छाविलंबितम ॥

नारदस्य वचः श्रुत्वा स्मृत्वा क्षेत्रमनुत्तमम्

॥४१॥

जगाम त्वरितं देवि महाकालवने ततः ॥

लिंगमाराधयामास ततो हत्या गता क्षयम् ॥

लिंगमध्यादहं देवि प्रसन्नो निर्गतस्तदा

॥४२॥

जामदग्न्यो मया प्रोक्तः कांतकामं ददाम्यहम् ॥

स प्रोवाच ततो रामो भक्तिनम्रात्मकंधरः

॥४३॥

त्वत्पादपंकजे भूयाद्भक्तिर्मे विपुला सदा ॥

वरमेतं प्रयच्छाद्य यदि तुष्टो महेश्वर

॥४४॥

इत्युक्तोऽहं तदा तेन यथा तुष्टेन पार्वति ॥

तस्मै दत्ता मयाभीष्टा वरा कीर्त्तिकरा स्थितिः

॥४५॥

अद्यप्रभृति ते नाम्ना देवः ख्यातो भविष्यति ॥

तदा रामेश्वर इति त्रिषु लोकेषु गीयते

॥४६॥

भक्त्या ये पूजयिष्यंति देवं रामेश्वरं परम् ॥

आजन्मप्रभवं पापं तेषां न३यति तत्क्षणात्

॥४७॥

स एव पुण्यवान्पूज्य इह लोके परत्र च ॥

यः पश्यति नरो भक्त्या देवं रामेश्वरं शिवम्

॥४८॥

येऽनुमोदंति देवस्य दर्शनं यजनं तथा ॥

तेऽपि पापविनिर्मुक्ताः प्रयांति मम मंदिरम्

॥४९॥

यच्चापि पातकं घोरं ब्रह्महत्यासहस्रकम् ॥

तत्पापं विलयं याति रामेश्वरसमर्चनात्

॥५०॥

दुष्प्राप्यं यत्फलं विप्रैर्वाजपेयादिभिर्मखैः ॥

प्राप्यते तत्सुखेनैव श्रीरामेश्वरदर्शनात्

॥५१॥

ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे ॥

गतिरभ्यधिका तेभ्यो दृष्ट्वा रामेश्वरं शिवम्

॥५२॥

जितास्तेन सदा लोका रामेणेव जगत्त्रयम् ॥

दृष्टं येन सदा भक्त्या लिंगं रामेश्वरं शिवम्

॥५३॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

रामेश्वरस्य देवस्य शृणु त्वं च्यवनेश्वरम्

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डे चतुरशीतिलिंगमाहात्म्ये रामेश्वरमाहात्म्यवर्णनं नामैकोनत्रिंशोध्यायः ॥ २९ ॥