मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय १३

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 13

कामेश्वरमाहात्म्यवर्णनम्

हर उवाच

विद्धि कामेश्वरं देवि तत्र लिंगं त्रयोदशम् ॥

यस्य दर्शनमात्रेण सौभाग्यं जायते शुभम्

॥१॥

ब्रह्मणो ध्यायमानस्य प्रजाकामस्य पार्वति ॥

उत्पन्नोऽर्कप्रभाकारो लावण्यनिचयो महान् ॥

अलंकारावृतः कांतो दिव्यमंडनमंडितः

॥२॥

तं दृष्ट्वा परमं दिव्यं कांतं सौभाग्यशोभितम् ॥

अप्रतर्क्यमविज्ञेयं ब्रह्मा प्रोवाच तं तदा

॥३॥

को भवान्किं निमित्तं तु इह वा किमुपागतः ॥

वद त्वं मन्मथाकार कंदर्प इव लक्ष्यमे

॥४॥

ब्रह्मणो वचनं श्रुत्वा प्रोक्तं तेनैव सादरम् ॥

अहं ते सृष्टिकामस्य भावेन विहितोंशकः ॥

प्रजापते महाभाग किं करोमि दिशस्व माम्

॥५॥

ब्रह्मोवाच

मया तु सृष्टिकामेन ये प्रजापतयः कृताः ॥

न ते शक्ताः प्रजाः स्रष्टुं कामैते सुखमाप्नुयुः

॥६॥

त्वमग्रणीः प्रजासर्गे त्वदधीनमिदं जगत् ॥

कुरु सृष्टिं विचित्रां च कंदर्प मम शासनात्

॥७॥

इत्युक्तो ब्रह्मणा देवि जगामादर्शनं स्मरः ॥

क्रुद्धेन ब्रह्मणा शप्तो विनाशं यास्यसि ध्रुवम्

॥८॥

मद्वचो न कृतं यस्माद्भवनेत्रोद्भवाग्निना ॥

तच्छ्रुत्वा दारुणं शापं कंदर्पो भयविह्वलः ॥

ब्रह्माणं प्रणतो भूत्वा प्रह्वः प्रांजलिरब्रवीत्

॥९॥

प्रसीद देवदेवेश अनन्यगतिके मयि ॥

नहि निर्भरतां यांति प्रभूणामाश्रिते रुषः

॥१०॥

ब्रह्मोवाच

यस्मात्ते भक्तिरतुला ममोपरि महामते ॥

तस्मात्स्थानानि दत्तानि तव द्वादश संख्यया

॥११॥

कामिनीनां कटाक्षेषु केशपाशेषु चैव हि ॥

जघनस्तननाभौ तु दोर्मूलेऽधरपल्लवे

॥१२॥

वसंते कोकिलालापे ज्योत्स्नायां जलदागमे ॥

कामार्थे च मया दत्तौ सबलौ मधुमाधवौ

॥१३॥

स्त्रियोऽमृतमया धन्या संसारे सारकारणम् ॥

रतेश्चैव निधानानि संतानार्थं विनिर्मिताः

॥१४॥

एताभिर्वरनारीभिर्जगदेवं वशीकृतम् ॥

स्त्रीभिरासक्तमनसः कुतः पुंसो मनस्विता

॥१५॥

कृतश्चापि स्ववशता स्त्रीगौरवगतस्य च ॥

स्त्रिय एव विनाशाय पूर्वेषाममरद्विषाम्

॥१६॥

स्त्रिय एव हि देवानामिंद्रादीनां भयाश्रयाः ॥

नारीभिर्लब्धवृत्तेश्च पुरुषस्यापि सर्वतः

॥१७॥

पराभवः प्रभवति विवशत्वं च भीषणम् ॥

स्त्रीभिराजितचित्तस्य सुलभो विपदोदयः

॥१८॥

इत्युक्तो मन्मथो भद्रे ब्रह्मणा च विसर्जितः ॥

दत्त्वा वै पुष्पकं चापं तथा वै बाणपंचकम्

॥१९॥

रतिप्रीतिसमायुक्तो झषकेतुर्मनोभवः ॥

विडंबयति लोकांस्त्रीन्ससहायो धनुर्धरः

॥२०॥

पंडितांस्तापसान्वीरान्सुधियश्च जितेंद्रियान् ॥

काले कुशलभावज्ञान्देवान्पितृगणांस्तथा

॥२१॥

भूतप्रेतपिशाचांश्च यक्षगंधर्वकिंनरान् ॥

कृमिकीटपतंगांश्च भूतग्रामं चतुर्विधम्

॥२२॥

ममार्थे च कृतो यत्नश्चिंतयित्वा पुनःपुनः ॥

दुःसाध्यः शंकरो देवः श्रूयते भुवनत्रये ॥

तस्य देवस्य कः शक्तः क्षोभणार्थं मया विना

॥२३॥

इत्युक्त्वा तु समायातो यत्राहं तपसि स्थितः ॥

रत्या युतः स गर्वेण सख्याऽयं मधुनाश्रितः

॥२४॥

दृष्टवान्मां तदा कामः पिंजकूटजटासटम् ॥

किंचिन्निमित्ततोऽनिद्रं भोगींद्रकृतभूषणम्

॥२५॥

प्रेक्षमाणमृजुस्थानं नासावंशाग्र लोचनम् ॥

ततोऽवमरकाकारमालंब्याश्रयमात्रकम्

॥२६॥

प्रविष्टः कररंध्रेण मदनो हृदये मम ॥

