मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 62

रूपेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

द्विषष्टिकं विजानीहि देवं रूपेश्वरं प्रिये ॥

यस्य दर्शनमात्रेण रूपवाञ्जायते नरः

॥१॥

पाद्मकल्पे महादेवि पद्मोनाम महीपतिः ॥

पद्मगर्भसमुद्भूतो बभूवातिपराक्रमी ॥

पृथिव्याश्चतुरंताया जातो धर्मरतो बली

॥२॥

स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥

वनं जगाम गहनं हयनागशतैर्वृतः

॥३॥

बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥

मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः

॥४॥

तत्र वन्यसहस्राणि हत्वा सबलवाहनः ॥

राजा मृगप्रसंगेन वनमन्यद्विवेश सः

॥९॥

एक एवोत्तमबलः क्षुत्पिपासासमन्वितः।

स वनस्यांतमासाद्य महदारण्यमासदत्

॥६॥

तच्चाप्यतीत्य नृपतिर्ददर्शाश्रममुत्तमम् ॥

मनःप्रह्लादजननं दृष्टिकांतमतीव च

॥७॥

पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥

ततोऽगच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्

॥८॥

नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥

उवाच क इहेत्युच्चैर्वनं संनाद्यन्निव

॥९॥

श्रुत्वाथ तं तथा शब्दं कन्या श्रीरिव रूपिणी ॥

निश्चक्रामाश्रमात्तस्मात्तापसाकारधारिणी

॥१०॥

सा तं दृष्ट्वैव राजानं पद्मगर्भसमुद्भवम् ॥

आसनेनार्चयित्वा च पप्रच्छ नाम तं तदा

॥११॥

उवाच स्मयमानाथ किं कार्यं क्रियतामिति ॥

तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्

॥१२॥

दृष्ट्वा चैवानवद्यांगीं यथावत्प्रतिपूजितः ॥

आगतोऽहं महाभागे मुनिश्रेष्ठमुपासितुम्

॥१३॥

क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ॥

एवमुक्ता तु सा कन्या तेन राज्ञा तदाश्रमे ॥

हसंती प्रत्युवाचेदं वाक्यं समधुराक्षरम्

॥१४॥

कन्याहं पृथिवीपाल कौमारब्रह्मचारिणः ॥

तपस्विनो धृतिमतो धर्मज्ञस्य मनस्विनः

॥१५॥

सुता कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥

कण्वं हि पितरमन्ये पितरं स्वमजानती

॥१६॥

तस्यास्तद्वचनं श्रुत्वा नृपेणोक्तं वरानने ॥

सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे

॥१७॥

भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥

सुवर्णरत्नवासांसि कुंडले परिहारके

॥१८॥

आहरामि तवाद्याहं भार्या मे भव शोभने ॥

गांधर्वेण च मां भीरु विवाहेनैव सुंदरि ॥

विवाहानां च रंभोरु गांधर्वः श्रेष्ठ उच्यते

॥१९॥

नृपस्य वचनं श्रुत्वा कन्या वचनमब्रवीत् ॥

मुहूर्त्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति

॥२०॥

राजोवाच

इच्छामि त्वां वरारोहे भजमानमनिंदिते ॥

तदर्थं मां स्थितं विद्धि त्वया मेऽपहृतं मनः

॥२१॥

आत्मनो बंधुरात्मैव गतिरात्मैव चात्मनः ॥

आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः

॥२२॥

कन्योवाच

यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम ॥

सत्यं मे प्रतिजानीहि दत्तमात्मानमद्य मे

॥२३॥

इति तस्या वचः श्रुत्वा परिणीता नृपेण हि ॥

गांधर्वेण विवाहेन कामासक्तेन पार्वति

