मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ७०

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 70

दुर्द्धर्षेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

शृणु सप्ततिकं देवं दुर्द्धरेश्वरमीश्वरम् ॥

यस्य दर्शनतो देवि नरः पापैः प्रमुच्यते

॥१॥

दुर्द्धर्षोनाम राजाभून्नेपालविषये पुरा ॥

पुण्यकेतुर्यशस्वी च सत्यसंधो दृढव्रतः

॥२॥

तिस्रस्तस्याभवन्भार्यास्तत्तुल्याः सुमनोहराः ॥

विहरन्त वनोद्याने वसन्ते पृथिवीपतिः

॥३॥

कदा मृगरसाविष्टो देवाद्वै वातरंहसा ॥

तुरगेणोहितः प्राप वनं रुचिरपादपम्

॥४॥

गजेंद्रमृगशार्दूलसिंहसंबरसंकुलम् ॥

ऋक्षवानरवाराहगण्डकादिविराजितम्

॥५॥

तस्मिन्वने सुविस्तीर्णं कदलीखंडमंडितम् ॥

हंसकारंडवाकीर्णं चक्रवाकोपशोभितम्

॥६॥

ददर्श दर्पणस्वच्छं सरो नीरजराजितम् ॥

स्नातसिद्ध वधूवृन्दकुचकुंकुमपिंजरम्

॥७॥

ददर्श कन्यां तत्रैव काननस्येव देवताम् ॥

स तां दृष्ट्वा सुचार्वंगीं मन्मथेन प्रपीडितः

॥८॥

चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः ॥

सा भुजंगीव संकृष्टा मन्त्रेणेवांतिकं ययौ

॥९॥

कन्दर्पकोटिसदृशं विश्रान्तं नृपमब्रवीत् ॥

सुतां मां विद्धि राजेन्द्र कल्पस्य प्राणवल्लभाम्

॥१०॥

तपोरतस्य शांतस्य सर्वदा ब्रह्मचारिणः ॥

मदर्थे प्रार्थ्यतां विप्र स मां तुभ्यं प्रदास्यति

॥११॥

इति तस्या वचः श्रुत्वा मन्मथेनाकुलीकृतः ॥

लज्जां त्यक्त्वा स भूपालो ययाचे विजने च ताम्

॥१२॥

मम प्राणव्ययः सुभ्रूस्त्वां विना समुपस्थितः ॥

कार्याकार्यविचारो हि कस्य जीवितशांतये

॥१३॥

त्यज्यते प्राप्तममृतं यदेतद्बुद्धिलाघवम् ॥

को जानीते परे लोके कस्य किं नु भविष्यति

॥१४॥

भज मामनवद्यांगि तवेतद्वदनामृतम् ॥

न पाययसि चेन्मह्यं मृतं जानीहि मे प्रिये

॥१५॥

स्वयं पिबामि चेद्विद्धि परलोकगतं हि माम् ॥

श्रुत्वेति चकिता तन्वी प्रोवाच विनयान्विता

॥१६॥

भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले ॥

कुलं पतति नः सर्वं तस्मादेतद्विचि न्त्यताम्

॥१७॥

यदि ते परमं प्रेम ममोपरि महीपते ॥

मदर्थे प्रार्थ्यतां विप्र स मां नृनं प्रदास्यति

॥१८॥

तस्यास्तद्वचनं श्रुत्वा नान्यथा मे भविष्यति ॥

ज्ञात्वा कन्यां द्विजस्यैव कल्पस्य ब्रह्मचारिणः

॥१९॥

गत्वा ययाचे प्रणतः स्थितं निजतपोवने ॥

मुनीन्द्रश्चंद्रवदनां स चास्मै तां ददौ मुदा

॥२०॥

तत्रैव संगतो राजा मन्मथेन वशीकृतः ॥

रेमे रमणकैर्योगैर्न सस्मार निजं पुरम्

॥२१॥

