मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 39

अक्रूरेश्वरमेकोनचत्वारिंशत्तमं शृणु

हर उवाच

अक्रूरेश्वरमेकोनचत्वारिंशत्तमं शृणु ॥

यस्य दर्शनमात्रेण सुबुद्धिर्जायते नृणाम्

॥१॥

पुरा त्वयैव कल्पादौ परया शक्तिरूपया ॥

कृतं कृत्स्नं वरारोहे त्रैलोक्यं सचराचरम्

॥२॥

ततस्त्वं संस्तुता देवैः सकिंनरमहोरगैः ॥

प्रदक्षिणां प्रकुर्वति गणा नानाविधास्तु ते

॥३॥

नमस्कारं प्रकुर्वति स्तोत्रं कुर्वंति चापरे ॥

न करोति नमस्कारमेको भृंगिरिटिस्तदा

॥४॥

क्रूरां बुद्धिं समासाद्य गर्वेणतीव गर्वितः

॥५॥

एको देवो महादेवः स्त्रिया किमनया मम ॥

यदा नायाति ते पार्श्वं तदा प्रोक्तस्त्वया गतः

॥६॥

कस्मान्न कुरुषे पूजां प्रदक्षिणमथो स्तुतिम् ॥

मद्भक्तो मदधीनोऽसि मम पुत्रो मया कृतः ॥

इत्थंभूतगणेश त्वं किं वै लौल्येन वर्त्तसे

॥७॥

इति भृंगिरिटिः श्रुत्वा कुद्धस्त्वामाह गर्वितः ॥

नाहं पार्वति ते पुत्रः पुत्रोऽहं शंकरस्य तु

॥८॥

एष एव च मे माता एष एव च मे पिता ॥

एवं रात्रिदिनं यामि शरणं परमेष्ठिनम्

॥९॥

त्वमप्यस्यैव शरणं ननु पार्वति संस्थिता ॥

यदि च त्वामहं वंदे तद्वंदे सकलान्गणान्

॥१०॥

इति भृंगिरिटेः श्रुत्वा वाक्यं कुपितया त्वया ॥

तस्योक्तं प्रमथेशस्य भीरु भृंगिरिटेरिदम्

॥११॥

सुतो भूत्वा भवान्कस्माददाक्षिण्यं ब्रवीषि माम् ॥

त्वङ्मांसशोणितांत्रं च मातृकं तनयस्य तु

॥१२॥

नखदंतास्थिसंघातः शिश्नं वाक्च शिरस्तथा ॥

तथैव शुक्रं गणप पैतृकं तु शरीरकम्

॥१३॥

इति भृंगिरिटिः श्रुत्वा सद्यो योगबलेन तु ॥

मांसादि त्यक्तवान्सर्वं मातृकं भागमेव हि

॥१४॥

ततः प्रभृति वामोरु नखदंतास्थिनासिकः ॥

स च क्रूरां मतिं कृत्वा क्रोधसंरक्तलोचनः

॥१५॥

त्वां परित्यज्य दुःखार्त्त आजगाम ममांतिकम् ॥

अथ त्वया तदा शप्तो गणो भृंगिरिटिः प्रिये

॥१६॥

क्रूरा बुद्धिः कृता यस्मात्त्वया कुमतिना भृशम् ॥

तस्मात्त्वं मानुषे लोके गमिष्यसि न संशयः

॥१७॥

इत्युक्तस्तु त्वया देवि गणो भृंगिरिटिस्तथा ॥

पपात मानुषं लोकं पुण्यांते सुकृती यथा

॥१८॥

स गत्वा पुष्करद्वीपं तपसे भावितात्मवान् ॥

तत्रैकपादूर्द्ध्वभुजो दशपद्मान्यवस्थितः ॥

दग्धीभूतं च तपसा जगद्वै दुष्करेण तु

॥१९॥

ततो ब्रह्मा च विष्णुश्च शक्रश्च त्रिदशैः सह ॥

वयं च चारुजघने तत्समीपं समागतः

॥२०॥

उपगम्य ततस्तस्य कथितं पुरतो मया ॥

अलं क्रूरेण तपसा लोकस्योत्सादनेन वै

॥२१॥

त्रैलोक्यमपि निःसंज्ञं जातमेवं स्थिते त्वयि ॥

संहरस्व तपो घोरं लोकसंतापनं महत्

॥२२॥

प्रार्थ्यतां पार्वती पुत्र सा दास्यति वरं च ते ॥

अस्याः प्रसादान्मुक्तिस्ते शापाच्चैव भविष्यति ॥

एवमुक्तस्तदा तेन प्रार्थिता त्वं महेश्वरि ॥

गणेन भृंगिरिटिना भक्तिनम्रेण सादरात्

॥२४॥

त्वया प्रोक्तं विशालाक्षि पुत्र गच्छ ममाज्ञया ॥

महाकालवने रम्ये तत्राऽक्रूरो भविष्यसि

॥२५॥

पुनः प्राप्स्यसि कैलासं सिद्धगंधर्वसेवितम् ॥

