चत्वारिंशत्तमं सैकमीश्वरं विद्धि पार्वति
श्रीमहादेव उवाच
चत्वारिंशत्तमं सैकमीश्वरं विद्धि पार्वति ॥
लुंपेश्वरमिति ख्यातं नाम यस्य महीतले
॥१॥देशे म्लेच्छगणाकीर्णे बभूव जगतीपतिः ॥
लुंपाधिप इति ख्यातो महेंद्रसमविक्रमः
॥२॥तस्यासीद्दयिता भार्या विशालानाम नामतः ॥
सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि
॥३॥स युद्धकामो नृपतिः पर्यपृच्छद्विजोत्तमान्
॥४॥अथ केनापि कथितमाश्रमे सामगो द्विजः ॥
तेन सार्द्धं महाबाहो युध्यस्व त्वं नृपोत्तम
॥५॥ततः स प्रस्थितो राजा म्लेच्छैः सार्द्धं सहस्रशः ॥
तुषारैर्बर्बरैर्लुंपैः पह्लवैः श्वगणैस्तथा
॥६॥दस्युभिः संवृतः क्रूरैः क्रोधेनाकुलितेंद्रियः ॥
आजगामाश्रमं पुण्यं सामगस्य मुनेस्तदा
॥७॥मुनिना पूजितस्तेन मधुपर्कादिविष्टरैः ॥
एतस्मिन्नन्तरे राजा होमधेनुं ददर्श ह
॥८॥प्रार्थयामास सहसा न दत्ता मुनिना तदा ॥
प्रमथ्य चाश्रमं तस्य होमधेनुं जहार सः ॥
वनं बभंज सकलं तस्य विप्रस्य पश्यतः
॥९॥काल्यमानां च गां दृष्ट्वा वत्सं चातीव दुःखितम् ॥
उवाच वचनं विप्रो मा राजन्साहसं कुरु
॥१०॥एवं वदंतं विप्रेंद्रं शरैस्तीक्ष्णैर्जघान ह ॥
लुंपः क्रोधसमाविष्टो दुष्टो दुष्टजनैर्वृतः
॥११॥असकृत्पुत्रपुत्रेति विलपंतमनाथवत् ॥
हत्वा च सामगं विप्रं जगाम स्वगृहं नृपः
॥१२॥एतस्मिन्नंतरे पुत्रः समित्पाणिरुपागतः ॥
दृष्ट्वा च पितरं विप्रं तदा मृत्युवशं गतम् ॥
अनागसं महात्मानं विललाप सुदुःखितः
॥१३॥केनेदं कुत्सितं कर्म कृतं पापेन मे पिता ॥
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितेः
॥१४॥विलप्यैवं सकरुणं बहुना नाविधं तथा ॥
प्रेतकार्याणि सर्वाणि पितुश्चक्रे विधानतः
॥१५॥ददाह पितरं चाग्नौ तोयमादाय सत्वरम् ॥
तस्य लुंपाधिपस्यापि ददौ शापं सुदारुणम्
॥१६॥स्वधर्मनिरतो विद्वान्येन मे निहतः पिता ॥
स पापात्मा दुराचारः कुष्ठरोगमवाप्नुयात्
॥१७॥एतस्मिन्नन्तरे राजा कुष्ठरोगेण पीडितः ॥
अचंक्रमणतां प्राप्तो लुंपाधीशो वरानने
॥१८॥औषधैरधिकोऽभ्येति ब्रह्मशापप्रभावतः ॥
वैराग्यान्मर्तुकामोऽसौ काष्ठान्यादाय दुःखितः
॥१९॥चितां कर्तुं समारेभे समायातोऽथ नारदः ॥
पूजितो विधिना तेन दुःखितेन नृपेण हि
॥२०॥अथ पप्रच्छ लुंपोऽसौ नारदं मुनिसत्तमम् ॥
अकस्मान्मम देवर्षे कुष्ठरोगो बभूव ह ॥
तेनाहं पीडितोऽतीव न च शांतिं व्रजत्यसौ
