मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ७५

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 75

वडलेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

पञ्चसप्ततिकं देवं वडलेश्वरसंज्ञकम् ॥

विद्धि पापहरं देवि दर्शनात्कामदं नृणाम्

॥१॥

धनदस्य सखा देवि मणिभद्रो बभूव ह ॥

ईर्ष्याप्रभावस्तत्पुत्रो वडलोनाम कोपनः

॥२॥

रूपवान्सर्वदा कामी सदा मत्तो बलाधिकः ॥

कदाचित्स गतो रम्यां नलिनीं धनदस्य च

॥३॥

रत्यर्थं कामसेवार्थं गुप्तां रहसि निर्मिताम् ॥

ददर्श कुसुमैश्छन्नां वज्रवैडूर्यभूषिताम्

॥४॥

तां वै विद्रुमसंछन्नां मुक्तादामविरा जिताम् ॥

सुरम्यां विपुलच्छायां स्वर्णपंकजशोभिताम्

॥५॥

कुबेरभवनाभ्याशे वल्लभां धनदस्य च ॥

आक्रीडं राजराजस्य कुबेरस्य महा त्मनः

॥६॥

राक्षसैः किंनरैश्चैव गुप्तां खङ्गधरैः सदा ॥

तां दृष्ट्वा परमप्रीतो बभूव वडलस्तदा

॥७॥

प्रियया सहितो रेमे स्थाने गुप्ते मनोहरे ॥

रेमे रमणकैर्योगैरनंगेन वशीकृतः

॥८॥

तत्र गुप्ता रणे शूरा राक्षसा रणकोविदाः ॥

रक्षंति शतसाहस्रं सर्वायुधपरिच्छदाः

॥९॥

ते तु दृष्ट्वैव वडलं मणिभद्रसुतं प्रिये ॥

भक्ष्यैः संपूरितमुखं दिव्यचन्दनभूषितम्

॥१०॥

केतकीगर्भपत्राभैर्दंतैर्दिव्यतराननम् ॥

युद्धार्थे बद्धनिस्त्रिंशं शक्तियुक्तमरिंदमम्

॥११॥

भार्यासहायमुन्मत्तं पर्यंके च स्थितं सदा ॥

रत्यर्थमागतं ज्ञात्वा अन्योन्यमभिचुक्रुशुः

॥१२॥

मा वीरानेन मार्गेण सभार्यो गन्तुमर्हसि ॥

आक्रीडोऽयं कुबेरस्य धनदस्य महात्मनः

॥१३॥

देवा देवर्षयो यक्षा गन्धर्वाः किंनरास्तथा ॥

आमन्त्र्य यक्षप्रवरं विहरंति रमंति च

॥१४॥

नेह शक्यं विनादेशाद्विहर्तुं क्रीडितुं चिरम् ॥

भ्रात्रामात्येन सुहृदा केनापि च सुतेन च

॥१५॥

येनकेनचिदन्यायादवमन्य धनेश्वरम् ॥

विहारः क्रियते दर्पात्स विनश्येदसंशयम्

॥१६॥

एवं स राक्षसैर्घोरैर्वडलो विनिवारितः ॥

मा मैवमिति सक्रोधं भर्त्सयद्भिः समंततः

॥१७॥

कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः ॥

व्यगाहत महातेजास्ते सर्वे तं न्यवारयन्

॥१८॥

गृह्णीत बध्नीत निकृन्ततैनं पिबाम खादाम च वृत्तहीनम् ॥

क्रुद्धा ब्रुवंतो ह्यपतन्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः

॥१९॥

ततः स गुर्वीं यमदण्डकल्पां महागदां कांचनपट्टनद्धाम् ॥

प्रगृह्य तामभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति

॥२०॥

ते तस्य वीर्यं च वलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव ॥

न शक्नुवंतः सहितुं समेता हताः प्रवीराः सहसा निवृत्ताः

॥२१॥

विदार्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसंज्ञाः ॥

कैलासशृंगाण्यभि दुद्रुवुस्ते यक्षार्दिता रक्षपालाः प्रभग्नाः

॥२२॥

स शक्रवद्दानवदैत्यसंघान्विक्रम्य जित्वा मदनाभितप्तः ॥

विगाह्य तां पुष्करिणीं समर्थः कामं स चिक्रीडति यक्षपुत्रः

॥२३॥

ततस्तु ते रक्षपालाः समेत्य धनेश्वरं वै वडलेन नुन्नाः ॥

यक्षस्य धैर्यं सुबलं च संख्ये यथावदाचख्युरतीव भीताः

॥२४॥

तेषां तु वचनं श्रुत्वा मणिभद्रो महायशाः ॥

शशाप पुत्रं दयितं वडलं प्रभुकारणात्

॥२५॥

यस्मात्सा नलिनी रम्या सेविता वडलेन तु ॥

दयिता धनदस्यापि यथा माता तथैव सा

॥२६॥

तस्मात्पुत्रो मदीयस्तु सर्वभागविवर्जितः ॥

पंग्वन्धो बधिरो दीनः क्षयरोगमवाप्स्यति

॥२७॥

इति शप्तस्तदा जातो वडलो भोगवर्जितः ॥

पतितो भूतले चैव तस्मिन्स्थाने गतोऽपि सन्

॥२८॥

पीडितः क्षयरोगेण न शशाक विचेष्टितुम् ॥

