मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय १२

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 12

लोकपालेश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

द्वादशं विद्धि देवेशि लोकपालेश्वरं शिवम् ॥

यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते

॥१॥

पुरा दैत्यगणा देवि प्रादुर्भूताः सहस्रशः ॥

हिरण्यकशिपोर्वक्षःस्थलादतिपराक्रमाः

॥२॥

तैरियं वसुधा व्याप्ता सशैलवनकानना ॥

विध्वस्ताः स्वाश्रमाः सर्वे यज्ञा विध्वंसितास्तथा

॥३॥

ब्राह्मणा भक्षिताश्चैव वेद वेदांगपारगाः ॥

पूरितान्यग्निकुण्डानि पांसुना मधुना तथा

॥४॥

विध्वस्ताः कलशाः सर्वे मृद्भांडादि च चूर्णितम् ॥

निःस्वाध्यायवषट्कारा स्वधास्वाहाविवर्जिता

॥५॥

कृता च धरणी देवि नष्टयज्ञोत्सवाभवत् ॥

लोकपालास्ततो भीता माधवं शरणं गताः

॥६॥

ऊचुः प्रांजलयः सर्वे क्षुधार्ता दुःखिताः कृताः ॥

वयं ग्लानिं गता देव यज्ञभागं विना कृताः

॥७॥

वयं त्रातास्त्वया पूर्वं नमुचेर्वृषपर्वणः ॥

हिरण्यकशिपो रौद्रान्नरकाच्च मुरोस्तथा

॥८॥

तथा रक्ष सुरश्रेष्ठ भयं नः समुपस्थितम्

॥९॥

तेषां तद्वचनं श्रुत्वा शंखचक्रगदाधरः ॥

जगाम स ततो दैत्याः प्रविष्टा वरुणालयम् ॥

ते निष्क्रम्य ततो रात्रौ निघ्नंति द्विजसत्तमान् ॥

तापसान्दीक्षितान्देवि धर्मव्रतपरायणान्

॥११॥

अथ स्वर्गं गताः कांते जितः शक्रो मरुत्पतिः ॥

तथैव दक्षिणामाशां धर्मराजो जितस्ततः

॥१२॥

गत्वाथ पश्चिमामाशां जलराजो विनिर्जितः ॥

उत्तरे धनदो देवि तैर्दैत्यैः स विनिर्जितः

॥१३॥

ततस्ते व्याकुला जाता विष्णुं शरणमागताः ॥

उपायः कथितो देवि देवेभ्यो विष्णुना तदा

॥१४॥

महाकालवनं गत्वा देवा भक्त्या समाहिताः ॥

आराधयत सर्वेशं शंकरं लोकशंकरम्

॥१५॥

भवतां भविता सिद्धिस्तत्र तस्य प्रसादतः

॥१६॥

इति तस्य वचः श्रुत्वा कृष्णस्यामिततेजसः ॥

प्रस्थिता लोकपालास्ते महाकालवने शुभे

॥१७॥

तावत्तत्रैव संरुद्धा दैत्यैः शस्त्रधरैस्तदा ॥

भूयो नष्टाश्च संप्राप्ता यत्र देवो जनार्दनः

॥१८॥

कथयामासुरत्युग्रं यथा रुद्धं जगत्त्रयम् ॥

नारायणेन ते प्रोक्ता लोकपालाः पुनः पुनः

॥१९॥

यूयं व्रतधरा भूत्वा कपालैश्च विभूषिताः ॥

खट्वांगधारिणः शांताः पंचमुद्राविभूषिताः

॥२०॥

भस्मभूषितसर्वांगाः क्षुद्रघंटाविराजिताः ॥

महाव्रतधरा भूत्वा महाकालवनो त्तमम् ॥

गच्छध्वं ब्रह्मणा सार्द्धं पादबद्धैश्च नूपुरैः

॥२१॥

अथ ते लोकपालाश्च श्रुत्वा कृष्णस्य भाषितम् ॥

समायाता महादेवि कृत्वा कापालिकं वपुः

॥२२॥

तत्र दृष्टं महल्लिंगं तेजसां राशिमद्भुतम् ॥

स्तुतं च विविधैः स्तोत्रैर्लोकपालैः पुनःपुनः

॥२३॥

ततस्तु तस्य लिंगस्य वह्निज्वाला विनिःसृता ॥

यया ते दानवाः सर्वे दग्धा भस्मत्वमागताः

॥२४॥

ज्ञात्वा लिंगस्य माहात्म्यं नाम चक्रुः समाहिताः ॥

सेवितं लोकपालैस्तु लिंगं तेजोमयं परम्

॥२५॥

लोकपालेश्वरोनाम ख्यातिं यास्यति भूतले ॥

इत्युक्त्वा त्रिदशाः सर्वे लोकपालैः समावृताः ॥

स्वस्वस्थानं गता दिव्यं यथापूर्वं मुदान्विताः

॥२६॥

ये पश्यंति नरा देवि लोकपालेश्वरं शिवम् ॥

समृद्धिभिः सुसंपन्ना भवेयुर्जन्मजन्मसु

॥२७॥

न दारिद्र्यं न च व्याधिर्नाकालमरणं तथा ॥

ऐश्वर्यं चातुलं तेषां जायते दर्शनात्सदा

॥२८॥

यो यमुद्दिश्य वै कामं दर्शनं तु करिष्यति ॥

तस्य तज्जायते सर्वं मृतस्य परमा गतिः

॥२९॥

अश्वमेधस्य यज्ञस्य सम्यगिष्टस्य यत्फलम् ॥

तत्फलं लभते देवि लोकपाले श्वरार्चनात्

॥३०॥

प्रसंगेनापि यः पश्येल्लोकपालेश्वरं शिवम् ॥

मोदते स्वर्गलोके स लोकपालैः समं सदा

॥३१॥

संक्रांतौ सोमवारे च चतुर्दश्यां विशेषतः ॥

ये पश्यंति नरा भक्त्या ह्यष्टम्यामयनद्वये

॥३२॥

ते दुर्द्धर्षा भवंतीह शत्रूणां संगरे तथा ॥

मृता यांति विमानेन शक्रलोकं सुदुर्लभम्

॥३३॥

क्रमेण वारुणं लोकं धनदस्य यथासुखम् ॥

पुनः पैतामहं यांति लोकं देवैः सुदुर्लभम्

॥३४॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

दुर्लभः परमो गुह्यं कामेश्वरमथो शृणु

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये लोकपालेश्वरमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