सोमेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
विद्धि षड्विंशकं देवि देवं सोमेश्वरं परम् ॥
यस्य दर्शनमात्रेण निष्कलंको नरो भवेत्
॥१॥अत्रिर्नाम महाभागो ब्रह्मणो मानसः सुतः ॥
प्रजापतिरभूद्देवि कल्पे वाराहसंज्ञके
॥२॥तस्य पुत्रोऽभवत्सोमो दक्षोथ मातृभागतः ॥
सप्तविंशतिर्याः कन्या दाक्षायण्यः प्रकीर्तिताः
॥३॥सोमपत्न्यो हि मंतव्यास्तासां श्रेष्ठा तु रोहिणी ॥
तामेव भजते सोमो नेतरां इति शुश्रुम
॥४॥इतराः प्रोचुरागत्य दक्षस्याग्रे यथातथम् ॥
दक्षोऽथ स तदागत्य तमुवाच स नाकरोत्
॥५॥यदा न वारितस्तस्थौ दक्षः कुद्धस्तदा प्रिये ॥
शशाप सोमं संक्रुद्धः शीघ्रमंतर्हितो भव
॥६॥एवं शप्तस्तु सोमो वै तदा ह्यंतर्हितोऽभवत् ॥
शशाप सोमो दक्षं तु भवानपि भविष्यति
॥७॥अनेकत्वं विहायैतज्जलदेहं सनातनम् ॥
अतः प्राचेतसो दक्षो ब्रह्मपुत्रोऽपि गीयते
॥८॥एवमंतर्हितः सोमो गतो वै दक्षशापतः ॥
देवाश्च नागा यक्षाश्च गंधर्वाः पितृभिः सह ॥
वैराजं ब्रह्मसदनं ब्रह्माणं समुपस्थिताः
॥९॥तस्याग्रे कथयामासुर्नमस्कृत्य पुनःपुनः ॥
भगवन्सर्वभूतानामादिकर्त्ता स्वयंभुवः
॥१०॥स्रष्टा च हव्यकव्यानां पाहि नः शरणागतान् ॥
देवानां वचनं श्रुत्वा ज्ञात्वा देवः प्रजापतिः
॥११॥आश्वासयामास सुरान्सुश्लिष्टैर्वचनांबुभिः ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं कर्मणः फलम्
॥१२॥शापांतं भगवान्देवो विष्णुरेव करिष्यति ॥
एतच्छ्रुत्वा ततो देवा वाक्यं पंकजजन्मनः ॥
शरण्यं शरणं विष्णुमुपतस्थुर्गतव्यथाः
॥१३॥ब्रह्मणा सहिता देवि स्तुतिं चक्रुः समाहिताः ॥
नमस्ते देवदेवेश नमस्ते विश्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
॥१४॥नारायण जगन्नाथ देवास्त्वां शरणं गताः ॥
त्वं हि नः परमो ध्येय स्त्वं हि नः परमो गुरुः
॥१५॥त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥
अंतर्धानं गतः सोमो दक्षशापाज्जनार्द्दन
॥१६॥विना सोमेन चौषध्यो नष्टा देव महीतले ॥
तेषां तद्वचनं श्रुत्वा विष्णुर्वचनमव्रवीत्
॥१७॥भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥
नष्टं चंद्रमसं शीघ्रं मानयिष्याम्यसंशयम्
॥१८॥एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान् ॥
सोमं सस्मार सहसा शंखचक्रगदाधरः
॥१९॥यदा स्मृतो न चाभ्येति तदा क्रुद्धो जनार्दनः ॥
पुराणपुरुषो देवो ब्रह्माणमिदमव्रवीत्
॥२०॥देवैरसुरसंघैश्च मथ्यतां कलशोदधिः ॥
भविष्यति पुनश्चंद्रो मथ्यमाने महोदधौ
