मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ७८

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 78

अष्टसप्ततिकं विद्धि अविमुक्तेश्वरं प्रिये

ईश्वर उवाच

अष्टसप्ततिकं विद्धि अविमुक्तेश्वरं प्रिये ॥

यस्य दर्शनमात्रेण तीर्थयात्राफलं लभेत्

॥१॥

शाकले नगरे देवि चित्रसेनो महीपतिः ॥

बभूव भुवि विख्यातो रूपवान्मन्मथाधिकः

॥२॥

तस्य चन्द्रप्रभा भार्या प्राणे भ्योऽपि गरीगसी ॥

पतिव्रता धर्मशीला रूपयौवनशालिनी

॥३॥

अपुत्रस्यापि नृपतेः पुत्री जाता मनोरमा ॥

तस्या नाम तदा चक्रे पिता पार्थिवसत्तमः

॥४॥

सर्वलक्षणसंपन्ना कन्या लावण्यवत्यपि ॥

सापि जातिस्मरा देवी सस्मार च पुरातनम्

॥५॥

वैराग्याद्ब्रह्मचर्यं च चचार तनुमध्यमा ॥

कदाचिद्यौवनं प्राप्ता सा च पृष्टा नृपेण वै

॥६॥

उत्संगे च निजे कृत्वा मूर्ध्नि चाघ्राय हर्षितः ॥

पुत्रि प्रदानकालस्ते कस्मै देया वराय च

॥७॥

नृपाय नृपपुत्राय संमताय द्विजाय वा ॥

वृद्धाय बहुभार्याय ग्रामीणाय च पुत्रिणे ॥

हर्षेण चावृतो राजा पुनः पप्रच्छ तां सुताम्

॥८॥

पृष्टा च सा यदा देवी न चोवाच नृपं प्रति ॥

अधोमुखी च संजाता पुनः प्रोक्ता नृपेण तु

॥९॥

यदि मद्वचनं पुत्रि प्रतिभाति न सांप्रतम् ॥

वरणं स्वेच्छया पुत्रि कुरु तर्हि स्वयंवरम्

॥१०॥

इत्युक्ता सा नृपतिना पित्रा प्रोक्ता पुनःपुनः ॥

रुरोद सा वै करुणं श्रुत्वा तां कुत्सितां गतिम्

॥११॥

जहास चातिहासेन पुनः श्वासांश्च मुंचति ॥

प्रहर्षं च पुनः क्षिप्रं प्राप्य वाष्पं च मुंचति

॥१२॥

तामवस्थां गतां दृष्ट्वा पुत्री मुन्मत्ततां गताम् ॥

किमेतदिति भूपालो ग्रसिता किं ग्रहेण वै

॥१३॥

भूतेन वा पिशाचेन मत्सुता लक्षणैर्युता ॥

इति चिन्तापरो राजा यदा जातो यशस्विनि

॥१४॥

तदा प्रोक्तस्तया पुत्र्या मा तात विमना भव ॥

नाहं ग्रस्ता ग्रहेणेह न भूतेन न रक्षसा

॥१५॥

न पिशाचेन यक्षेण तव कन्या महीपते ॥

जातिस्मराहमुत्पन्ना श्रूयतां मम जन्म च

॥१६॥

प्राग्ज्योतिषे पुरे विप्रो हरस्वामी बभूव ह ॥

भार्याहं दुर्भगा जाता तस्य विप्रस्य पार्थिव

॥१७॥

रूपयौवनसंपन्ना तस्य नाहं प्रिया विभो ॥

सदा विद्वेषसंयुक्तो मयि निष्ठुरजल्पकः

॥१८॥

नान्यस्य कस्यचिद्द्वेष्टा मुक्त्वा मां पृथिवीपते ॥

पाणिग्रहणकाले तु ग्रहैः पापैर्विलोकिता

॥१९॥

अहमूढां कुलीनेन द्विजेनातिगुणेन च ॥

स चावलोकितो विप्रो ग्रहैः पुण्यैर्नराधिप

॥२०॥

तेन मे वल्लभो राजन्न चाहं तस्य वल्लभा ॥

स सदाचारसंयुक्तो वेदाध्ययनतत्परः

॥२१॥

नान्यत्र कुरुते भावं ब्रह्मचर्यव्रते स्थितः ॥