अन्धोऽथ बधिरो जातो गुरुशापहतस्तदा

॥२९॥

चिंतयामास सहसा शापमत्यद्भुतं महत् ॥

शप्तोऽहं केन सहसा जीवन्योन्यंतरं गतः

॥३०॥

कथं शप्तोऽस्मि तातेन मणिभद्रेण वल्लभः ॥

पुत्रो युवा च शूरश्च शत्रुपक्षक्षयंकरः

॥३१॥

धन्योऽसौ मणिभद्रोऽपि मत्तातो येन भूतले ॥

प्रभुभक्त्या निजः पुत्रः शप्तस्त्यक्तश्च तत्क्षणात्

॥३२॥

वडलेन पुनः प्रोक्तं धन्योऽहं प्रभुकारणात् ॥

उत्सवो निधनंनाम भर्तृपिण्डोपजीविनाम्

॥३३॥

अन्यायेन यथाकामं प्रारब्धः संचितश्चिरम् ॥

तेनाहं शापतां प्राप्तो यास्यामि नरकं ध्रुवम्

॥३४॥

एवं विलपतस्तस्य वडलस्य वरानने ॥

आजगाम तमुद्देशं मणिभद्रो महाबलः ॥

ददर्श पुत्रं पंग्वंधं क्षयरोगप्रपीडितम्

॥३५॥

निःश्वसंतं सुदुःखार्त्तं विल पंतं पुनःपुनः ॥

प्रत्युवाच सुतं यक्षो मणिभद्रोऽतिदुःखितः ॥

मया कुपित्रा हा वत्स शप्तस्त्वं प्रभुकारणात्

॥३६॥

त्वयेयं नलिनी रम्या धन दस्यातिवल्लभा ॥

सेविता कामतप्तेन प्रवरा राक्षसा हताः

॥३७॥

तस्मात्पुत्र मया शप्तो न मिथ्या स भविष्यति ॥

प्रभुर्देवः प्रभुः स्वामी प्रभुर्माता प्रभुः पिता

॥३८॥

स्वाम्यर्थे यः प्रियान्प्राणान्परित्यजति संगरे ॥

स याति परमं स्थानं ब्रह्मलोकं सनातनम्

॥३९॥

न मन्त्रसाध्यः शापोयं नौषधेन व्रतेन च ॥

नियमेन च दानेन तस्मान्मद्वचनं कुरु

॥४०॥

मया श्रुतं शक्रलोके पुराणं स्कंदकीर्त्तितम् ॥

ब्रुवतो नारदस्यैव देवानां संनिधौ पुरा

॥४१॥

प्रभावो वर्णितस्तेन महाकालवनस्य च ॥

क्षेत्रे ह्यस्मिन्महालिंगं स्वर्गद्वारस्य दक्षिणे

॥४२॥

विद्यते व्याधिशमनं रूपसौभाग्यदायकम् ॥

तत्राहं त्वां च नेष्यामि विमानेनाशुगामिना

॥४३॥

इत्युक्त्वा मणिभद्रेण समानीतः सुतस्तदा ॥

यत्र देवाधिदेवोऽसौ स्वर्गद्वारस्य दक्षिणे

॥४४॥

स्पर्शनात्तस्य लिंगस्य चक्षुष्मान्रूपवान्बली ॥

सुपादः श्रुतिसंयुक्तस्तत्क्षणादभवत्तदा

॥४५॥

दृष्ट्वा सुमहदाश्चर्यं मणिभद्रेण पार्वति ॥

कृतं नाम सुहृष्टेन स्वीयपुत्रस्य नामतः ॥

चक्षुष्मान्वडलो जातो लिंगस्यास्य प्रभावतः

॥४६॥

अद्यप्रभृति देवोऽयं वडलेश्वरसंज्ञकः ॥

भविष्यति त्रिलोकेषु विख्यातो नेत्रदायकः

॥४७॥

पूजयिष्यंति ये देवं वडलेश्वरसंज्ञकम् ॥

लिंगं लोकेषु विख्यातं ते प्राप्स्यंति मनोरथम्

॥४८॥

दृष्टो हरति पापानि स्पृष्टो राज्यं प्रयच्छति ॥

अर्चितो भक्तिभावेन मोक्षं दद्यान्न संशयः

॥४९॥

कार्त्तिके शुक्लपक्षस्य तिथिर्वै द्वादशी भवेत् ॥

तस्यां ये पूजयिष्यंति वडलेश्वरसंज्ञकम्

॥५०॥

दानं तैः सततं दत्तं ते यांति परमं पदम् ॥

प्रयागे च प्रभासे च गंगासागरसंगमे

॥५१॥

तपस्तप्तं भवेत्तैस्तु ते मुक्ता नात्र संशयः ॥

गर्भवासे न जायंते सर्वसौख्यसमन्विताः

॥५२॥

गाणपत्या भविष्यंति शंकरस्य सदा प्रियाः ॥

सौभाग्यरूपसंपन्नाः पुत्रपौत्रैश्च संयुताः ॥

जायंते मानवा लोके वडलेश्वरदर्शनात्

॥५३॥

गर्भवासे महाकष्टे यस्य वासो न रोचते ॥

सोऽभ्यर्चयतु भावेन वडलेश्वरमीश्वरम्

॥५४॥

न लिंगेन विना सिद्धिर्दुर्लभं परमं पदम् ॥

गतिर्न जायते स्वर्गे यावल्लिंगं तु नार्चयेत्

॥५५॥

लिंगार्चन विहीनानां सिद्धिश्चापि सुदुर्लभा ॥

मम पुत्रेण संप्राप्तमीप्सितं लिंगतो यतः

॥५६॥

इत्युक्त्वा मणिभद्रोऽपि सुतेन सहितो ययौ ॥

यत्र देवो धनाध्यक्षः स्थानं स्वं परमं गतः

॥५७॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

वडलेश्वरदेवस्य श्रूयतामरुणेश्वरम्

॥५८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे वडलेश्वरमाहात्म्यवर्णनं नाम पंचसप्ततितमोऽध्यायः ॥ ७५ ॥