मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय १६

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 16

ईशानेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ईशानेश्वरसंज्ञं तु षोडशं विद्धि पार्वति ॥

यस्य दर्शनमात्रेण ऐश्वर्यं जायते नृणाम्

॥१॥

तुहुंडेन पुरा देवि सर्वे ह्युपद्रुताः सुराः ॥

ऋषयश्च महाभागा यक्षगन्धर्वकि न्नराः

॥२॥

नंदनाख्यं वनं सर्वं तदधीनमभूत्किल ॥

ऐरावणं द्विपेन्द्रं च जित्वा द्वारि समादधत्

॥३॥

उच्चैःश्रवससंज्ञं तु हृतवान्दानवेश्वरः ॥

देवांगनानां सर्वासां विध्वंसं कर्तुमुद्यतः

॥४॥

स्वर्गमार्गः खिलीभूतस्तद्भयेन ह्यभूत्सति ॥

हृताधिकारा देवाश्च मंत्रं समुपचक्रमुः

॥५॥

तस्मिन्काले च कालज्ञो नारदोऽथ महामुनिः ॥

आजगाम महातेजा भ्रममाणश्च मंत्रिभिः

॥६॥

देवैर्नमस्कृतः सोऽथ पूजितश्च यथाविधि ॥

निवेदितं यथावृत्तं तुहुण्डस्य विचेष्टितम्

॥७॥

पप्रच्छुरथ ते मंत्रं नारदं मुनिसत्तमम् ॥

कथयस्व महाबुद्धे सर्वं जानासि सर्व्वतः

॥८॥

ईदृक्काले समायाते किं कर्त्तव्यं महामुने ॥

नाज्ञातं त्रिषु लोकेषु किंचिद्देवर्षिसत्तम

॥९॥

मुहूर्तं ध्यानमालंब्य किंचिन्मील्य च लोचने ॥

उपायं कथयामास सर्वदुःखविनाशनम्

॥१०॥

महाकालवने रम्ये शीघ्रं गच्छंतु विह्वलाः ॥

इन्द्रद्युम्नेश्वरस्यैव पश्चाद्भागे व्यवस्थिताः ॥

सेवध्वं परमं लिंगमीशानेश्वरसंज्ञकम्

॥११॥

पुरा चेशानकल्पे तु ईशानेन सुखेन हि ॥

मुनिना श्रोत्रियेणैव वेदाभ्यासरतेन वै ॥

उत्तमांगपदं लब्धं शंकरस्य च मूर्द्धनि

॥१२॥

तस्याराधनमात्रेण मनोऽभीष्टं हि लभ्यते

॥१३॥

नारदस्य वचः श्रुत्वा देवा मुदितमानसाः ॥

जग्मुर्यत्र महल्लिंगं स्तुतिं सर्वेऽप्यकुर्वत

॥१४॥

ईशानेशान ईशान तत्पुरुष नमोऽस्तु ते ॥

नमो वाम महाघोर सद्योमुख नमोनमः

॥१५॥

त्र्यक्ष भर्ग महादेव उमाकांत नमोनमः ॥

नमः शिव नमो भीम नमः सर्व नमोनमः

॥१६॥

नमः शंभो नमो रुद्र विरूपाक्ष नमोनमः ॥

त्वया देव प्रजाः सर्वाः सदेवासुरमानुषाः

॥१७॥

स्थावराणि च भूतानि जंगमानि चराणि च ॥

ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महेश्वर

॥१८॥

शिरस्ते गगनं देवा नेत्रे शशिदिवाकरौ ॥

निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युतः

॥१९॥

बाहवस्ते दिशः सर्वाः कुक्षिश्चैव महार्णवः ॥

उरू ते पर्वता देव चरणौ पृथिवी मता

॥२०॥

इंद्रसोमाग्निवरुणा देवासुरमहोरगाः ॥

प्रह्वास्त्वामनुतिष्ठंति स्तुवंतो विविधैः स्तवैः

॥२१॥

त्वया व्याप्तानि भूतानि सर्वाणि भुवनेश्वर ॥

त्वयि तुष्टे जगत्तुष्टं त्वयि क्रुद्धे महद्भयम्

॥२२॥

भयानामपनेतासि त्वमेकः शत्रुसूदनः ॥

असुराणां समर्थानां विनाशश्च त्वया कृतः

॥२३॥

न च विक्रमणैर्देव निर्वाणमगमत्परम् ॥

त्वं हि कर्त्ता विकर्त्ता च भूतानामिह सर्वशः

॥२४॥

आराधयित्वा सर्वे ते नमस्यंति च सर्वशः ॥

एतस्मिन्नंतरे देवि लिंगमध्यात्समुत्थिता

॥२५॥

धूमावृता महा ज्वाला यया दग्धः स दानवः ॥

तुहुण्डो मुंडपुत्रस्तु ससैन्यपरिवारितः

॥२६॥

स्वाधिकारांश्च संप्रापुर्लिंगस्यास्य प्रभावतः ॥

सुरैश्चाख्या समादिष्टा लिंगस्यास्यैव हर्षितः

॥२७॥

ऐश्वर्यशीलमस्यास्तीत्यस्माकं च विनिश्चितम् ॥

ईशान इति विख्यातस्त्रैलोक्ये च भविष्यति

॥२८॥

ईशानेश्वरसंज्ञं तु ये समाराधयंति च ॥

कीर्तिर्लक्ष्मीर्ध्रुवा तेषां सिद्धिः प्रीतिर्भविष्यति

॥२९॥

पूज्यमानः सदा देवैर्गंधर्वाप्सरसांगणैः ॥

स्वर्गलोकं गमिष्यंति विमानैरुज्ज्वलैर्मुदा

॥३०॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः स्त्रियः कुमारिकाः ॥

यथाभिलषितान्कामानाप्नुवंति न संशयः

॥३१॥

यः करोति नरः सम्यग्दर्शनं नियमस्थितः ॥

न कुत्र तस्य हानिः स्याद्यावजन्मशतं भवेत्

॥३२॥

सर्वदा सर्वकार्येषु ते समर्था यशस्विनि ॥

ईशानेश्वरसंज्ञं तु ये पश्यंति दिनेदिने

॥३३॥

एवं ते कथितो देवि प्रभावः पापनाशनः ॥

ईशानेश्वरदेवस्य श्रूयतामप्सरेश्वरः

॥३४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ईशानेश्वरमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