एकत्रिंशत्तमं विद्धि देवं खंडेश्वरं प्रिये
श्रीमहादेव उवाच
एकत्रिंशत्तमं विद्धि देवं खंडेश्वरं प्रिये ॥
संपूर्णं जायते यस्य दर्शाद्दानव्रतादिकम्
॥१॥आसीत्त्रेतायुगे देवि भद्राश्वोनाम पार्थिवः ॥
यस्य नाम्नाऽभवद्वर्षं भद्राश्वंनाम नामतः
॥२॥तस्यागस्त्यः कदाचित्तु गृहमागम्य सत्तमः ॥
उवाच सप्तरात्रं तु वसामि भवतो गृहे
॥३॥तं राजा शिरसा नत्वा स्वास्यतामित्यभाषत ॥
तस्य कांतिमतीनाम भार्या परमशोभना
॥४॥तस्यास्तेजः समभवद्द्वादशादित्यसंनिभम् ॥
सपत्नीनां शतं तस्या विद्यते वरवर्णिनि
॥५॥ता दास्य इव कर्माणि कुर्वंत्यहरहः सदा ॥
कांतिमत्याः प्रभावेन भयोत्त्र स्ताः सुलोचनाः
॥६॥तामगस्त्यस्तथा दृष्ट्वा तन्मुखासक्तलोचनाम् ॥
एवंभूतां तथा दृष्ट्वा राज्ञीं परमशोभनाम् ॥
साधुसाधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः
॥७॥द्वितीये दिवसेप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् ॥
अहो ह्यंगनया मुष्टं जगदेतच्चराचरम्
॥८॥इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्टेत्युवाच ह ॥
तृतीयेऽह्नि च तां दृष्ट्वा पुनरेवमुवाच ह
॥९॥अहो मूढा न जानंति लिंगमाहात्म्यमुत्तमम् ॥
महाकालवने क्षेत्रे च्यवनेशस्य पूर्वतः
॥१०॥खंडव्रतानि जायंते पूर्णानि दर्शनाद्यदः ॥
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत्
॥११॥साधुसाधु जगन्नाथ साधु भद्राश्व सुव्रत ॥
पंचमे दिवसेऽप्येवं षष्ठे चैव पुनःपुनः
॥१२॥नृत्यंतं सप्तमे दृष्ट्वा दिने पत्न्या समन्वितः ॥
प्रोवाच चैनं राजा स विस्मितेनांतरात्मना ॥
किं हर्षकारणं ब्रह्मन्येन नृत्यसमन्वितः
॥१३॥अगस्त्य उवाच
अहो भूपाल मूढस्त्वं महामूर्खाश्च मंत्रिणः ॥
अहो पुरोहितो मुग्धो ये न जानंति मे मतम्
॥१४॥ईदृशा अपि जायंते राजानो यस्य दर्शनात् ॥
एवमुक्तस्ततो राजा कृतांजलिरभाषत
॥१५॥न जानीमो वयं ब्रह्मन्नभिप्रायं तवाधुना ॥
कथयस्व महाभाग यद्यनुग्रहकृद्भवान्
॥१६॥अगस्त्य उवाच
इयं राज्ञी त्वदीयाभूद्दासी वैश्यस्य वैदिशे ॥
नगरे हरिदत्तस्य त्वमस्याः पतिरेव च ॥
खंडव्रतप्रभावेन जातः कर्मकरो भवान्
॥१७॥स च वैश्यो महाकाले गत्वा देवं महेश्वरम् ॥
अर्चयामास विविवद्गंधपुष्पादिभिः शुभैः
॥१८॥अभ्यर्च्य तु गृहं यावद्भवंतौ रक्षपालकौ ॥
ततः कालेन महता मृतौ द्वावपि दंपती
॥१९॥तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ॥
इयं च पत्नी ते जाता पुरा वैश्यप्रदासिका
॥२०॥परकीयप्रसंगेन संजाता भूभिरुत्तमा ॥
राज्यं पत्नी सुता साधुरित्युक्तं वचनं मया
॥२१॥तस्य देवस्य माहात्म्याद्यजंतं विविधैर्मखैः ॥
पश्यामि त्वां महीपाल भूपालशतवेदितम्
॥२२॥अतः साधुपुरा प्रोक्तं मया तव महीपते
॥२३॥इति तस्य वचः श्रुत्वा कुंभयोनेर्महात्मनः ॥
महाकालवने गंतुं मतिं चक्रे महीपतिः ॥
ततः सांतःपुरः प्रायात्तेन सार्द्धं महर्षिणा
॥२४॥अगस्त्यकथितं लिंगं ददर्श श्रद्धया पुनः ॥
पूजयामास विधिवत्पत्न्या सार्द्धं महीपतिः
॥२५॥ततस्तुष्टस्तदा देवो नृपं प्राहामितद्युतिः ॥
मनोऽभीष्टं तपस्तेस्तु भोगमैश्वर्यमेव च
॥२६॥कुलं प्रभावं सौभाग्यं दीर्घमायुररोगिताम् ॥
निःसपत्नं ततो राज्यं कृत्वा स्वर्गमवाप्स्यति
॥२७॥इत्युक्तो देवदेवेन् गतोऽसौ विषयं स्वकम् ॥
निष्कंटकं ततो राज्यं कृत्वा स्वर्गं गतः प्रिये
॥२८॥अनेकजन्मचरितं खंडव्रतकदम्बकम् ॥
संपूर्णमभवद्देवि लिंगस्यास्य प्रभावतः
॥२९॥अतः खण्डेश्वरो देवो विख्यातो भुवनत्रये ॥
ये पश्यंति नरा देवि देवं खण्डेश्वरं शिवम्
॥३०॥खण्डव्रतानि पूर्णानि तेषामाशु भवंति हि ॥
तपःखण्डं व्रते खण्डं दानखंडं च यत्कृ तम् ॥
तत्सर्वं पूर्णतां याति श्रीखंडेश्वरदर्शनात्
॥३१॥दृष्ट्वा खंडेश्वरं देवं पापविघ्नैः प्रमुच्यते ॥
सप्तजन्मकृतैर्देवि मनोवाक्कायकर्मभिः
॥३२॥दृष्ट्वा खण्डेश्वरं देवं कृतकृत्यत्वमाप्यते ॥
तस्य नश्यति दौर्भाग्यं सप्तजन्मोद्भवं प्रिये
॥३३॥खंडेश्वरेऽर्चिते देवे सर्वे देवाः सवासवाः ॥
संतुष्टा वरदाश्चैव भवंति वरवर्णिनि
॥३४॥देवं खंडेश्वरं ये वै यजंति श्रद्धया प्रिये ॥
पुण्यैर्नानाविधैः स्नानैः सुगन्धैश्च विशेषतः
॥३५॥धूप दीपैर्नमस्कारैर्जपैः स्तोत्रैः पृथग्विधैः ॥
ते सर्वे कामसंपन्नाः श्रीमन्तो राज्यसंयुताः
॥३६॥दीर्घायुषः शुभाचारा जायंते देहिनोऽमलाः ॥
अति श्रेष्ठा गतिस्तेषां विशोका नित्यमक्षयाः ॥
खंडेश्वरप्रसादेन जायंते नात्र संशयः
॥३७॥एते च विष्णुब्रह्मेंद्रकुवेरदहनादयः ॥
परां सिद्धिं सुसंप्राप्ताः खंडेश्वरसमर्चनात्
॥३८॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
खंडेश्वरस्य देवस्य शृणु वै पत्तनेश्वरम्
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये खण्डे श्वरमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