ततोऽहं क्रोधसंयुक्ता वशीकरणलंपटा ॥

अपृच्छं प्रमदास्तात यास्त्यक्ताः पतिभिः किल

॥२२॥

ताभिरुक्ता ह्यहं भूप वश्यो भर्त्ता भविष्यति ॥

अस्माकं प्रत्ययो जातस्तस्मात्त्वं कर्तुमर्हसि

॥२३॥

भेषजैर्विविधैश्चूर्णैर्मंत्रैर्मोहकरैः परैः ॥

तैस्तैस्तु कृतलेपोऽपि भविता दासवत्पतिः

॥२४॥

ततोऽहं त्वरिता गत्वा तासां वाक्येन भूपते ॥

चूर्णं मन्त्रं गृहीत्वा च प्राप्ता भर्तृगृहं पुनः

॥२५॥

प्रदोषे पयसा युक्तश्चूर्णो भर्त्तरि योजितः ॥

ग्रीवायां च मया मन्त्रो न्यस्तः सर्वांगसंधिषु

॥२६॥

यदा पीतश्च चूर्णस्तु मन्त्रेणातीव गुंठितः ॥

वशगस्तत्क्षणाज्जातो मंत्रचूर्णप्रभावतः

॥२७॥

द्वारदेशे स्थितः क्रंदन्दासोऽस्मि तव शोभने ॥

त्राहि मां शरणं प्राप्तं त्वद्वशोहं च शोभने

॥२८॥

तत्तस्य रुदितं ज्ञात्वा मंत्रमाहात्म्यतो नृप ॥

स्वस्थीकरणयोगेन तदा स्वस्थः कृतः पतिः

॥२९॥

ततः प्रभृति कांतो मे वश्योऽभूद्भवने स्थितः ॥

पंचत्वं च गता काले तथा नारकयातनाम्

॥३०॥

ताम्रभ्राष्ट्रे च दग्धाहं युगानि दश पंच च ॥

सूक्ष्माणि तिलमात्राणि कृत्वा खंडान्यनेकशः ॥

छेदिता कालसूत्रेण पीडिता घ्राणयंत्रके

॥३१॥

क्वाथीभूता तप्ततैलैर्घटे दर्व्याथ लोडिता ॥

पिष्टा चैव शिलापृष्ठे कुट्टिता लोहमुद्गरैः

॥३२॥

दलिता दंतदलने दग्धाहं रौरवे भृशम् ॥

अधोमुखी विनिक्षिप्ता त्वमेध्ये पूयशोणिते

॥३३॥

यान्यापि युवती तात भर्तुर्वश्यं समाचरेत् ॥

वृथा धर्मादुराचारा पच्यते नरके भृशम्

॥३४॥

भर्त्ता नाथो गुरुर्भर्ता भर्त्ता वै दैवतं परम् ॥

भर्त्ता स्वमी सुहृद्भर्त्ता भर्ता च परमं पदम्

॥३५॥

तुष्टे भर्त्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥

विमुखे विमुखाः सर्वे तस्मात्सेव्यः सदा पतिः ॥

भस्मीभवति सा नारी यया भर्त्ता न तोषितः

॥३६॥

यस्य प्रसादात्प्राप्यंते भोगाश्च विविधाः सदा ॥

तं वश्यं कुरुते या च सा कथं सुखमाप्नुयात्

॥३७॥

तिर्यग्योनिशतं याति कृमिपक्षिशतानि च ॥

तस्मात्तत्तत्सदा कार्यं स्त्रीभिर्भर्तृवचः किल

॥३८॥

एवं पुनर्मया भुक्ता नरका भृशदारुणाः ॥

तिर्यग्योनिसहस्रं तु कर्मणा कुत्सितेन च

॥३९॥

किंचित्पातकशुद्ध्यर्थं चंडालस्य च वेश्मनि ॥

जाताहमतिरूपेण पीडिता विविधैर्व्रणैः

॥४०॥

सारमेयैर्वृता दीना भक्ष्यमाणा पुनःपुनः ॥

दुष्टाहं भक्ष्यमाणापि मार्गे रुद्धा वृकैरहम् ॥

तैरहं तुद्यमानापि महाकालवनं गता

॥४१॥

दृष्टो मया महादेवो दैवतो मृगमाणया ॥

समीपे देवदेवस्य पिप्पलादेश्वरस्य च

॥४२॥

तस्य दर्शनमात्रेण गता शक्रपुरं प्रति ॥

