चतुरशीतिलिङ्गमाहात्म्येऽप्सरेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
देवं सप्तदशं विद्धि विख्यातमप्सरेश्वरम् ॥
यस्य दर्शनमात्रेण लोकोऽभीष्टानवाप्नुयात्
॥१॥नंदनाख्ये वने देवि सर्वकामसमन्विते ॥
सिद्धचारणगंधर्वकिंनरोद्गीतनादिते
॥२॥शुककोकिलचक्राह्वचकोरकुररावृते ॥
दिव्यलोकोपमस्थाने त्रिविष्टपवि भूषणे
॥३॥तत्रोपविष्टो वृत्रारिः सुरज्येष्ठश्च सेवितः ॥
ननर्त्त रंभा तस्याग्रे नृत्यभावान्विवृण्वती
॥४॥ततोन्यचित्ता संजाता किंचित्स्मृत्वा प्रमादतः ॥
लयतालविहीना च दृष्टा वै वासवेन सा
॥५॥चुकोप च सुरश्रेष्ठस्तस्याः शापं ददौ किल ॥
विस्मृतिर्मानुषं कर्म न दिव्यं क्वापि दृश्यते ॥
तस्मात्तु मानुषे लोके गच्छ त्वं निष्प्रभा सती
॥६॥अथेंद्रकोपसंक्षोभात्पतिता भुवि साप्सराः ॥
निश्चेष्टा विकलीभूता रुदती विस्वरं बहु
॥७॥करुणं विलपंती च किं मया दुष्कृतं कृतम् ॥
निर्मलं न तपस्तप्तं कथं नाराधितः सुरः
॥८॥अथाप्सरोगणः सर्वः सखीगण समन्वितः ॥
रंभा यत्रैव पतिता समायातो वरानने ॥
तस्याः शोकाग्निदाहेन संतप्तोऽप्सरसां गणः
॥९॥सुसुप्ता पद्मिनी साभ्रे यथा नैव विराजते ॥
तथा शापेन विध्वस्ता रंभा नो राजते सदा
॥१०॥सखीगणैः परिवृता रंभा दृष्टा वरानने ॥
देवर्षिणा नारदेन विस्मितेनांतरात्मना
॥११॥कस्मादप्सरसः सद्यो दृश्यंते शोकविह्वलाः ॥
कस्माच्च करुणं रंभा रोदित्येषा मुहुर्मुहुः
॥१२॥पप्रच्छ च समागत्य कस्मादप्सरसो वराः ॥
विषण्णवदना दीनाः कथ्यतां मम सादरम्
॥१३॥वृत्तांतं कथयामासुस्ताश्च तस्मै पुरातनम् ॥
श्रुत्वा च नारदस्तत्र ध्यानासक्तोऽभवन्मुनिः
॥१४॥उपायं कथयामास हितं तासां प्रयत्नतः ॥
गच्छंत्वप्सरसः सर्वा महाकालवनोत्तमे
॥१५॥आराधयध्वं देवेशं लिंगं सर्वार्थसाधकम् ॥
पृच्छादेव्यास्तु पुरतः पुरा कल्पे प्रपूजितम्
॥१६॥उर्वश्या मम वाक्येन भर्त्ता प्राप्तः पुरूरवाः ॥
नारदस्य वचः श्रुत्वा समाजग्मुर्गणास्तथा
॥१७॥महाकालवने रम्ये लिंगाराधनकाम्यया ॥
ततस्तुष्टः स्वयं रुद्रस्तासां भक्त्या वरं ददौ
॥१८॥रंभे प्राप्स्यसि सौभाग्यं स्वर्गलोकं यशस्विनि ॥
भविष्यसि महाभागे जिष्णोस्त्वं वल्लभा धुवम्
॥१९॥तस्मात्त्रिविष्टपं गच्छ संघेनानेन पूजिता ॥
आराधितोऽप्सरोभिश्च पुरा स्वर्गार्थकाम्यया ॥
अतोप्सरेश्वरः ख्यातो ययौ ख्यातिं जगत्त्रये
॥२०॥ये समाराधयिष्यंति भक्त्या चाप्सरसेश्वरम् ॥
ते सर्वकामसंपूर्णा भविष्यंति युगेयुगे
॥२१॥प्रेरयिष्यंति ये लोके दर्शनार्थं यशस्विनि ॥
स्थानभ्रंशो वियोगश्च तेषां स्वप्ने न जायते
॥२२॥किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः ॥
स्पर्शनाल्लभते राज्यं स्वर्गं मोक्षं क्रमेण तु
॥२३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
अप्सरेश्वरदेवस्य श्रूयतां कल्कलेश्वरः
॥२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽप्सरेश्वरमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