॥२१॥अमृतं तत्र लप्स्यध्वं रत्नानि विविधानि च ॥
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति
॥२२॥मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥
देवा मथितुमारब्धाः समुद्रं निधिमंभसाम्
॥२३॥सोमार्थे च पुरा देवि तथैवासुरदानवाः ॥
एतैर्मुखमुपाश्लिष्टौ नाग राजो महेर्ष्यया
॥२४॥विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥
अतो वै भगवान्देवो यतो नारायणस्ततः
॥२५॥शिरस्युद्यम्य नाग स्य पुनः पुनरवाक्षिपत् ॥
उदधौ मथ्यमाने वै महाञ्छब्दो बभूव ह
॥२६॥तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ॥
विलयं समुपाजग्मुः शतशोथ सहस्रशः
॥२७॥तस्मिंस्तु मथिते देवि प्रयत्नात्केशवस्य च ॥
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्वलः
॥२८॥तमेव देवा मनुजाः पितरश्च यशस्विनि ॥
उपजीवंति वृक्षाश्च तथैवौषधयो विधुम्
॥२९॥समुत्पन्नमथो दृष्ट्वा भगवान्प्राह केशवः ॥
पालयेमाः प्रजाश्चंद्र त्वं ज्येष्ठो जगतो भव
॥३०॥इत्युक्तो वासुदेवेन प्रजाः पालयितुं शशी ॥
पूर्वं सोमोपि यो नष्टः प्रविष्टो गहनं वनम्
॥३१॥तस्याग्रे नारदः सर्वं कथयामास सत्वरम् ॥
देवर्षेर्वचनं श्रुत्वा नारदस्य महात्मनः
॥३२॥पीडितो दक्षशापेन सोमोऽप्यंतर्हितस्तदा ॥
जगाम शरणं देवि ब्रह्माणं परमेष्ठिनम्
॥३३॥तत्र गत्वा यथाशापं कथयामास गद्गदः ॥
पूर्वचंद्रवचः श्रुत्वा ब्रह्मा वचनमब्रवीत्
॥३४॥अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् ॥
नवेनोदधिजातेन किं मया क्रियते पुनः
॥३५॥विष्णुना च बलं दत्तमस्मै चंद्रमसे दृढम् ॥
तस्माद्यास्यामि तत्राहं यत्र देवो जनार्दनः
॥३६॥तं दृष्ट्वा मधुहंतारं ब्रह्मा विष्णुमुवाच ह ॥
त्वदादेशाजगन्नाथ एष चंद्रः कृतो मया
॥३७॥स चायं पीडितो देव शशांकेन नवेन वै ॥
इत्युक्तो ब्रह्मणा देवि वासुदेवो जगत्पतिः ॥
वृत्तांतं कथयामास ब्रह्माग्रे च पुनःपुन.
॥३८॥ब्रह्मापि पूर्वचंद्रार्थे विष्णुं लोकनमस्कृतम् ॥
तुष्टाव प्रणतो भूत्वा प्रांजलिः प्रणतः स्थितः
॥३९॥नमः कृष्ण नमो विष्णो नमो जिष्णो नमोनमः ॥
नमो वामन गोविंद नमोऽनंत नमोऽच्युत
॥४०॥जयस्व गोविंद महानुभाव जयस्व विश्णो जय पद्मनाभ ॥
जयस्व सर्वाद्य गदाधरेश जयस्व विश्वेश्वर विश्वमूर्त्ते
॥४१॥एवं स्तुतस्तदा देवि ब्रह्मणा लोककारिणा ॥
समीपस्थं समालोक्य सोमं वचनम ब्रवीत्
॥४२॥गच्छ सोम ममादेशान्महाकालवनोत्तमे ॥
उत्तरे मुक्तिलिंगस्य लिंगं कातिकरं परम् ॥