कदलीखण्डकुञ्जेषु रम्यासु वनराजिषु ॥

बहुलाम्रकदंबेषु राजा भेजे नवां वधूम् ॥

सिषेवे चारु सुरतं स विदग्धोऽतिमुग्धया

॥२२॥

एवं हि वसतस्तस्य दुर्द्धर्षस्य वरा नने ॥

आजगाम सुदुर्द्धर्षो राक्षसोऽतिभयंकरः

॥२३॥

ज्वलितो विकटाकारो दंष्ट्रोत्कटकटाननः ॥

तं नृपं मोहयित्वा तु तरसा तरलेक्षणाम् ॥

जहार मन्मथाविष्टो रूपयौवनशालिनीम्

॥२४॥

राजा च तां हृतां दृष्ट्वा वियोगविषमूर्छितः ॥

स्मृत्वास्मृत्वा सुचार्वंगीं विललापाकुलेन्द्रियः

॥२५॥

हा प्रिये प्रेमपीयूषे प्रणयामृतदीर्घिके ॥

हा सुन्दरि विशालाक्षि वक्व गता मां विहाय वै

॥२६॥

पुनरिन्दुमिवानंदं कदा द्रक्ष्यामि ते मुखम् ॥

इति प्रलापमकरोत्स्मरंस्तां चारुहासिनीम् ॥

उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः

॥२७॥

एवं विलपतस्तस्य दुर्दर्षस्य नृपस्य तु ॥

आजगाम तमुद्देशं कल्पो ब्राह्मणसत्तमः ॥

ददर्श नृपतिं तत्र भ्रमंतं भ्रमरं यथा

॥२८॥

ज्ञात्वा जामातरं सम्यक्समाश्वास्य वचोऽब्रवीत् ॥

एहि दुर्द्धर्ष राजेन्द्र गहना कर्मणो गतिः ॥

क्व गतो हि महीपाल नेपालविषयस्तव

॥२९॥

कुलीना रूपवत्यश्च तिस्रो भार्याः क्व वै गताः ॥

क्व ते राज्यं गतं भूप कुत्र पुत्री गता मम

॥३०॥

सर्वं विनश्वरं लोके गन्धर्वनगरोपमम् ॥

अनित्यं जीवितं भूप राज्यं वै बुद्बुदोपमम्

॥३१॥

एवमाश्वासितो राजा कल्पेन च पुनःपुनः ॥

सस्मार तां सुचार्वंगी मन्मथेन प्रपीडितः

॥३२॥

ब्रूहि मे भगवन्सम्यग्यदि तेऽस्ति दया मयि ॥

कथं राज्यं स्वकीयं स्यात्कथं मे सुहृदागमः

॥३३॥

तिस्रो भार्याः कथं विप्र पश्यामि पृथिवीतले ॥

लावण्यामृतशालिन्यस्तव पुत्र्या द्विजोत्तम ॥

कथं समागमो भूयो भविष्यति मया सह

॥३४॥

इति तस्य वचः श्रुत्वा विप्रेणोक्तं वरानने ॥

गच्छ भूपाल नेपालं महाकालं ततो व्रज

॥३५॥

तस्मिन्क्षेत्रे तीर्थवरे लिंगं सर्वार्थसाधकम् ॥

विद्यते यत्र सूर्येण तपस्तप्तं सुदुष्करम्

॥३६॥

शिप्रायास्तु तटे रम्ये पुण्ये ब्रह्मेशपश्चिमे ॥

तस्य दर्शनमात्रेण तवाभीष्टं भविष्यति

॥३७॥

कल्पस्य वचनं श्रुत्वा सत्वरो नृपसत्तमः ॥

नेपालं च ततो गत्वा समाश्वास्य सुहृज्जनम्

॥३८॥

सांतःपुरपरीवारो महाकालवनं गतः ॥

सर्वदा सर्वसिद्धीनामाश्रयं विषयं श्रियः

॥३९॥

तत्र स्नात्वा जले पुण्ये शिप्रायाश्चाशुसिद्धिदे ॥

सूर्येणाराधितं लिंगं ददर्श नृपसत्तमः

॥४०॥

पूजयामास रत्नैश्च दिव्यैर्वस्त्रैः सुभूषणैः ॥

कर्पूरेण सुगन्धेन लिंगपूजा कृता तदा

॥४१॥

मुक्ताफलैः सुतारैश्च जलधाराभिरेव च ॥

