जल्पेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
षट्षष्टितमकं विद्धि देवं जल्पेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण महापापं शमं व्रजेत्
॥१॥जल्पोनाम महादेवि राजाभूद्भुवि विश्रुतः ॥
सदा जल्परतो नित्यं जल्प वादप्रवर्तकः
॥२॥विकल्पबहुलो नित्यं संसारगतिचिंतकः ॥
सुबाहुप्रमुखाः पंच पुत्रा जाता महाबलाः
॥३॥तस्य राज्ञो वरारोहे मूर्ताः पंचाग्नयो यथा ॥
सुबाहुः शत्रुमर्द्दी च जयो विजय एव च ॥
विक्रांतः पंचमः पुत्रः सर्वे शस्त्रास्त्रपारगाः ॥
पित्रा जल्पेन ते राज्ञा पृथग्राज्ये प्रतिष्ठिताः ॥
पृथक्पुत्रा हि ते सर्वे पृथग्देशाधिपाः कृताः
॥५॥प्राच्यां सुबाहुर्नृपतिर्याम्यां वै शत्रुमर्दनः ॥
पश्चिमायां जयो राजा उत्तरे विजयो नृपः
॥६॥मध्ये विक्रांतसंज्ञस्तु स्वपदे विनियोजितः ॥
व्यवस्थामीदृशीं कृत्वा स्वयमेव वनं ययौ
॥७॥बभूवुर्मंत्रिणस्तेषां हिता वंशक्रमागताः ॥
बुभुजुः स्वस्वराज्यानि मंत्रिभिः सहितास्तदा
॥८॥विक्रांतस्य च यो मंत्री विकल्पैकपरायणः ॥
तेनोक्तं विजने देशे विक्रांतस्य महीभृतः
॥९॥यस्यैषा पृथिवी कृत्स्ना स समर्थः प्रकीर्तितः ॥
उद्यमेन पदं लब्धं वासवेन महात्मना
॥१०॥त्रिदशैश्चामृतं लब्धमुद्यमेन महीपते
॥११॥हीनोद्यमा मानवा ये क्षत्त्रियाश्च विशेषतः ॥
ते हास्यास्पदतां यांति हीनवीर्या दिनेदिने
॥१२॥स्नेहं च कुरुते भ्राता राज्यलुब्धोऽर्थकारणात् ॥
अर्थवीर्येण तेनैव संतोषं कुरुते नृपः ॥
क्रियते न किमर्थं तु भूप मंत्रपरिग्रहः ॥
भुज्यते सकलं राज्यं मया ते मंत्रिणा बलात्
॥१४॥परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः ॥
अहितो देहजो व्याधिर्हितमारण्यमौषधम्
॥१५॥भूमिमेते निर्गिलंति सर्पा बिलशयानिव ॥
राजानमविरोद्धारं ब्राह्मणं चाप्रवासिनम्
॥१६॥मायया मोहितं सर्वं को वा कस्य च बांधवः ॥
उद्यमः क्रियतां तस्माद्भ्रातॄणां निग्रहे द्रुतम्
॥१७॥भ्रातृभिर्भ्रातरः सर्वे निहता राज्यकारणात् ॥
धर्मं च शाश्वतं ज्ञात्वा निहताश्चासुराः सुरैः
॥१८॥इति मंत्रिवचः श्रुत्वा स राजा विस्मयान्वितः ॥
हसित्वा प्रत्युवाचेदं ममायं शत्रुरागतः
॥१९॥विक्रान्त उवाच
वयं च भ्रातरः पंच पृथिवीं कामयामहे ॥
अतुष्टाः पृथगैश्वर्यं कथं कृत्स्ना भविष्यति
॥२०॥ज्येष्ठो भ्राता सुबाहुश्च द्वितीयः शत्रुमर्दनः ॥
जयश्च विजयश्चैव तेषां लघुरहं यतः
॥२१॥मंत्र्युवाच
राज्ये स्थितं पूजयंति ज्येष्ठं पूजार्हणैर्वरैः ॥
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम्
॥२२॥तथेति च प्रतिज्ञाते विक्रांतेन महीभृता ॥
स मंत्री कारयामास अभिचारविधिं तदा
॥२३॥अथर्वणेन मंत्रेण पुरोधाः प्रचकार ह ॥
ज्ञातं पुरोहितैस्तेषां तेऽपि चक्रुः समाहिताः
॥२४॥अथ कृत्या समुत्पन्ना पश्चात्कृत्याचतुष्टयम् ॥
सपुरोहितभृत्यांस्तानग्रसंस्तु समं तदा
॥२५॥ततः समस्तलोकस्य विस्मयश्चाभवन्महान् ॥
यदैक कालं नेशुस्ते पृथक्पुरनिवासिनः
॥२६॥ततः श्रुत्वा च निधनं पुत्राणां जल्पको नृपः ॥
वने वशिष्ठं पप्रच्छ किमेतद्भगवन्प्रभो
॥२७॥तेनापि कथितं सर्वं वशिष्ठेन महात्मना ॥