रत्यर्थं कामतप्तेन संस्मृता भवती मया

॥२७॥

समाधेर्भावना दिव्या लक्ष्यप्रत्यक्षरूपिणी ॥

गता मम विमलता तत्क्षणादेव पार्वति

॥२८॥

उन्मत्ततां गतोऽहं वै विकृतिं मदनात्मिकाम् ॥

निराकृतं मया देवि धैर्यमालंब्य यत्नतः

॥२९॥

दृष्टो मयात्महृदये मन्मथोऽपथ्यकारकः ॥

देहस्थं निर्दहिष्यामि प्रत्याहारप्रयोगतः

॥३०॥

अमानुषीं व्रजेद्योनिं योगिनं प्रविशेद्यदि ॥

बाह्याग्नौ धारणां कृत्वा देहसंस्थे विनिर्दहेत्

॥३१॥

एतस्मिन्नंतरे सोऽपि संतप्तो मदनो भृशम् ॥

इच्छाशरीरो दुर्ज्ञेयो निःसृतो व्यसनात्मकः

॥३२॥

सहकारतरोर्मूले भूत्वा मधुसखस्तदा ॥

मुमोच मोहनं नाम मार्गणं मकरध्वजः

॥३३॥

स चापि हृदये प्राप्तो मदीये लीलया शरः ॥

ततोहं कुपितो देवि नेत्रं कृत्वा तृतीयकम्

॥३४॥

तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम् ॥

गमितो भस्मसात्तूर्णं कंदर्पः कामिदर्पकः

॥३५॥

तस्मिन्दग्धे ततः कामे रतिः शोकपरायणा ॥

विललाप सुदुःखार्ता पतिभक्तिपरायणा

॥३६॥

हा नाथ हा मम प्राण हा स्वामिन्किं जहासि माम् ॥

पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो

॥३७॥

एवं च विलपंतीं तां वागुवा चाशरीरिणी ॥

मा त्वं रुद विशालाक्षि पुनरेष पतिस्तव ॥

प्रसादाद्देवदेवस्य उत्थास्यति शिवस्य च

॥३८॥

प्रार्थितोऽहं ततो देवि तस्मिन्नवसरे प्रिये ॥

एष कामस्त्वया दग्धः क्रोधेन परमेश्वर

॥३९॥

येनानेन प्रभो नष्टा सृष्टिर्वै धरणीतले ॥

कृपां विधेहि देवेश दीनायै देहि मे पतिम्

॥४०॥

ततोऽहमब्रुवं देवि तां रतिं दीनभाषिणीम् ॥

अनेन मदनेनाद्य कृतं तरलितं मनः

॥४१॥

ततो दग्धं मयास्यांगं जीवये त्वत्प्रसादतः ॥

अंगं दग्धं मयास्याद्य तृतीयनेत्रवह्निना

॥४२॥

तस्मादनंग एवैष प्रजासु विचरिष्यति ॥

अनंगोऽपि यदावंत्यां लिंगं संसेवयिष्यति

॥४३॥

देवानामनुकंपार्थमनंगोऽसौ कृतो मया ॥

त्रिदशैश्च समादिष्टः कामोऽवंत्यां जगाम ह

॥४४॥

तत्र गत्वा ह्यनंगोऽपि भक्तिभावसमन्वितः ॥

ददर्श परमं लिंगं समीहितफलप्रदम्

॥४५॥

प्रोक्तं तुष्टेन लिंगेन काम काममवाप्स्यसि ॥

अनंगोऽपि समर्थस्त्वं भविष्यसि न संशयः

॥४६॥

जन्म प्राप्स्यति रुक्मिण्या गर्भे कृष्णस्य संगमात् ॥

भविता विश्रुतो लोके नाम्ना शंबरसूदनः

॥४७॥

अनंगेन त्वया यस्मान्मनसा तोषि तोऽपि सन् ॥

तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना काम सर्वदा

॥४८॥

ये त्वां पश्यंति कंदर्पं भक्त्या परमया युताः ॥

प्राप्नुवंति गतिं नित्यं ते सदानंददायिकाम्

॥४९॥

दीर्घायुषो भविष्यंति रूपं तेषां भविष्यति ॥

कुलं च निर्मलं तेषां ये त्वां पश्यंति मन्मथ

॥५०॥

ऐश्वर्यं परमान्भोगान्स्त्रियो दिव्यकलान्विताः ॥

अरोगा संततिस्तेषां भविष्यति न संशयः

॥५१॥

चैत्रशुक्लत्रयोदश्यां ये मां पश्यंति भक्तितः ॥

देवलोकं समासाद्य मोदिष्यंति हि ते नराः

॥५२॥

यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः ॥

रुद्रलोकं गमिष्यंति विमानैः सर्वकामिकैः

॥५३॥

इत्युक्तः कामदेवोपि लिंगेन परमेश्वरि ॥

तत्राश्रमपदं चक्रे तस्य लिंगस्य संनिधौ

॥५४॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

कामेश्वरस्य शृण्वग्रे कुटुंबेश्वरवैभवम्

॥५५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