मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३६

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 36

मार्कंडेयेश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

मार्कण्डेयेश्वरं विद्धि षट्त्रिंशत्तममीश्वरम् ॥

यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः

॥१॥

ब्रह्मवंशसमुत्पन्नो मृकण्डोनाम तापसः ॥

वेदाध्ययनसंपन्नः स चापुत्रो बभूव ह

॥२॥

पुत्रार्थं चिन्तयामाम कथं पुत्रो भवेदिति ॥

अपुत्रस्य कुतो लोक इति वेदेषु पठ्यते

॥३॥

तस्मात्तपः करिष्यामि येन मे तनयो भवेत् ॥

एवं संचित्य बहुधा स जगाम हिमालयम्

॥४॥

चकार वसतिं चापि तपसे भावितात्मवान् ॥

वायुभक्षोंबुभक्षश्च निराहारोर्ध्वपादकः

॥५॥

शाकमूलफलाहारः पर्णाश्येकद्विपर्णभुक् ॥

एवमादीनि चान्यानि तपांसि सुबहून्यपि

॥६॥

चकार स मुनिस्तत्र वर्षाणि द्वादशैव तु ॥

न तुष्टोऽहं तदा देवि तपसा दुष्करेण तु

॥७॥

ततो ज्ञात्वा मतिं तस्य विज्ञप्तोऽहं तदा त्वया ॥

करोत्येव तपः क्रूरं पुत्रहेतोर्मुनिर्महान्

॥८॥

तेजसा दीपयञ्छैलं शोषयन्सलिलाशयान् ॥

तपसा दुष्करेणैव क्षुभिता नाकवासिनः

॥९॥

समुद्राः क्षुभिताः सर्वे चन्द्रादित्यौ तथैव च ॥

ऋषयो विस्मृतिं प्राप्ताः कंपेते चापि रोदसी ॥

अकालप्रलयो देव भविष्यति न संशयः

॥१०॥

मुनये तन्मृकण्डाय पुत्रो वै दीयतामिति ॥

मया प्रोक्तं वरारोहे पुत्रमिच्छत्ययोनिजम्

॥११॥

अक्षयं सुविशालाक्षि सहस्राक्षमिवापरम् ॥

चन्द्राभं चन्द्रवदनं चन्द्रवद्भुवनप्रियम्

॥१२॥

नीलोत्पलदलश्यामं नीलोत्पलदलेक्षणम् ॥

विशालचारुजघनं चारुकुण्डलमंडितम् ॥

पुत्रमिच्छति देवेशि मृकण्डोऽयं महामुनिः

॥१३॥

त्वयाप्युक्तं पुनर्देवि कारुण्याद्भक्तिवत्सले ॥

न ददासि मुनेः पुत्रं तप्यतो विषमं तपः

॥१४॥

फलस्य दाता तपसां कथं त्वं गीयसे बुधैः ॥

कस्त्वां नु शरणं गच्छेल्लोकानां सम्भवं भवम्

॥१५॥

करोषि सर्वदैत्यानां सर्वदेवाकुलाकुलम् ॥

त्वयाहं सुचिरं देवं सत्कृता करुणाकर

॥१६॥

नान्यो मामनुकम्पार्थं प्रयच्छेत्प्रवरं वरम् ॥

स त्वं सर्वजगन्नाथ प्रभुः कर्त्ता प्रशासिता

॥१७॥

हेतुः स्वामी महेशानो दयालुर्भक्तवत्सलः ॥

सर्वेश्वर स्तुतोऽभीष्टं किं न विप्राय दीयते

॥१८॥

तपसा क्षीणपापस्य ब्रह्मत्वे भावितात्मनः ॥

अस्य पुत्रप्रदानं त्वं कुरु मद्वचनाच्छिव

॥१९॥

मया त्वं वर्णिता देवि स्नेहाक्षरपदैः शुभैः ॥

लोलपंकजपत्राक्षि गौरि भूधरगात्रजे

॥२०॥

स्कंदमातः कलापूर्णचंद्रबिम्बनिभानने ॥

कृशोदरि विनिःस्पृष्टचामीकरनिभद्युते

॥२१॥

त्वयोक्तं प्रकरिष्यामि वाक्यं द्विरदगामिनि ॥

त्वं सिद्धिः साधका साध्यं त्वं क्रिया प्रक्रमाश्रया