॥२१॥औषधैर्वर्द्धते कस्मादेतदाख्यातुमर्हसि ॥
न तेस्त्वविदितं किंचिदिहलोके परत्र च
॥२२॥तस्य तद्वचनं श्रुत्वा लुंपाधीशस्य नारदः ॥
कथयामास तत्सर्वं ब्रह्मशापं सुदुस्तरम्
॥२३॥ततः सभार्यो नृपतिः प्रार्थयामास नारदम् ॥
कथं मे भगवञ्छापो दुस्तरो यास्यति क्षयम्
॥२४॥एवमुक्तस्तु लुम्पेन नारदो भगवानृषिः ॥
कारुण्यात्कथयामास सभार्यस्य यशस्विनि
॥२५॥महाकालवने राजँल्लिंगं कुष्ठहरं परम् ॥
सर्वसंपत्करं तत्र विद्यते पापनाशनम्
॥२६॥शिप्रायाश्च तटे रम्ये केशवार्कस्य पूर्वतः ॥
तत्र त्वं गच्छ राजेंद्र कांत्या युक्तो भविष्यसि
॥२७॥एवमुक्तस्तु लुंपोऽसौ ह्याजगाम त्वरान्वितः ॥
महाकालवनं रम्यं महर्षिगणसेवितम्
॥२८॥प्राप्तः स्वर्गोपमं भूपः शिप्रया परिशोभितम् ॥
विवेश च मुदा युक्तो दृष्ट्वा लिंगमनुत्तमम्
॥२९॥स्नात्वा शिप्राजले पुण्ये महापातकनाशने ॥
दर्शनात्तस्य लिंगस्य दिव्यरूपो वभूव ह
॥३०॥कुष्ठरोगेण मुक्तस्तु मुक्तो वै ब्रह्महत्यया ॥
कृतकृत्यो नृपो जातो दर्शनादेव पार्वति
॥३१॥स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ॥
तापसानां परं चक्रे सत्कारं भार्यया सह
॥३२॥ततः कृतस्वस्त्वयनस्तापसैस्तैर्महात्मभिः ॥
दिव्यज्ञानान्वितैर्दिव्यैः सूर्यवैश्वानरप्रभैः
॥३३॥कृतं नाम तदा तस्य लिंगस्य कमलानने ॥
लुंपेनाराधितो यस्माद्देवोऽयं कुष्ठनाशनः ॥
लुम्पेश्वर इति ख्यातो भविष्यति महीतले
॥३४॥पूजयिष्यंति ये भक्त्या लिंगं लुम्पेश्वरं परम् ॥
स्नात्वा शिप्राजले पुण्ये ते यास्यंति परं पदम्
॥३५॥प्रार्थयिष्यंति यान्कामान्मनसा।
चेप्सितान्प्रियान् ॥
तानाप्स्यंति न सन्देहो लुम्पेशस्य च दर्शनात्
॥३६॥महापापसमायुक्तो यः पश्यति समाहितः ॥
लिंगं लुम्पेश्वरं सोऽपि देवतुल्यो भविष्यति
॥३७॥गोघ्नश्चैव कृतघ्नश्च मातृहा गुरुतल्पगः ॥
दुष्टकर्मसमाचारो भ्रातृहा पितृहा तथा
॥३८॥लुम्पेश्वरं सकृत्पश्यन्मुच्यते सर्वकिल्बिषैः ॥
पूजितोऽपि दहेत्पापं सप्तजन्मार्जितं च यत्
॥३९॥इत्युक्त्वा मुनयः सर्वे पूजयामासु रन्विताः ॥
कुष्ठरोगविनिर्मुक्तो राजा स्वविषयं गतः
॥४०॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
लुम्पेश्वरस्य देवस्य शृणु गंगेश्वरं परम्
॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लुंपेश्वरमाहात्म्यव र्णनंनामैकोनचत्वारिंशोऽध्यायः ॥ ४१ ॥