मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५५

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 55

सिंहेश्वरमाहात्म्यवर्णनम्

श्रीईश्वर उवाच

पंचाधिकं विजानीहि पंचाशत्तममीश्वरम् ॥

सिंहेश्वरं वरारोहे महाभयविनाशनम

॥१॥

सद्यःकल्पे त्वया देवि मदर्थं हि महत्तपः ॥

कृतं नीलोत्पलापांगि भीषणं संशितव्रतम् ॥

तपसा तव रौद्रेण दग्धं हि भुवनत्रयम्

॥२॥

दुष्करं हि तपो ज्ञात्वा भगवां श्चतुराननः ॥

आगत्योवाच देवेशो देवि त्वां शुभया गिरा

॥३॥

किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते ॥

विरम्यतामतिक्लेशात्त पसोऽस्मान्ममाज्ञया

॥४॥

त्वया च वचनं श्रुत्वा गुरोर्गौरवगर्भितम् ॥

प्रियं तथ्यं हितं तत्र वर्णनिर्णीतवांछितम्

॥५॥

प्रत्युक्तः स तदा ब्रह्मा प्रणामनम्रया त्वया ॥

तपसा दुष्करेणाप्तः पतित्वे शंकरो मया

॥६॥

स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥

श्यामाहं कांचनाकारा वल्लभेन च संयुता ॥

भर्त्ता भूतपतिर्वश्यः कथं स्यादिति मे तपः

॥७॥

त्वदीयं वचनं श्रुत्वा वरार्हो वरदः प्रभुः ॥

एवं भविष्यतीत्याह ब्रह्मा लोकपितामहः

॥८॥

कियता चैव कालेन वांछासिद्धिर्भविष्यति ॥

गौरीनाम्ना तु ते मूर्त्तिः कांत्या दीप्ता भविष्यति

॥९॥

एतच्छ्रुत्वा त्वया वाक्यं ब्रह्मणः परमेष्ठिनः ॥

क्रुद्धा त्वं गिरिजेऽत्यर्थं कालेऽभीष्टं भविष्यति

॥१०॥

क्रोधात्सिंहः समुद्भूतो वदनात्ते भयावहः ॥

विवृतास्यो महारौद्रो जटाजटिलकंधरः

॥११॥

प्रोद्धूतवल्गुलांगूलो दंष्ट्रोत्कटमुखोत्कटः ॥

तस्यास्ये पतितुं देवि व्यवसायः कृतस्त्वया

॥१२॥

सोऽपि सिंहः क्षुधाविष्टस्त्वां भक्षयितुमुद्यतः ॥

न चैवासौ समर्थोऽभूद्वीक्षितुं वा तपोधिकाम्

॥१३॥

स दह्यमानः सहसा तेजसा तपसा तव ॥

पराङ्मुखः समभवत्प्राणत्राणपरायणः

॥१४॥

ततस्तवाभूत्करुणा सिंहं प्रति यतव्रते ॥

क्षुधितस्य त्वया तस्य क्षीरं ह्यमृतसन्निभम्

॥१५॥

उत्पादितं स्तनाभ्यां तु तस्य सिंहस्य कारणात ॥

तथापि दह्यतेऽत्यर्थं दुष्टभावं यतो गतः

॥१६॥

तेनोक्तं दह्यमानेन मातर्दग्धोस्मि तेजसा ॥

त्वदीयेन दुराचारो दुष्टोहं पापविग्रहः

॥१७॥

त्वामत्तुकामो दुष्टात्मा त्वयाहं जनितोऽधुना ॥

तस्माद्यास्यामि नरकं मातृहा गुरुघातकः

॥८॥

तस्य तद्वचनं श्रुत्वा दुःखितस्य सुतस्य तु ॥

ममत्वेन विशालाक्षि सिंहस्य कथितं त्वया

॥१९॥

अधमं विद्यते क्षेत्रं महाकालवनं सुत ॥

तत्र गच्छ ममादे शाच्छीघ्रं देवविनिमितम्

॥२०॥

कंटेश्वरस्य देवस्य समीपे लिंगमुत्तमम् ॥

सिंहनादात्समुत्पन्नं शंकरस्य महात्मनः

॥२१॥

अंधकासुरयुद्धे वै पीडिते वासवे पुरा ॥

त्वदीयं वचनं श्रुत्वा सिंहस्त्वरितविक्रमः

॥२२॥

गतो महाकालवनं दृष्टो देवोऽथ तत्क्षणात् ॥

दिव्यदेहो मृगारिस्तु जातो लिंगस्य दर्शनात्

॥२३॥

ममत्वात्तस्य लिंगस्य त्वं गता तत्र पार्वति ॥

सिंहिकारूपमास्थाय शीघ्रं सिंहस्त्वया प्रिये

॥२४॥

दृष्टो दिव्यशरीरस्तु लिंगस्यास्य प्रभावतः ॥

तव तुष्टिः परा जाता दृष्ट्वा सिंहं महाद्युतिम्

॥२५॥

कृतं नाम त्वया देवि लिंगस्यास्य वरानने ॥

दिव्यदेहस्तु सिहोयं जातो लिंगस्य दर्शनात्

॥२६॥

अतः सिंहेश्वरो देवो भुवि ख्यातो भविष्यति ॥

एतस्मिन्नंतरे ब्रह्मा संप्राप्तस्तत्र सुव्रते ॥

उवाच त्वां वरारोहे देवैः परिवृतस्तदा

॥२७॥

य एष सिंहः संभूतस्तव क्रोधात्सुतो यतः ॥

ततोऽसौ वाहनो देवि भविष्यति न संशयः

॥२८॥

लिंगं सिंहेश्वरं भक्त्या यः पश्यति समाहितः ॥

तस्य वासोऽक्षयो दिव्यो भविष्यति त्रिविष्टपे

॥२९॥

कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति ॥

स्पर्शनादस्य लिंगस्य पुनात्यासप्तमं कुलम्

॥३०॥

मनसा चिंतितान्कामांस्तांश्च प्राप्नोति पुष्कलान् ॥

तदैव पुरुषो मुक्तो जन्मदुःखजरादिभिः

॥३१॥

यदा पश्यति सिंहेशं संसारार्णवतारकम् ॥

व्यालव्याघ्रादयश्चौरास्तथा साहसिकाश्च ये

॥३२॥

तेभ्यो भयं न भवति श्रीसिंहेश्वरदर्शनात् ॥

यज्ञानां तपसां चैव दानादीनां च यत्फलम् ॥

तत्फलं जायते सम्यग्दृष्ट्वा सिंहेश्वरं शिवम्

॥३३॥

मदीयं लोकमाप्नोति सुरासुरनमस्कृतम् ॥

यः पश्यति प्रयत्नेन देवं सिंहेश्वरं तदा

॥३४॥

इत्युक्त्वासौ जगामाथ ब्रह्मा लोके स्वकं प्रिये ॥

यद्वपुस्तव पूर्वं स्यात्कालकांतिकलंकितम् ॥

प्रभावात्तपसस्तस्य गौरत्वं प्राप्तमद्भुतम्

॥३५॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

सिंहेश्वरस्य देवस्य रेवंतेशमतः शृणु

॥३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये सिंहेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशत्तमोऽध्यायः ॥ ५५ ॥