तमाराधय यत्नेन स ते देहं प्रदास्यति
॥४३॥इत्युक्तो वासुदेवेन ब्रह्मणा च पुनः पुनः ॥
आजगाम महादेवि महाकालवनोत्तमे ॥
लिंगं दृष्ट्वा च तुष्टाव स्तोत्रेणानेन सुव्रते
॥४४॥चंद्र उवाच
नमो देवाधिदेवाय त्रिनेत्राय महात्मने ॥
रक्तपिंगलनेत्राय जटामुकुटधारिणे
॥४५॥भूतवेतालजुष्टाय महादेवाय शूलिने ॥
भीमाट्टहासयुक्ताय कपर्दिस्थाणवे नमः
॥४६॥पूष्णो दंतविनाशाय तथांधकविनाशिने ॥
कैलासवरवासाय सर्वदेवायते नमः
॥४७॥विकरालोर्द्ध्वकेशाय भैरवाय नमोनमः ॥
अग्निज्वालाकरालाय कलिधर्मविवासिने
॥४८॥तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥
कृतकंकणभोगींद्रकंठसूत्राय शूलिने
॥४९॥प्रचंडदंडहस्ताय वडवाग्निमुखाय च ॥
वेदांतवेद्याय नमो यज्ञमूर्ते नमोनमः
॥५०॥दक्षयज्ञविनाशाय जगद्भयकराय च ॥
विश्वेश्वराय देवाय स्थूलसूक्ष्माय शंभवे ॥
कपर्दिने करालाय सर्वदेवाय ते नमः
॥५१॥एवं स्तुतस्तदा देवि चंद्रेणांतर्हितेन च ॥
लिंगरूपी महादेवस्तुष्टो वाक्यमथाब्रवीत्
॥५२॥स्तोत्रेणानेन तुष्टोऽस्मि ब्रूहि सोम किमिच्छसि ॥
यत्तेभिलषितं सर्वं तत्कर्त्तास्मि न संशयः
॥५३॥सोम उवाच
यदि त्वहमनुग्राह्यो यदि तुष्टोऽसि मे प्रभो ॥
कांत्या दीप्त्या तथा मूर्त्या तथा रूपेण च प्रभो
॥५४॥स्वपदं कर्त्तुमिच्छामि त्वत्प्रसादान्महेश्वर ॥
एवमस्त्विति लिंगेन तत्क्षणाद्रजनीचर
॥५५॥द्विजराजेन तत्प्राप्तं लिंगस्यास्य प्रसादतः ॥
सोमेनाराधितो यस्माद्देवदेवो महेश्वरि
॥५६॥तेन सोमेश्वरोनाम विख्यातो भुवनत्रये ॥
येऽर्चयंति महादेवि देवं सोमेश्वरंपरम्
॥५७॥कृत पुण्या नरा मर्त्यास्ते यांति परमं पदम् ॥
यः पश्यति नरो भक्त्या लिंगं सोमेश्वरं प्रिये
॥५८॥विमुक्तो जन्मदुःखाद्यैर्लीयते मयि मानवः ॥
ते नराः पशवो लोके किं तेषां जीविते फलम्
॥५९॥यैश्च सोमेश्वरो देवो न दृष्टो न च पूजितः ॥
संसारेऽस्मिन्महाघोरे जन्मरोगभयाकुले
॥६०॥एकः सोमेश्वरः पूज्यः कुष्ठरोगविनाशनः ॥
स एव सुकृती लोके कुलं तेनाभ्यलंकृतम्
॥६१॥आधारः सर्वलोकानां येन सोमेश्वरो ऽर्चितः ॥
सकृदभ्यर्च्य सोमेशं बिल्वपत्रेण मानवः ॥
मुक्तो भोगी निरातंको मम लोके वसेच्चिरम्
॥६२॥कांचनैः कुसुमैर्देवि लिंगं सोमेश्वरं प्रिये ॥
पूजयंति नरा भक्त्या ते यांति परमां गतिम्
॥६३॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
सोमेश्वरस्य देवस्य शृणुष्वानरकेश्वरम्
॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