मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ३

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 3

ढुंढेश्वरमाहात्म्यवर्णनम्

श्रीरुद्र उवाच

ढुंढेश्वरं तृतीयं तु सुखस्वर्गफलप्रदम् ॥

सर्वपापहरं लिगं नृणां दुष्कृतनाशनम्

॥१॥

ढुंढश्चासीत्पुरा देवि कैलासे गणनायकः ॥

स च कामी दुराचारो व्यसनोपहतेन्द्रियः

॥२॥

गतोऽसौ शक्रलोकं तु कौतुकार्थं यदृच्छया ॥

यत्र नृत्यति सा रंभा शक्रस्याग्रे विवृण्वती

॥३॥

भावान्बहुविधान्रम्यान्दृष्टिहस्तादिकाञ्छुभान्।

सूचीविद्धादिकरणान्पताकादिकहस्तकान् ॥

नृत्यं हस्तादिसंयुक्तं लयतालानुगं तथा

॥४॥

शक्रोऽपि त्रिदशैः सार्द्धं तन्मुखासक्तलोचनः ॥

बभूव हृष्टचेता वै हृषितांगरुहाननः

॥५॥

एतस्मिन्नंतरे देवि ढुंढस्तल्ललितेन तु ॥

कामरागवशेनैव भाव्यर्थेन च मोहितः

॥६॥

तेन रंगरता रंभा पुष्पगुच्छेन ताडिता ॥

स शप्तो वासवेनैव दृष्ट्वाऽन्यायं गणस्य तु

॥७॥

पत त्वं मानुषं लोकं रंगभंगस्त्वया कृतः ॥

इति शप्तो गणो देवि शक्रेणामिततेजसा

॥८॥

पतितो मानुषे लोके विसंज्ञो विह्वलेन्द्रियः ॥

कादिग्भूतो हतो त्साहो विललाप पुनःपुनः

॥९॥

अहोऽन्यायफलं प्राप्तं मया मोहादनुष्ठितम् ॥

तस्मान्नीतिर्विधातव्या पुरुषेण विजानता

॥१०॥

न्यायमार्गं समाश्रित्य येन सिद्धिर्भवेन्मम

॥११॥

इत्युक्त्वा स तपस्तेपे महेंद्रे पर्वतोत्तमे ॥

श्रीशैले मलये विंध्ये पारियात्रे यमालये

॥१२॥

नो सिद्धोऽसौ यदा देवि तदा गंगामहत्तटम् ॥

यमुनां चंद्रभागां च वितस्तां नर्मदां नदीम्

॥१३॥

गोदावरीं भीमरथीं कौशिकीं शारदां शिवाम् ॥

चर्मण्वतीं समासाद्य स्नात्वा त्यक्तक्रियोऽभवत्

॥१४॥

तीर्थं व्यर्थं तपो व्यर्थं तीर्थयात्राफलं यतः ॥

न प्राप्तं च मयाभीष्टमटता कर्मभूमिषु

॥१५॥

एतस्मिन्नंतरे देवि वागुवाचाशरीरिणी ॥

आश्वासयंती गणपं महाकालायने व्रज

॥१६॥

प्रयागाद्यानि तीर्थानि पृथिव्यां यानि संति वै ॥

सदा सिद्धिकरं तेषां महाकालं विशिष्यते

॥१७॥

तत्रास्ते सुमहापुण्यं लिंगं सर्वार्थसाधकम् ॥

पिशाचेश्वरसांनिध्ये तमाराधय सत्वरम्

॥१८॥

प्रसादात्तस्य लिंगस्य पुनर्यास्यसि शांकरम् ॥

लोकं तेजस्विनां गम्यं दुर्लभं पापिनां सदा

॥१९॥

इति श्रुत्वा ततो वाणीमाकाशस्थां गणस्तदा ॥

आजगाम मुदा युक्तो महाकालवनोत्तमे

॥२०॥

ददर्श तत्र तल्लिंगं सर्वसंपत्करं शुभम् ॥

पूजयामास देवेशं भक्त्या परमया युतः

॥२१॥

लिंगमध्यात्ततो वाणी निःसृता पर्व तात्मजे ॥

अहो तुष्टोस्मि ते वत्स किं कामं प्रददाम्यहम्

॥२२॥

ढुंढ उवाच

यदि तुष्टोऽसि देवेश शरणागतवत्सल ॥

त्वत्पादपंकजे भूयाद्भक्तिर्मेऽविचला सदा

॥२३॥

वरमेनं प्रयच्छाशु यदि तुष्टो महेश्वरः

॥२४॥

ये च त्वां मानवा देव पश्यंति परमेश्वर ॥

पापात्सद्यो विनिर्मुक्तास्ते भवंतु महीतले

॥२५॥

ढुंढस्य भाषितं श्रुत्वा लिंगेनोक्तं यशस्विनि ॥

ये च मां पूजयिष्यंति श्रद्धया परया पुनः ॥

ते भविष्यंति सततं सदा पातकवर्जिताः

॥२६॥

लप्स्यंति ते परान्कामान्भविष्यंति गणोत्तमाः ॥

पूज्याः सर्वेषु लोकेषु सर्वालंकारभूषिताः

॥२७॥

एवं लब्धवरो ढुंढः प्रांजलिः पुनरब्रवीत् ॥

मन्नाम्ना प्रथितं लिंगं संभूयाद्भुवने सदा

॥२८॥

एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति ॥

तदाप्रभृति विख्यातो देवो ढुंढे श्वरः परः

॥२९॥

यस्य दर्शनमात्रेण सदा सिद्धिर्भवेन्नृणाम्

॥३०॥

भक्त्या ये पूजयिष्यंति देवं ढुंढेश्वरं परम् ॥

आजन्मप्रभवं पापं तेषां यास्य ति तत्क्षणात्

॥३१॥

स एव सुकृती लोके स एव मम वल्लभः ॥

यः पश्यति नरो भक्त्या लिंगं ढुंढेश्वरं परम्

॥३२॥

राजसूयशतेनैव यत्पुण्यं च भविष्यति ॥

ततो भविष्यत्यधिकं ढुंढेश्वरनिरीक्षणात्

॥३३॥

मानसं वाचिकं वापि कायिकं गुह्यसंभवम् ॥

प्रकाशं वाऽप्रकाशं च प्रसंगादपि यत्कृ तम् ॥

तत्सर्वं यास्यति क्षिप्रं ढुंढेश्वरस्य दर्शनात्

॥३४॥

इत्युक्तस्तु मया देवि स ढुंढो गणनायकः ॥

कृतो लिंगस्य माहात्म्याद्गतो लोके मदीयके ॥

रेजे च गणपैः सार्द्धं ममाभीष्टतरोऽभवत्

॥३५॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

श्रवणात्कीर्त्तनाद्वापि मम लोके महीयते

॥३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये ढुंढेश्वरमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