॥२२॥

त्वं माया श्रीर्द्युतिः श्रीमच्छ्रद्धारुचिरसंततिः ॥

कृत्वा मानं बहुविधं मयैव सह सुन्दरि

॥२३॥

भ्राजसे विविधाकारा मोहयित्वाखिलं जगत् ॥

त्वयाप्युक्तं पुनर्देवि क्रियतां तु वचो मम

॥२४॥

मुनयेऽस्मै तपःक्षीणसर्वगात्राय सांप्रतम् ॥

वरः प्रदीयतामस्मै ब्राह्मणाय महेश्वर

॥२५॥

मयाप्युक्तं विशालाक्षि श्रूयतां वचनं मम ॥

असौ गच्छतु विप्रेंद्रो महाकालवनोत्तमे

॥२६॥

पत्तनेश्वरपूर्वे तु तत्रास्ते लिंगमुत्तमम् ॥

पुत्रप्रदं विशालाक्षि महापातकनाशनम्

॥२७॥

मदीयं वचनं श्रुत्वा त्वयाप्युक्तो द्विजोत्तमः ॥

महाकालवनं गच्छ पुत्रार्थमृषि सत्तम ॥

तत्र लिंगं समाराध्य लप्स्यसे पुत्रमुत्तमम्

॥२८॥

त्वया संप्रेरितो विप्रस्तथेति कृतनिश्चयः ॥

आशया परया युक्तः पुत्रकामो जगाम सः

॥२९॥

तत्र दृष्ट्वा महालिंगं पुत्रदं पापनाशनम् ॥

भक्त्या संसेवयामास तपसा दुष्करेण तु

॥३०॥

अथ केनापि कालेन निःसृतोऽहं त्वया सह ॥

लिंगमध्याद्वरारोहे स च प्रोक्तो द्विजोत्तमः

॥३१॥

शर्वोऽहमिति जानीहि ब्रूहि किं करवाणि ते ॥

आवां पुरा प्रसन्नौ ते ज्ञातं तव विचेष्टितम्

॥३२॥

यमिच्छसि वरं ब्रह्मंस्तदद्य प्रददामि ते ॥

मया प्रोक्तः प्रसन्नेन मुनिः परमविस्मितः

॥३३॥

प्रह्वः प्राह सुहृदये स हृष्टो मुनि सत्तमः ॥

अपत्यहेतोर्देवेशौ किमलभ्यं भवेन्मम

॥३४॥

मया प्रोक्तस्तदा देवि मृकण्डो मुनिसत्तमः ॥

अयोनिजस्ते तनयो मानुषो वै भवि ष्यति ॥

ऐश्वर्यज्ञानसंपन्नो दीर्घायुः सर्ववित्सुधीः

॥३५॥

एतस्मिन्नंतरे देवि प्रादुर्भूतो महातपाः ॥

पुत्रः परमधर्मात्मा मार्कण्डेयो महामुनिः

॥३६॥

स जातमात्रो धर्मात्मा तत्रैव तपसि स्थितः ॥

देवमाराधयामास स तुष्टोऽथ वरं ददौ

॥३७॥

त्वयाहं जातमात्रेण तपसा तोषितो यतः ॥

तस्मात्ख्यातिं गमिष्यामि त्वन्नाम्ना द्विजसत्तम

॥३८॥

ये मां पश्यंति विप्रेंद्र भक्त्या परमया युताः ॥

प्राप्नुवंति गतिं नित्यं ते सदानंद दायिनीम्

॥३९॥

प्रसंगाद्ये गमिष्यंति ते सदा दुःखवर्जिताः ॥

देवदेवं समाराध्य मोदिष्यंति हि ते नराः

॥४०॥

त्र्यक्षा गणेश्वराः सिद्धाः सिद्धगंधर्वसेविताः ॥

ते भविष्यंति सततं मम भक्ताश्च ये नराः

॥४१॥

ये मां संपूजयिष्यंति हृद्यैः पुष्पैः सुगंधिभिः ॥

दीर्घायुषो भविष्यंति सदा दुःखविवर्जिताः

॥४२॥

इत्युक्ते तेन लिंगेन मार्कण्डेयो महातपाः ॥

तपश्चचार तत्रैव महाकालवने स्थितः

॥४३॥

प्रभावः कथितो देवि मार्कंडेयेश्वरस्य च ॥

शिवेश्वरस्य देवस्य माहात्म्यं शृणु सांप्रतम्

॥४४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये मार्कंडेयेश्वरमाहात्म्यवर्णनंनाम षट्त्रिशोऽध्यायः ॥ ३६ ॥