॥२४॥

कामिता सा नृपेणेव ततो गंतुं समुद्यतः ॥

एतस्मिन्नंतरे देवि कण्वश्चाश्रममभ्यगात्

॥२५॥

सा कन्या पितरं दृष्ट्वा ह्रिया नोपजगाम तम् ॥

विज्ञायाथ च तां विप्रो दिव्यज्ञानो महातपाः

॥२६॥

उवाच परमं कुद्धस्तां कन्यां काममोहिताम् ॥

त्वयापि दुष्टे रहसि मामवज्ञाय यत्कृतः

॥२७॥

स्वयं स्वयंवरो मोहात्तस्मात्कृष्णा भविष्यसि ॥

कुत्सिता निर्घृणा दीना निर्लज्जा रूपवर्जिता

॥२८॥

अयं ते नृपतिर्भर्त्ता दुष्टरूपो भविष्यति

॥२९॥

इत्युक्ता तत्क्षणाज्जाता सा कन्या रूपवर्जिता ॥

कुरूपो नृपतिर्जातः शापात्तस्य महात्मनः

॥३०॥

अथ प्रसादयामास सा कन्या पितरं तदा ॥

बालानभिज्ञा मूढाहं मन्मथेन प्रपीडिता

॥३१॥

अज्ञानाच्च कृतं पापं तात त्वं क्षंतुमर्हसि ॥

अयं महीपतिस्तात प्रत्यग्लीनो महाव्रतः

॥३२॥

न चाहं प्रार्थिता तेन मयासौ प्रार्थितो नृपः ॥

तस्मादनुग्रहं तात कर्त्तुमर्हसि चावयोः

॥३३॥

इति तस्या वचः श्रुत्वा स विप्रोऽतिकृपान्वितः ॥

उवाच स्वां दुहितरमाश्वास्यैवं पुनःपुनः

॥३४॥

नैव वागनृतं पुत्रि यावदद्य स्मराम्यहम् ॥

दैवमत्र परं मन्ये धिग्बुद्धिं धिक्पराक्रमम्

॥३५॥

अकार्यं कारितो येन बलादहमनिंदिते ॥

उपदेशं प्रदास्यामि तत्त्वं कर्तुमिहार्हसि

॥३६॥

महाकालवने पुण्ये लिंगं रूपप्रदायकम् ॥

पशुपेश्वरपूर्वे तु विद्यतेऽभीष्टदायकम्

॥३७॥

तत्त्वं गच्छ त्वरा युक्ता सह भर्त्रा नृपेण हि ॥

रूपं प्राप्स्यसि दुष्प्राप्यं लिंगदर्शनमात्रतः

॥३८॥

इत्युक्ता सा तदा कन्या सह भर्त्रा गता प्रिये ॥

महाकालवने रम्ये यत्र लिंगमनुत्तमम्

॥३९॥

ददर्श परया भक्त्या स च राजा नरोत्तमः ॥

तत्क्षणाद्दिव्यदेहा सा रूपेणातिमनोहरा ॥

दिव्यवस्त्रपरीधाना दिव्यालंकारभूषिता

॥४०॥

स च राजा तथा जातः कंदर्पसदृशाकृतिः ॥

रूपेणाप्रतिमो लोके तस्य लिंगस्य दर्शनात्

॥४१॥

अतो लोकेषु विख्यातो देवो रूपेश्वरः प्रिये ॥

रूपदो धनदोऽत्यर्थं पुत्रदः स्वर्गदस्तथा

॥४२॥

स च राजा स्वकं प्राप्तो राष्ट्रं सस्यादिसंयुतम् ॥

प्रियया परया सार्धं चक्रे राज्यमकंटकम्

॥४३॥

राज्यं कृत्वा गतः स्वर्गं भार्यया सह पार्वति ॥

देदीप्यमानो वपुषा द्वितीय इव भास्करः

॥४४॥

विमानेन सुदीप्तेन वंद्यमानो दिवालये ॥

दर्शनात्तस्य लिंगस्य प्राप्तः पदमनामयम्

॥४५॥

ये पश्यंति विशालाक्षि देवं रूपेश्वरं शिवम् ॥

न ते रूपेण हीयंते यशसा च कुलेन च

॥४६॥

सदा रूपकरं लिंगं भुक्तिमुक्तिफलप्रदम् ॥

ये पश्यंति वरारोहे तेषां लोकाः सदाऽक्षयाः

॥४७॥

येऽर्चयंति नरा नित्यं देवं रूपेश्वरं परम् ॥

तेऽर्चिता यांति यानेन मम लोकं सनातनम्

॥४८॥

स एव सुकृती लोके कुलं तेनाप्यलंकृतम् ॥

यः पूजयति रूपेशं रूपसौभाग्यदायकम्

॥४९॥

यः पूजयति देवेशं प्रसंगादपि पार्वति ॥

धनवान्रूपवान्सोऽपि राजा भवति भूतले

॥५०॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

रूपेश्वरस्य देवस्य धनुःसाहस्रकं ७ब्

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये रूपेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