प्रतीहारेश्वरं देवि विद्धि विंशतिमं प्रिये
ईश्वर उवाच
प्रतीहारेश्वरं देवि विद्धि विंशतिमं प्रिये ॥
यस्य दर्शनमात्रेण धनवानिह जायते
॥१॥दक्षकोपात्त्वं च देवि पुरा प्राणैर्विसर्जितैः ॥
हिमाचले तथा जाता मया प्राप्ता पुनः प्रिये
॥२॥प्रारब्धा च मया देवि त्वया सार्द्धं रतिस्तदा ॥
दिव्यं वर्षशतं जातं साग्रं देवि प्रमोदतः ॥
अनुरागवशाच्चैव मन्मथेन प्रपीडिता
॥३॥महारतिं समीक्ष्याथ देवाः संक्षुब्धमानसाः ॥
चक्रुर्मंत्रं यथाकालं वासवाद्या यथोचितम्
॥४॥दिव्यं वर्षशतं रुद्रो गौर्या सह सदा रतिम् ॥
कुर्वंस्तिष्ठति देवोऽसौ मंदरे चारुकंदरे
॥५॥अनयोर्बीजसंपत्योः पुत्रो यो हि भवेत्तदा ॥
विनश्येत्तेन त्रैलोक्यमखिलं च न संशयः
॥६॥तस्य तेजोपि नो वोढुं समर्था निश्चितं वयम् ॥
तस्मात्तत्क्रियतां कर्म रतिर्येनो पशाम्यति
॥७॥उपायं दृष्टवांस्तत्र देवानां गुरुरग्रणीः ॥
बृहस्पतिर्महातेजा वेदशास्त्रार्थपारगः
॥८॥गच्छंतु त्रिदशाः सर्वे शिवस्य तु समीपतः ॥
स्वयं विज्ञाप्यतां देवस्तत्कर्म न करिष्यति
॥९॥इति निश्चित्य ते देवि जग्मुः शीघ्रं सुरास्तदा ॥
मंदराद्रेः शुभे द्वारि स्थितास्ते विस्मयान्विताः
॥१०॥गणानामधिपो नंदी द्वारि तिष्ठति यत्नतः ॥
त्वया सार्द्धमहं देवि कुर्वंस्तिष्ठामि तां रतिम्
॥११॥अथ प्रवेशो देवानां दुष्करो मम पार्श्वतः ॥
तदा चिंतयमानाश्च तत्र तिष्ठंति ते सुराः
॥१२॥अग्निना तद्धितं वाक्यमुक्तं तेषां पुरः शुभम् ॥
हंसरूपं समास्थाय यास्यामि शिवसन्निधौ
॥१३॥वंचयित्वा प्रतीहारं कृतं तेन तथैव च ॥
हंसरूपेण कथितं कर्णे मम शुचिस्मिते
॥१४॥इन्द्राद्या अमरा देवा द्वारि तिष्ठंति संयताः ॥
श्रुत्वा तस्य च तद्वाक्यं ततोहं द्वारमागतः
॥१५॥ततश्च तै- कुतो मह्यं प्रणामश्च यथाक्रमम् ॥
मया दृष्टाश्च ते देवा युष्माकं किं करोम्यहम्
॥१६॥तैरुक्तं त्यज्यतां चैव संभोगस्तु सुदारुणः ॥
तथा मया कृतं देवि गतास्ते त्रिदिवं पुनः
॥१७॥ततः शप्तो मया नंदी भूलोकं गच्छ सत्वरम् ॥
ततः शापपरिभ्रष्टः पृथिव्यां पतितस्तदा
॥१८॥सोच्छ्वासहृदयो दीनो दुःखव्याकुललोचनः ॥
विलपंश्च तथा नंदी विलुठञ्छोकतो भुवि
॥१९॥वंचितश्चाग्निना बाढं वासवेन विशेषतः ॥
किं मया दुष्कृतं कर्म कृतं किं चित्पुरातनम्
॥२०॥स दृष्टो लोकपालैस्तु तामवस्थां गतो गणः ॥
पृष्टश्च तैः कुतो नदिन्विलापं कुरुषे महत्
॥२१॥सर्वं निवेदितं तेन तेषामग्रे च नंदिना ॥
उपायः कथितस्तैश्च महाकालवनं ततः
॥२२॥ततश्च वचनं श्रुत्वा नंदी रोमांचकंचुकः ॥
महाकालवने देवि जगाम स तदा गणः ॥
पूजयामास विधिवद्धृत्वा कपालिकीं तनुम्
॥२३॥अशरीरसमुत्पन्ना वाणी लिंगात्तदा प्रिये ॥
संजाता शापमोक्षस्ते प्रतीहार सुभक्तितः ॥
पूजितोऽसौ महाभक्त्या प्रतीहारेण नंदिना
॥२४॥तदाप्रभृति लोकेस्मिन्प्रतीहारेश्वरेश्वरः ॥
मया ते कथितो देवि प्रतीहारेश्वरस्य च ॥
प्रभावः सर्वलोकानामत्यभीष्टफलप्रदः
॥२५॥पूजयिष्यंति ये भक्त्या प्रतीहारेश्वरं शिवम् ॥
स्थानभ्रंशो वियोगश्च तेषां स्वप्नेऽपि नो भवेत्
॥२६॥सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥
तत्सर्वं नाशमायाति प्रतीहारेश्वरार्चनात्
॥२७॥मनसा ये स्मरिष्यति प्रतीहारेश्वरं शिवम् ॥
एवं तस्य कुलं सर्वं याति स्वर्गं न संशयः
॥२८॥इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये प्रतीहारेश्वरमाहात्म्यवर्णनंनाम विंशोध्यायः ॥ २० ॥