भक्त्या ननर्त्त तस्याग्रे संस्तुवन्विविधैः स्तवैः

॥४२॥

शुश्राव श्रोत्रपीयूषं गीतं देवगृहे शुभे ॥

तच्छ्रुत्वा कौतुकाविष्टो ध्वनिं श्रुत्वा मनोरमाम् ॥

प्रियामपश्यत्तत्रस्थां लावण्यललनावधिम्

॥४३॥

तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् ॥

क्षिप्रं तद्दर्शनेनैव स्मरेण तरलीकृतः

॥४४॥

ज्ञात्वा मे सैव पत्नीयं दृष्टा देवप्रसादतः ॥

सापि लावण्यनलिनी राजहंसं विलोक्य तम्

॥४५॥

क्षिप्रं पुलिकिता तस्या विरराज कुचस्थली ॥

एतस्मिन्नंतरे देवि वाणी लिंगात्समुत्थिता

॥४६॥

विश्वावसोः सिद्धपतेः सुतैषा प्राणवल्लभा ॥

कल्पेन पालिता सम्यस्त्वदर्थं नृपसत्तम

॥४७॥

आनीता ते मया पत्नी हत्वा तं राक्षसाधि पम् ॥

गृहाण च मया दत्तां भुंक्ष्व राज्यमकण्टकम्

॥४८॥

इत्युक्तोऽसौ गतो देवि लब्ध्वा भार्यां प्रियां तदा ॥

सांतःपुरपरीवारो लिंगस्यास्य प्रभावतः

॥४९॥

आराधितो नरेंद्रेण दुर्द्धर्षेण महात्मना ॥

तदाप्रभृति देवोऽयं दुर्द्धर्षेश्वरसंज्ञकः ॥

त्रिषु लोकेषु विख्यातो वांछितार्थफल प्रदः

॥५०॥

ये पश्यंति विशालाक्षि दुर्द्धर्षेश्वरसंज्ञकम् ॥

ते दुर्द्धर्षा भविष्यंति शत्रूणां समरे सदा

॥५१॥

संक्रांतौ रविवारे च ग्रहणे चंद्र सूर्ययोः ॥

गत्वार्चयंति ये देवि देवं दुर्द्धर्षमीश्वरम् ॥

ते प्रयांति विमानेन मदीयं स्थानमुत्तमम्

॥५२॥

पापाचाराश्च ये जीवा दुष्कर्मनिरता नराः ॥

मुच्यंते पातकात्सद्यो दुर्द्धषेंश्वरदर्शनात्

॥५३॥

दर्शनात्स्पर्शनात्सद्यो नामसंकीर्तनादपि ॥

ब्रह्महत्यासहस्रं हि तत्क्षणादेव नश्यति

॥५४॥

कृतघ्नो निंदको दुष्टः पापकर्मा दुरात्मवान् ॥

परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः ॥

मुच्यते सर्वपापेभ्यो दुर्द्धर्षेश्वरदर्शनात्

॥५५॥

अयने विषुवे चैव संप्राप्ते सोमपर्वणि ॥

ये पश्यंति च दुर्द्धर्षं स्नात्वा शिप्राजले शुभे ॥

गंगायास्त्रिगुणं पुण्यं जायते नात्र संशयः

॥५६॥

तत्र यद्दीयते दानं तस्य संख्या न विद्यते ॥

पितरस्तोषितास्तेन आत्मा वै तोषितस्ततः

॥५७॥

कल्पकोटिसहस्रं तु मत्पुरे पूजितो वसेत् ॥

यदा याति च भूलोके तदासौ भूपतिर्भवेत्

॥५८॥

अधृष्यः शत्रुवर्गेण फलं प्राप्नोति चाक्षयम् ॥

पदं यत्त्रिदशैर्वंद्यं पुनरावृत्तिवर्जितम्

॥५९॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

दुर्द्धर्षेश्वरदेवस्य प्रयागेशमतः शृणु

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे दुर्द्धर्षेश्वरमाहात्म्यवर्णनंनाम सप्ततितमोऽध्यायः ॥ ७० ॥