विमानेन सुदीप्तेन किंकिणीजालमालिना ॥

दिव्यांबरधरा दिव्या दिव्यमालाविभूषणा

॥४३॥

तत्राहं पूजिता देवैः स्तुताहं चारणैस्तथा ॥

दर्शनात्तस्य लिंगस्य जाताहं तव वेश्मनि

॥४४॥

वल्लभा रूपसंपन्ना शाकले नगरे शुभे ॥

स्मृत्वा तु कुत्सितां योनिं विलापश्च कृतो मया

॥४५॥

स्मृत्वा लिंगस्य माहात्म्यं हर्षो जातस्तु तत्क्षणात् ॥

तन्मे नैव च वातूल्यं गृहीता न ग्रहेण च

॥४६॥

जाता जातिस्मरा तात ब्रह्मचर्यव्रते स्थिता ॥

अतो यास्यामि तं देवं दर्शनार्थं पुनः प्रभो ॥

यथा न भूयो मे जन्म स्याच्च संसारसागरे

॥४७॥

इति पुत्रीवचः श्रुत्वा चित्रसेनो महीपतिः ॥

सभृत्यमंत्रिसहितो महाकालवनं गतः

॥४८॥

ददर्श तत्र तल्लिंगं पूजयामास भक्तितः ॥

सापि दृष्ट्वैव तल्लिंगं तस्मिंल्लिंगे लयं गता

॥४९॥

राजा च पुत्रवाञ्जातो लिंगदर्शनतः प्रिये ॥

बभूव चक्रवर्ती स यथा स्वायंभुवो मनुः

॥५०॥

एतस्मिन्नंतरे देवि दृष्ट्वा देवे लयं गताम् ॥

राजपुत्रीं महादेवि कृतं नाम मुदान्वितैः

॥५१॥

अविमुक्तस्य लिंगस्य दर्शनादेव तत्क्षणात् ॥

अविमुक्तेश्वरो देव इति ख्यातो भवत्विति

॥५२॥

योऽसौ काश्यां प्रसिद्धोऽस्ति देवो विश्वेश्वरः शिवः ॥

स चैवात्र सुविख्यातोऽविमुक्तेश्वरसंज्ञया

॥५३॥

वाराणसी यथा पुण्या तथावंती च मुक्तिदा ॥

तस्या दशगुणं पुण्यं श्रूयतेऽत्र विशेषतः

॥५४॥

तस्माद्विश्वेश्वरो देवः समायातः कुशस्थलीम् ॥

यत्रागत्य सुविद्वांसो मानवाः शंसितव्रताः

॥५५॥

पश्यंति परया भक्त्या ह्यविमुक्तेश्वरं शिवम् ॥

तेषां मुक्तिर्न संदेहो भविष्यति सुनिश्चला

॥५६॥

अमुक्ता नैव पश्यंति मुक्ताः पश्यंति सर्वदा ॥

ब्रह्मचर्यव्रतैः सम्यगिष्टैः सर्वमखैर्भवेत्

॥५७॥

तत्फलं प्राप्यते सम्यगविमुक्तेशदर्शनात् ॥

नैःश्रेयसी गतिः पुण्या दर्शनादेव जायते

॥५८॥

या गतिः प्राप्यते सांख्यैयोगैर्वा या गतिर्भवेत् ॥

सा गतिः नाप्यते सम्यगविमुक्तेशदर्शनात्

॥५९॥

जन्ममृत्युभयं हित्वा स याति परमां गतिम् ॥

यः पूजयति भावेन ह्यविमुक्तेश्वरं शिवम्

॥६०॥

ब्रह्महापि च यो गच्छेदविमुक्तेश्वरं यजेत् ॥

तस्य लिंगस्य माहात्म्यात्सर्व्वपापान्निवर्त्तते

॥६१॥

शाठ्येनापि च यः पश्येदविमुक्ते श्वरं शिवम् ॥

स मुंचति जरां मृत्युं जन्म चैतदशाश्वतम्

॥६२॥

स्मृतः संपूजितो भक्त्या स्तुतो वा विविधैः स्तवैः ॥

मुक्तिं ददाति देवेशो ह्यवि मुक्तेश्वरः शिवः

॥६३॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

अविमुक्तेश्वरेशस्य हनुमत्केश्वरं शृणु

॥६४॥

इति श्रीस्कांदे महापुराण