मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 5

चतुरशीतिलिंगमाहात्म्येऽनादिकल्पेश्वरमाहात्म्यवर्णनम्

श्रीरुद्र उवाच

अनादिकल्पेश्वरं देवं पंचमं विद्धि पार्वति ॥

सर्वपापहरं नित्यमनादिर्गीयते सदा

॥१॥

कल्पस्यादौ पुरा देवि लिंगमेतद्विनिर्गतम् ॥

यदा नाग्निर्न चादित्यो न भूमिर्न दिशो न खम्

॥२॥

न वायुर्न जलं चैव न द्यौर्ने न्दुर्ग्रहा न च ॥

न देवासुरगंधर्वा न पिशाचा न राक्षसाः

॥३॥

अतो लिंगात्समुद्भूतं जगत्स्थावरजंगमम् ॥

कालेन च लयं याति लिंगेऽस्मिन्पर्वतात्मजे

॥४॥

अस्माल्लिंगात्समुद्भूता वंशा देवर्षिपैतृकाः ॥

मन्वंतराणि वंशानि वंश्यानुचरितं च यत्

॥५॥

यावत्यः सृष्टयश्चैव यावंतः प्रलयास्तथा ॥

समुद्राः पर्वताश्चैव निम्नगाः काननानि च

॥६॥

भूर्लोकाद्याश्च ये लोकाः पातालाः सप्त ये स्मृताः ॥

गतिस्तथार्कसोमादिग्रहर्क्ष ज्योतिषामपि

॥७॥

दृश्यादृश्यं च तत्सर्वमतो लिंगाद्वरानने ॥

अनादिकारणं यत्तदव्यक्ताख्यं महर्षयः ॥

यदाहुः पुरुषं सूक्ष्मं नित्यं सदसदा त्मकम्

॥८॥

ध्रुवमक्षयमजरममेयं नान्यसंश्रयम् ॥

गंधरूपरसैर्हीनं शब्दस्पर्शविवर्जितम्

॥९॥

अनाद्यंतं जगद्योनिं त्रिगुणप्रभवाव्ययम् ॥

असादृश्यमविज्ञेयं लिंगं प्रोक्तं महर्षिभिः

॥१०॥

प्रलयस्यांते तेनेदं दिव्यमासीदशेषतः

॥११॥

अहमुर्व्यां प्रबुद्धस्तु जगदादिरनादिमान् ॥

सर्वहेतुरचिंत्यात्मा परः कोऽप्यपरक्रियः

॥१२॥

प्रकृतिं पुरुषं चैव प्रदर्श्याशु जगत्पतिः ॥

क्षोभयामास योगेन परेण परमेश्वरः

॥१३॥

यथा संनिधिमात्रेण गंधः क्षोभाय जायते ॥

मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥

अनादिः कथ्यते देवो जगत्कारणतत्परम्

॥१४॥

प्रधानं क्षोभ्यमाणं तु तेन लिंगेन पार्वति ॥

जायते भुवनाधारो ब्रह्मांड इति विश्रुतः

॥१५॥

यस्मिन्नंडे जगत्सर्वं सदेवासुरमानुषम् ॥

उत्पन्नं च विलीनं च यस्यांतोऽपि न लभ्यते

॥१६॥

स एव क्षोभकः पूर्वं स क्षोभ्यः पृथिवीपतिः ॥

स संकोचविकासाभ्यां प्रधानत्वे व्यवस्थितः

॥१७॥

उत्पन्नः स जगन्नाथो निर्गुणोऽपि रजोगुणः ॥

भुंजन्प्रवर्तते सर्गं ब्रह्मत्वं समुपागतः

॥१८॥

ब्रह्मत्वे सृजते लोकांस्ततः सत्त्वातिरेकतः ॥

विष्णुत्वमेत्य धर्मेण करोति परिपालनम्

॥१९॥

ततस्तमोगुणोद्भिन्नो रुद्रत्वेनाखिलं जगत् ॥

उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः

॥२०॥

यथा प्राग्वापकः क्षेत्री पालको लावकस्तथा ॥

