मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 6

स्वर्णज्वालेश्वरमाहात्म्यवर्णनम्

श्रीमहादेव उवाच

स्वर्णज्वालेश्वरं षष्ठं विद्धि चात्र यशस्विनि ॥

यस्य दर्शनमात्रेण धनवानिह जायते

॥१॥

पुरा सार्द्धं त्वया देवि क्रीडतो मम मंदिरे ॥

जातं वर्षशतं दिव्यं सुरतैकरसस्य च

॥२॥

देवैः सर्वैस्ततो वह्निः प्रेरितो मम संनिधौ ॥

ततो वह्निः समायातस्त्रैलोक्यार्थे यशस्विनि

॥३॥

ततो वह्निमुखे क्षिप्तं वीर्यं स्वं क्रीडता मया ॥

दह्यमानस्तदा तेन गंगां वह्निर्जगाम ह

॥४॥

तत्र गत्वा प्रचिक्षेप वीर्यमग्निः सुदुर्द्धरम् ॥

तथापि दह्यते वह्निर्वीर्यशेषेण पार्वति

॥५॥

जातं रम्यं ततो दिव्यं वीर्यशेषेण कांचनम् ॥

ज्वलंतं चातितापेन दुःसहं दुर्द्धरं प्रिये

॥६॥

अग्नेरपत्यं प्रथमं दृष्ट्वोत्पन्नं तु पार्वति ॥

लोभाभिभूता असुराः सुरा गन्धर्वकिन्नराः

॥७॥

यक्षाः साध्याः पिशाचाश्च मनुष्या राक्षसाः खगाः ॥

अभ्यधावन्सुसंरब्धास्ते सुवर्णजिघृक्षवः

॥८॥

सुवर्णार्थे महान्नादो ममेदमिति जल्पताम् ॥

अज्ञानात्संगरश्चैव संजातः प्राणहारकः

॥९॥

अथावरणमुख्यानि नानाप्रहरणानि च ॥

प्रगृह्याभ्यनदन्नादैर्देवैः सार्द्धं यशस्विनि

॥१०॥

असुरा असुरैः सार्द्धं मनुष्या मानुषैः सह ॥

गन्धर्वाः सह गन्धर्वैः किंनरैः सह किंनराः

॥११॥

भूतैः सार्द्धं च भूतानि राक्षसैः सह राक्षसाः ॥

वेतालैः सह वेताला युद्धं चक्रुः सुदारुणम्

॥१२॥

पुत्रस्तु पितरं द्वेष्टि पिता पुत्रं तथैव च ॥

हंति भार्या स्वभर्तारं भर्ता च स्वां प्रियां तथा

॥१३॥

मातरं स्वसुतो हंति माता पुत्रं हिनस्ति च ॥

ततो वैरविनिर्बंधः संजातः स्वर्णकारणात्

॥१४॥

सुराणामसुराणां च सर्वं घोरतरं महत् ॥

प्रासाश्च विपुलास्तीक्ष्णा न्यपतंत सहस्रशः ॥

तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च

॥१५॥

सुवर्णार्थे महादेवि वमंतो रुधिरं बहु

॥१६॥

असिशक्तिगदाऋष्ट्यो निपेतुर्धरणीतले ॥

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः

॥१७॥

रुधिरेणावलिप्तांगा निहताश्च परस्परम् ॥

अद्रीणामिव कूटानि धातुयुक्तानि शेरते

॥१८॥

हाहाकारः समभवद्भयकृच्च सहस्रशः ॥

अन्योन्यं छिंदतां शस्त्रैः सुवर्णस्य च कारणात्

॥१९॥

परिघैरायसैः पाशैर्वज्रकल्पैश्च मुष्टिभिः ॥

निघ्नतां समरे ऽन्योन्यं शब्दो दिवमिवास्पृशत्

॥२०॥

छिंधिभिंधि प्रधाव त्वं पातयाधिसरेति च ॥

अश्रूयन्त महाघोराः शब्दास्तत्र समंततः

॥२१॥

एवं तु तुमुले युद्धे वर्त्तमाने महाभये ॥

कंपिता धरणी देवि देवास्त्रस्ताः सवासवाः

॥२२॥

क्षुभ्यंति स्म समुद्राश्च चेलुश्च धरणीधराः ॥

तस्यार्थे पीडितं सर्वं सदेवासुरमानुषम्

॥२३॥

ऋषयो वालखिल्याद्या देवाः शक्रपुरोगमाः ॥

बृहस्पतिं पुरस्कृत्य ब्रह्मलोकं गताः स्त्रियः

॥२४॥

सोच्छ्वासा कथयामासुर्जर्जरीकृतमस्तकाः ॥

वृत्तांतं विस्तरात्सर्वं लोकत्रयविनाशनम्

॥२५॥

तच्छ्रुत्वा वचनं तेषां ब्रह्मा लोकपितामहः ॥

चिंतयित्वा च तैः सार्द्धमाजगाम ममांतिकम्

॥२६॥

मया पृष्टास्तु ते सर्वे केनैते जर्जरीकृताः ॥

शस्त्रास्त्रैः पीडिताः केन कस्माद्वो भयमागतम्

॥२७॥

कश्चासौ दानवो दुष्टो येन वै पीडिता भृशम् ॥

तत्सर्वं कथितं देवि ममाग्रे भयविह्वलैः

॥२८॥

ते मामूचुस्तदा देवा ब्रह्माद्या भयकारणम्

॥२९॥

लोभात्सर्वे विनष्टाः स्म सुवर्णस्य च कारणात् ॥

पीडितं च जगत्सर्वं सदेवासुरमानुषम्

॥३०॥

इति तेषां वचः श्रुत्वा मया ज्ञातं वरानने ॥

तस्यार्थे कलहो घोरः संजातो हि परस्परम्

॥३१॥

लोकत्रयविनाशश्च सहसा येन वै कृतः ॥

यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघात कम्

॥३२॥

ब्रह्महा वह्निपुत्रस्तु यमुद्दिश्य मृतो जनः ॥

शरीरं शबलं चैव सविकारं भविष्यति

॥३३॥

धातवो हि भविष्यंति तस्य देहे न संशयः ॥

लक्ष्यते दुःखमतुलं छेददाहादिघर्षणम्

॥३४॥

एतस्मिन्नंतरे वह्निर्दृष्ट्वा पुत्रस्य चेष्टितम् ॥

ज्ञात्वा क्रोधं मदीयं तु भीतो वै पुत्रकार णात्

॥३५॥

आजगाम सुवर्णेन सार्द्धं देवि ममांतिकम् ॥

प्रसादितोऽहं पुत्रार्थे वह्निना हि वरानने

॥३६॥

रक्षणीयस्त्वया देव पुत्रोयं तव शंकर ॥

भाण्डागारे स्वकीये तु क्रियतां परमेश्वर

॥३७॥

त्वयि तुष्टे महादेव प्राप्योऽयं नात्र संशयः ॥

इच्छया दीयतां देवि यस्य कस्य जनस्य च

॥३८॥

इति तस्य वचः श्रुत्वा पितृदेवमुखस्य च ॥

तथेति च प्रतिज्ञातं मया लोभाद्यशस्विनि ॥

स्नेहान्मया वह्निपुत्र उत्संगे च कृतस्तदा ॥

स्नेहाद्वै चुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः

॥४०॥

ददामि ते महाभाग वरं वरय शोभनम् ॥

परितुष्टोऽस्मि वै कामं यथेष्टं समवाप्नुहि

॥४१॥

अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ॥

ममाभीष्टकरं स्थानं विद्यते पृथिवीतले

॥४२॥

अक्षयं प्रलये पुत्र महाकालवनं शुभम् ॥

तत्रैव विद्यते लिंगं कर्कोटकस्य दक्षिणे

॥४३॥

महापापहरं पुत्र दर्शनाद्दीप्तिदायकम् ॥

तस्य दर्शनमात्रेण कृतकृत्यो भविष्यसि

॥४४॥

पुण्यश्चैव पवित्रेण दुर्लभश्च भविष्यति ॥

अकुलीनः कुलीनस्तु समलो निर्मलो नरः

॥४५॥

विरूपो रूपवांश्चैव त्वत्प्रसादाद्भविष्यति ॥

दानानि परिपूर्णानि व्रतानि नियमास्तथा

॥४६॥

यज्ञाश्चैवोपवासाश्च तीर्थं पिंडादिकं त्वया ॥

सुसंपूर्णा भविष्यंति तव दानेन सुव्रत

॥४७॥

सर्वेषां चैव रत्नानामाधिपत्यं करिष्यसि ॥

प्रियाभीष्टो हि देवानां लोकानां च भविष्यसि

॥४८॥

इत्युक्तोऽसौ महादेवि दिव्यरूपो वरानने ॥

ज्वालामाला वृतः पुण्यो निर्मलो हि बभूव ह

॥४९॥

लिंगेनोक्तः सुवर्णस्तु दिष्ट्यादिष्ट्येति कांचनम् ॥

अद्यप्रभृति नाम्ना वै ख्यातिं यास्यसि भूतले

॥५०॥

स्थातव्यं मत्समीपे तु वह्निपुत्र त्वया सदा ॥

अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये

॥५१॥

इत्युक्तो देवि लिंगेन वह्निपुत्रोऽतिनिर्मलः ॥

ज्वालावृततनुर्जातः सूर्यकोटिसमप्रभः

॥५२॥

दीप्तिर्लब्धा सुवर्णेन ज्वालामालाकुला तदा ॥

अतो देवि सुविख्यातः स्वर्णज्वालेश्वरः शिवः

॥५३॥

यस्तमर्चयते भक्त्या स्वर्णज्वालेश्वरं शिवम् ॥

तस्य संजायते देवि विजयो राज्यमूर्जितम् ॥

ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम्

॥५४॥

ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ॥

तत्क्षालयति देहोत्थं दर्शनान्नात्र संशयः

॥५५॥

यत्फलं पिंडदानेन गयायां लभते नरः ॥

तत्फलं द्विगुणं प्रोक्तं पूजया नात्र संशयः

॥५६॥

गायत्र्याः शतसाहस्रैः सम्यग्जप्तैश्च यत्फलम् ॥

तत्फलं समवाप्नोति स्वर्णज्वालेश्वरस्तुतेः

॥५७॥

यत्पुण्यं सर्वदानेन दत्तेन विधिपूर्वकम् ॥

तत्फलं समवाप्नोति कीर्तनान्नात्र संशयः

॥५८॥

पूजयंति चतुर्दश्यां स्वर्णज्वालेश्वरं तु ये ॥

पूज्यंते ते सदा लक्ष्म्या पूरयंत्या मनोरथान्

॥५९॥

रक्षितं त्रिदशैर्देवि गणैर्नानाविधैस्तथा ॥

लिंगं कश्चिन्न जानाति मम मायाविमोहितः

॥६०॥

मम प्रसादात्तद्देवि दृश्यते लिंगमुत्तमम् ॥

एतत्ते कथितं सम्यगन्यच्छृणु वरानने

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्वर्णज्वालेश्वरमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