मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ५६

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 56

षट्पंचाशत्तमं विद्धि रेवंतेश्वरसंज्ञकम्

श्रीमहादेव उवाच

षट्पंचाशत्तमं विद्धि रेवंतेश्वरसंज्ञकम् ॥

यस्य दर्शनमात्रेण परा सिद्धिः प्रजायते

॥१॥

असहंती पुरा संज्ञा रवेस्तेजोऽतिदुःसहम् ॥

तपः कर्त्तुं गता देवि ज्ञाता सूर्येण सुव्रता

॥२॥

अश्वरूपं ततः कृत्वा जगामाथोत्तरान्कुरून् ॥

ददृशे तत्र संज्ञां च वडवारूपधारिणीम्

॥३॥

गता सा सम्मुखं तस्य पृष्ठरक्षणतत्परा ॥

ततोभून्नासिकायोगस्तयोस्तत्र समेतयोः

॥५॥

नासत्य दस्रौ तनयावश्ववक्त्रौ विनिर्गतौ ॥

रेतसोंऽते च रेवंतः खड्गी चर्मी तनुत्रधृक्

॥६॥

अश्वारूढः समुद्भूतस्ततो बाणधनुर्द्धरः ॥

तेन वै जातमात्रेण अश्वारूढेन लीलया ॥

निर्जितं च जगच्चेदं सदेवासुरमानुषम्

॥७॥

ततो देवाः पराभूता ब्रह्माणं शरणं गताः ॥

प्रणम्य कथयामासुर्भयकंपितकं धराः

॥८॥

अस्माकं विभवं तेजो रविपुत्रेण नाशितम् ॥

रेवंतेन सुरेंद्रेण शृणु लोकपितामह

॥९॥

तस्य गात्रसमुद्भूतो वह्निर्धावति काल जित् ॥

ज्वलंति पादपास्तेन पतंति शिखराणि च

॥१०॥

सर्वतो व्याकुलीभूतं हाहाकारमचेतनम् ॥

तेनैव पीडितं सर्वं ज्वालामालासमाकुलम्

॥११॥

दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः ॥

सर्वं किंशुकसंकाशं प्रज्वलन्निव दृश्यते

॥१२॥

इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने ॥

ज्ञातं मया सुरश्रेष्ठा भवतां कार्यमीदृशम्

॥१३॥

भविष्यति च वस्तच्च कांक्षितं यत्सुरोत्तमाः ॥

गच्छध्वं सहसा तस्माच्छंकरं शरणं सुराः

॥१४॥

ब्रह्मणो वचनं श्रुत्वा ममांतिकमुपागताः ॥

त्रिदशा भयसंत्रस्ता नत्वा मामि दमब्रुवन्

॥१५॥

आदित्यतनयेनैव रेवंतेन महेश्वर ॥

दग्धं त्रिभुवनं सर्वं शरीरस्थेन वह्निना ॥

तेजसा महता चैव विक्रमेण बलेन च

॥१६॥

असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम ॥

भवान्प्रभवते तस्य नान्यः शंकर कश्चन

॥१७॥

त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः ॥

शरणं वरदं देवं त्रिदशानां महेश्वर

॥१८॥

मया स्मृतः सूर्यपुत्रो रेवंतस्तत्क्षणात्प्रिये ॥

प्राप्तः प्रीतिप्रसन्नात्मा वचनं चेदमब्रवीत्

॥१९॥

किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः ॥

ततो मया सूर्यपुत्र उत्संगे च कृतस्तदा

॥२०॥

स्नेहादाचुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः ॥

ददामि ते महाभाग वरं वरय सुव्रत

॥२१॥

परितुष्टोस्मि ते कामं यथेष्टं काममाप्नुहि ॥

इदमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि

॥२२॥

ममाभीष्टं परं स्थानं विद्यते पृथिवीतले ॥

अक्षयं प्रलये पुत्र महाकालवनं शुभम् ॥

तत्र दास्यामि ते स्थानं तत्र कीर्त्तिर्भविप्यति

॥२३॥

पूर्वे कंटेश्वरस्यापि स्थानं परमदुर्ल्भम् ॥

तत्र त्वं वस रेवंत लिंगं द्रक्ष्यसि शाश्वतम्

॥२४॥

सर्वदा त्रिदशैः पूज्यो भविष्यसि न संशयः ॥

गुह्यकाधिपतिस्त्वं च स्वर्गलोके भविष्यसि

॥२५॥

अश्वशालासु सर्वासु पूजनीयो भविष्यसि ॥

नृपतीनां गृहे चैव वसिष्यसि सुपूजितः

॥२६॥

तेजो मदीयं तत्स्थानं लिंगाकारं सनातनम् ॥

पूजितं त्रिदशैस्तत्र संसेव्यं यत्नतस्त्वया

॥२७॥

एवमुक्तो मया देवि रेवंतो रविजस्तदा ॥

जगामाकाशमाविश्य महाकालवनं क्षणात्

॥२८॥

ददर्श तत्र तल्लिंगं ज्योतीरूपं सनातनम् ॥

सूर्यपुत्रस्तु रेवंतो दृष्टो लिंगेन पार्वति

॥२९॥

प्रोक्तः प्रणयपूर्वेण दिष्ट्या दृष्टोऽसि सूर्यज ॥

अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले

॥३०॥

स्थातव्यं मत्समीपे तु सूर्यपुत्र त्वया सदा ॥

अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये

॥३१॥

रेवंतेश्वरसंज्ञोऽहं भविष्यामि न संशयः ॥

ये मां द्रक्ष्यंति रेवंत भक्त्या परमया युताः ॥

तेषामश्वा भविष्यंति विजयो यश ऊर्जितम्

॥३२॥

ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम् ॥

गुह्यकानां पतिर्भूत्वा स्वर्गलोके स वत्स्यति

॥३३॥

लिंगस्य वचनं श्रुत्वा प्रोक्तं वै रविसूनुना ॥

रेवंतेन विशालाक्षि संतुष्टेनांतरात्मना

॥३४॥

देहि मे ह्यचला भक्तिं देहि मे स्थानमुत्तमम् ॥

देहि मे परमं ज्ञानं ध्रुवां कीर्तिं च देहि मे

॥३५॥

भगवन्भूतभव्येश भवबंधभयापह ।

संस्कृतार्थोऽस्मि संजातस्तव देवस्य दर्शनात्

॥३६॥

जन्मकोटिसुसंशुद्धा ये त्वां पश्यंति देहिनः ॥

न तेषां पुनरावृत्तिर्घोरसंसारसागरे

॥३७॥

इत्युक्त्वा रविसूनुर्वै रेवंतो रविवल्लभः ॥

रेवंतेश्वरदेवस्य समीपे संव्यवस्थितः

॥३८॥

एष ते कथितो देवि प्रभावः पापनाशनः ।

रेवंतेश्वरदेवस्य घंटेश्वरमथो शृणु

॥३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्ग माहात्म्ये रेवंतेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽयायः

॥५६॥