स संज्ञा याति तद्वच्च ब्रह्मविष्णुत्वरुद्रताः

॥२१॥

ब्रह्मत्वे सृजते लोकानुद्रत्वे संहरत्यपि ॥

विष्णुत्वे पाति तान्सर्वांस्तिस्रोऽवस्थाः स्मृताः सदा

॥२२॥

रजो ब्रह्मा तमो रुद्रः सत्त्वं विष्णुर्जगत्पतिः ॥

एत एव त्रयो वेदा एत एव त्रयो नराः

॥२३॥

कल्पे कल्पे ह्यनादिस्तु गीयते त्रिदशैः सदा ॥

पितृभिश्च गणैः सिद्धैरतोऽनादिकल्पेश्वरः

॥२४॥

नाम प्राप्तं विशालाक्षि महाकालवनं सदा ॥

यदा जातो विवादस्तु ब्रह्मणः केशवस्य च

॥२५॥

अहं ज्यायानहं ज्यायान्कल्पादौ सृष्टिकारणात् ॥

दिव्या समुत्थिता वाणी निरालंबा तदांबरात्

॥२६॥

महाकालवने लिंगं कल्पेश्वरेति संज्ञकम् ॥

तस्यादिमथवांतं च यः पश्यति स च प्रभुः ॥

भविष्यति न संदेहो न वादः क्रियता मिति

॥२७॥

ततो देवि गतो ब्रह्मा ऊर्द्ध्वलोकमनंतकम् ॥

अधोलोकं गतो विष्णुस्तेन वाक्येन सत्वरम्

॥२८॥

नादिर्दृष्टो न चांतश्च ब्रह्मणा केशवेन तु ॥

तदा तौ विस्मयापन्नौ तुष्टुवाते परस्परम्

॥२९॥

वेदोक्तसूक्तैर्विविधैरभिनंद्य पुरःस्थितौ ॥

नादिरस्ति न चांतश्च न च कल्पोऽत्र दृश्यते

॥३०॥

तस्मादनादिकल्पोऽयमद्यप्रभृति भूतले ॥

ख्यातिं यास्यति नाम्ना च महाकालवनोत्तमे

॥३१॥

पञ्चपातकसंयुक्तो यो मर्त्यो दुष्टमानसः ॥

सोऽपि गच्छेच्छिवं दृष्ट्वानादिकल्पेश्वरं शिवम्

॥३२॥

शिवमस्तु सदा तेषां येषां त्वं दर्शनं गतः ॥

ते धन्या मानुषे लोके ये त्वां शरणागताः

॥३३॥

सर्वतीर्थाभिषेकैस्तु यत्पुण्यं प्राप्यते नरैः ॥

तत्सर्वमधिकं देव लभ्यते तव दर्शनात्

॥३४॥

तावत्पतंति संसारे सुखदुःखसमाकुले ॥

तावन्न दृश्यते देव संसारार्णवतारकः

॥३५॥

यदा पापक्षयः पुंसां तदा त्वद्दर्शनं भवेत्

॥३६॥

ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः ॥

तत्संसर्गी नरो यस्तु महाकिल्बिषकारकः ॥

सोऽपि याति परं स्थानं पुनरावृत्तिवर्जितम्

॥३७॥

यत्फलं चाश्वमेधेन राजसूयेन यत्फलम् ॥

तत्फलं समवाप्नोति तव देव समर्चनात्

॥३८॥

ते नराः पशवो लोके तेषां जन्म निरर्थकम् ॥

यैर्न दृष्टो महादेवोऽना दिकल्पेश्वरः शिवः

॥३९॥

इत्युक्त्वा केशवो देवो ब्रह्मा चैव वरानने ॥

वामे दक्षिणभागे च तस्य लिंगस्य संस्थितौ

॥४०॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

यस्य श्रवणमात्रेण लभ्यते परमं पदम्

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखंडे चतुरशीतिलिंगमाहात्म्येऽनादिकल्पेश्वरमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥ ५ ॥