दिव्यज्ञानेन वृत्तांतं विकल्पं चाकरोन्नृपः
॥२८॥राजोवाच
निमित्तोऽहं विनाशस्य धिग्धि ग्जन्म मदीयकम् ॥
सार्द्धं त्वमात्यपुत्रैश्च मृतं ब्राह्मणपंचकम्
॥२९॥मत्तोऽन्यः कः पापरतो भविष्यति महान्भुवि ॥
यदि जन्म मदीयं स्या न्न च जातु महीतले
॥३०॥ततस्ते न विनश्येयुर्मम पुत्रपुरोहिताः ॥
धिग्राज्यं धिक्च मे जन्म भूभुजां च महाकुले
॥३१॥कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् ॥
कुर्वन्तः स्वामिनस्तेऽर्थं पुत्राणां मम याजकाः ॥
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे
॥३२॥इत्थमुद्विग्नहृदयः स जल्पः पृथिवीपतिः ॥
पप्रच्छ च पुनः प्रह्वो वशिष्ठं ज्ञानिनां वरम्
॥३३॥राजोवाच
भगवन्ब्रूहि मे तीर्थमवियोगकरं सदा ॥
सद्यः पापहरं विप्र लिंगं वा कथय प्रभो
॥३४॥तस्य तद्वचनं श्रुत्वा जल्पस्य पृथिवीपतेः ॥
वशिष्ठः कथयामास दिव्यज्ञानेन पार्वति
॥३५॥गच्छ जल्प ममादेशान्महाकालवनोत्तमम् ॥
कृत्वा निः क्षत्रियां पृथ्वीं यत्र रामस्तपस्यति ॥
तत्र लिंगमनाद्यं च कुक्कुटेश्वरपश्चिमे
॥३६॥तदाराधय राजेंद्र जामदग्न्याश्रमे स्थितः ॥
वशिष्ठस्य वचः श्रुत्वा जल्पोऽसौ पृथिवीपतिः
॥३७॥देवदारुवनं त्यक्त्वा महाकालवनं गतः ॥
ददर्श तत्र तल्लिंगमनाद्यं देवसंस्तुतम् ॥
पूजयामास विधिवत्परमेण समाधिना
॥३८॥तत्र वाणी समुत्पन्ना लिंगमध्याद्वरानने ॥
न त्वं पापसमाचारो न त्वं मरणकारणम् ॥
पुत्राणां नृपविप्राणामदृष्टं तत्र कारणम्
॥३९॥विपाकेन स्वकीयेन गता वैवस्वतं पुरम् ॥
मा शोकं कुरु राजेंद्र गहना कर्मणो गतिः
॥४०॥अनेन शुद्धभावेन तुष्टोऽहं नृपसत्तम ॥
यदभीष्टं वरं ब्रूहि तत्ते दास्यामि नान्यथा
॥४१॥राजोवाच
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
संसारसागरे घोरे मा भवेन्मम जन्म च
॥४२॥अक्षयां देहि मे कीर्त्तिं नाम्ना मे विश्रुतो भुवि ॥
अयं जल्पेश्वरो देवो जल्पेनाराधितो विभुः
॥४३॥वदंतु त्रिदशाः सर्वे एष मे दुर्लभो वरः ॥
ये त्वां पश्यंति मनुजा मन्नाम्ना ख्यातिमागतम् ॥
तेषां वियोगो मा भूयात्पुत्रतो धनतोऽपि वा
॥४४॥न संसारभयं तेषां दस्युतो नैव राजतः ॥
न भूतग्रहरोगेभ्यो भयमस्तु कदाचन
॥४५॥शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥
ते धन्या मानुषे लोके ये त्वां शरणमागताः
॥४६॥सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥
तत्सर्वमधिकं देव लभ्यते तव दर्शनात
॥४७॥तावत्पतंति संसारे घोरे दुःखशताकुले ॥
यावन्न दृश्यते देवः संसारार्णवतारकः
॥४८॥यदा पापक्षयः पुंसां तदा ते दर्शनं भवेत् ॥
महता सुकृतेनैव नाल्पेन तपसा प्रभो
॥४९॥एवं भविष्यतीत्युक्त्वा तेन लिंगेन पार्वति ॥
पश्यतां सर्वदेवानां स्वतनौ संनिवेशितः
॥५०॥तस्मिँल्लिंगे लयं प्राप्ते नृपे जल्पे वरानने ॥
देवो जल्पेश्वरः ख्यातो देवैरुक्तो महीतले ॥
भुक्तिदो मुक्तिदश्चैव सदाभीष्टकरः स्मृतः
॥५१॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
जल्पेश्वरस्य देवस्य शृणु केदारसंज्ञकम्
॥५२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये जल्पेश्वरमाहात्म्यवर्णनंनाम षदषष्टितमोऽध्यायः ॥ ६६ ॥