अंकपादाग्रतो लिंगं सप्तकल्पानुगं महत् ॥

यस्य दर्शनमात्रेण शुभा बुद्धिः प्रजायते

॥२६॥

कृतघ्ना नास्तिकाः क्रूरा ये च विश्वासघातकाः ॥

महापातकिनो ये च ये च शापवशं गताः ॥

दर्शनात्तस्य लिंगस्य तेऽपि स्वर्ग भुजो नराः

॥२७॥

क्रूरां बुद्धिं समासाद्य कंसं हत्वा च केशिहा ॥

बलदेवेन सहितस्त्यक्त्वा तां मथुरां पुरीम्

॥२८॥

महाकालवनं गत्वा तोष यित्वा महेश्वरम् ॥

अक्रूरत्वं च संप्राप्तं कीर्त्तिर्लब्धा च शाश्वती

॥२९॥

त्वदीयं वचनं श्रुत्वा गणो भृंगिरिटिस्तदा ॥

तथेति प्रत्ययी जातो महा कालवनं गतः ॥

देवमाराधयामास तपसा दुष्करेण तु

॥३०॥

एतस्मिन्नंतरे देवि लिंगमध्यात्त्वमुत्थिता ॥

अर्द्धांगं मामकं कृत्वा स्वकीयांगमथा र्द्धतः ॥

फणींद्रबद्धजूटार्द्धमर्द्धधमिल्लभूषितम्

॥३१॥

पत्रवल्लीविचित्रार्धमर्द्धचंद्रविराजितम् ॥

मुक्ताहारनिबद्धार्द्धमर्द्धं सर्पैश्च वेष्टितम्

॥३२॥

ततो भृंगिरिटिर्देवि दृष्ट्वा तन्महदद्रुतम् ॥

चिंतयामास हृदये मयाऽज्ञानादनुष्ठितम्

॥३३॥

उमा च शंकरश्चैव देहमेकं सनातनम् ॥

एका मूर्त्तिरनिर्देश्या द्विधा भेदेन दृश्यते

॥३४॥

एवं चिंतयतस्तस्य भक्तिनम्रस्य पार्व्वति ॥

प्रोक्तं त्वया प्रसन्नाहं वरं वरय पुत्रक

॥३५॥

तेनोक्तं यदि तुष्टासि मातर्मम महेश्वरि ॥

अस्य लिंगस्य माहात्म्यात्क्रूरा बुद्धिर्गता मम

॥३६॥

अक्रूरेश्वरनामायं देवः ख्यातो भवत्विति ॥

त्वं देवि सर्वभावानामेका कारणमुच्यते

॥३७॥

त्वं मूर्ता पुण्यनिचया त्वं गतिः पुण्यसेविनाम् ॥

पिता माता सुहृद्बन्धुस्त्वमेका कारणं परम्

॥३८॥

कुरु पुण्यतमं स्थानं ब्रह्महत्यादिनाशनम् ॥

भुक्तिदं मुक्तिदं चैव वांछितार्थप्रदायकम्

॥३९॥

तथेति च त्वया प्रोक्तं गिरा मधुरया तदा ॥

यत्ते प्रियतमं वत्स तत्पूर्वं प्रकरोम्यहम्

॥४०॥

न मेऽस्ति दुष्करं पुत्र त्वत्कृते कनकप्रभ ॥

अस्मिन्स्थाने तु ये देवमकूरेश्वरसंज्ञकम् ॥

प्रसंगादपि पश्यंति अपि पापरता नराः ॥

तेऽप्यवश्यं भविष्यंति त्वत्समा नियतं गणाः

॥४१॥

भक्त्या स्तोष्यंति ये नाम लिंगस्यास्य च मानवाः ॥

मानसैः पातकैर्मुक्ता यास्यंति स्वर्गमक्षयम्

॥४२॥

स्नात्वा तु विधिवत्पूजां यः करिष्यति मानवः ॥

स मुक्तः पातकैः सर्वैः प्राप्स्यते रविमंडलम्

॥४३॥

आयुरारोग्यमैश्वर्यं काममत्र हि वांछितम् ॥

गोसहस्रफलं चात्र स्पृष्ट्वा प्राप्स्यति मानवः

॥४४॥

स्नात्वा मंदाकिनीकुंडे योऽकूरेश्वरमीश्वरम् ॥

पूजयेद्विविधैः पुष्पैर्महापापहतोपि वा

॥४५॥

विमानं दिव्यमारूढो यावत्कल्पचतुष्टयम् ॥

गंधर्वैर्गीयमानस्तु सोऽपि स्वर्गं गमिष्यति

॥४६॥

इत्युक्तः स गणो देवि मत्समीपमुपागतः ॥

शापान्मुक्तस्त्वया सार्धं विस्मृता किं वरानने

॥४७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

अक्रूरेश्वरदेवस्य शृणु कुंडेश्वरं परम्

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽक्रूरेश्वरमाहात्म्यवर्णनंनामै कोनचत्वारिंशोऽध्यायः ॥ ३९ ॥